पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 551, कुल 1267 में से
संदर्भ में पढ़ें५०४ ब्रह्मसूत्रभाष्यम्. [ अध्यां - २. पां - २. ] कारणे सति कार्यं भवत्येवेति नियमान्निस्सन्तानः स सन्तानश्च विनाशो न युज्यते ॥ २२ ॥ ख्यम् । सन्तानः कार्यपरम्परा निर्गतः सन्तानो यस्मान्नाशात्स तथो- क्तः । सन्तानमन्तरेणेति यावत् । ससन्तान इत्यस्य प्रतियोगितया सन्तानेन सहित इत्यर्थः । विनाश इत्युभयान्वयी । कारणस्येति शे- षः । चः समुच्चये । निस्सन्तानः ससन्तानश्चेत्यनेन प्रतिसङ्ख्याऽप्रति- सङ्ख्याशब्दौ व्युत्क्रमेण व्याख्यातौ । तत्राद्यनाशे सन्तानस्य नाशा- न्वयाभावः । द्वितीये तु तस्याप्येवं अविच्छेदोऽपि। प्रथमपक्षे कार्यवि- च्छेदाभावः , द्वितीये तु सन्तानोच्छेदाभावरूप इति विवेकः । विना- शश्चेति चशब्दो न केवलं विनाशद्वयसमुच्चये , किन्तु न केवलं प- रपक्षे कार्योत्पादो न युज्यते , किन्तु विनाशश्चेति समुच्चयेऽपि । ते- न सूत्रे चशब्दोऽनुवर्त्य इति सूचितम् । न युज्यत इत्यनेनाप्राप्तिशब्दो ऽनुपपत्त्यर्थकतया व्याख्यातः । यद्यपि प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरो- धशब्दौ प्रतिसङ्ख्यापदोक्तबुद्धिपूर्वकविनाशार्थकतया बौद्धैः परिभा- षितौ । तथापि घटादेः प्रतिक्षणविनाशस्याबुद्धिपूर्वकत्वात् सन्तानेन सहात्यन्तिकविनाशस्य मुसलप्रहारादिजन्यस्य प्रायेण बुद्धिपूर्वकत्वा- त्प्रतिक्षणविनाशसन्तानविनाशौ तदुभयशब्दार्थत्वेनोक्तावित्यदोषः । प्रतिक्षणे जायमानस्य घटादेः निस्सन्ताननाशस्य प्राथमिकत्वादात्य- न्तिकनाशस्य ससन्तानस्य चानन्तरभावित्वात् तदभिप्रायेण भाष्ये व्युत्क्रमेण व्याख्यानम् । अनेन न केवलं क्षणिकमते कार्योत्पत्तिर्युक्ता , किन्तु प्रतिसङ्ख्याऽप्रतिसङ्ख्यानिरोधावपि , कुतोऽविच्छेदात् । न हि कार्योत्पत्तिविच्छेदो युज्यते । क्षणिकत्ववादिना हि प्रतिक्षणं कारणं कार्यमुत्पाद्य नश्यतीति वक्तव्यम् । अन्यथा सन्तानसाहित्येन नाशा- पत्तेः । क्षणिकत्वविरोधाच्च। क्षणिकस्य चोत्पत्तिकाल एव वियोगका- लः । एवं चेत् कार्योत्पत्तिकाले सतः कारणस्य तद्वियोगकालेऽपि स- त्त्वं प्राप्तम् । अन्यथा कार्येण वियोगानुपपत्तेः । एवं वियोगकालेऽपि कारणं कार्यमुत्पादयेत् । सतोऽपि कारणस्य कुतः कार्योत्पादकत्वम्,अ- विच्छेदात्,कारणे सति कार्यं भवत्येवेति नियमाभ्युपगमात्। एवं तदु- त्पत्यनन्तरमपि कार्यान्तरमुत्पादयेदिति सिद्धः कार्योत्पत्त्यविच्छेदः । एवं सति हि घटस्यात्यन्तिको नाशः न त्वसतः, अतोऽसौ सत्त्वात्कार्यं उत्पादयेदेव । कुतोऽविच्छेदात् । कारणे सति कार्यं भवत्येवेति निय-