पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 545, कुल 1267 में से
संदर्भ में पढ़ें४९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - २. ] श्रुतिस्मृत्यपरिगृहीतत्वाच्चातिशयेन अनपेक्षता । ( १२ ) आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थकाम् । इति च मोक्षधर्मे ॥ १७ ॥ ――:✻:―― ७. अधिकरणम् ॥ ( १ ) परमाणुपुञ्जवादिमतमपाकरोति । त तद्वानुकूल्याभावादित्यर्थः । द्वितीयव्याख्याने तु परिगृह्यत १.ते प- रिग्रहः न परिग्रहः अपरिग्रहः इति विग्रहः। नञश्च विरुद्धार्थता । भां- वप्रधाननिर्देशश्च अयमिति ज्ञातव्यं, प्रधानकारणत्ववादापेक्षया अति- शयेनेत्यनेन अत्यन्तशब्दस्य अनपेक्षता अनादरणीयतेति। अनेन अनपे- क्षेत्यस्यच अर्थ उक्तः। सूत्रे न अपेक्षा अनपेक्षेति विग्रहः। शिष्टैः कार्ये- तिशेषः। परमाण्वारंभाद् इति च प्रकरणाल्लभ्यते ॥ ( १२ ) यद्वादि श्रुतिस्मृतिविरुद्धत्वादिति तत्स्मृतिसिद्धमित्या- ह-आन्वीक्षिकीमिति ॥ इदं च-‘ इन्द्रः सृगालरूपेण बभाषे कश्यमा- नसं ’ इति पूर्ववाक्ये प्रकृतस्य सृगालरूपस्य इन्द्रस्य कंचित्प्रति वा- क्यम् । एतच्च ‘अहमासं पण्डितको हेतुको वेद निन्दकः’ इति पूर्वेण ‘तस्येयं फलनिष्पत्तिस्सृगालत्वं यतो मम’ इत्युत्तरेण वा- क्येन च व्याख्येयम् । तथा हि-यतः अहं ‘पण्डितकः’ कुत्सितो विद्वान् ‘हेतुकः’ शुष्कानुमानप्रामाण्यवादी अतएव स्वतर्कविरुद्धवेदपदोक्त- सदागमार्थनिन्दकश्च ‘आसम्’ अभूवम्, न केवलमेतावत्,किन्तु‘आन्वीक्ष- कीं’दृष्टवद्युत्प्रेक्षारूपां ‘निरर्थकां’ परमात्मोत्कर्षाबोधकत्वान्निर्विषयां मो- क्षासाधकत्वान्निष्प्रयोजनां तर्कविद्यामनुरक्तः तत्रातीवासक्तोऽभवम्। अतस्तस्यानुरागस्येदं सृगालत्वं फलरूपमिति । अत्रेन्द्रेण तर्कविद्या- नुरागस्य जम्बुकजन्महेतुत्वोक्त्या वेदनिन्दक इत्युक्त्या च तर्कवि- द Dyारूपपरमाण्वारम्भवादस्य ‘ आत्मन आकाशः’( तै. १ - २. )‘ उ- त्पत्तिस्थितिसंहाराः’ इत्यादिश्रुतिस्मृतिविरुद्धत्वं ज्ञायत इति न हेत्व- सिद्धिः । मोक्षधर्म इत्यस्य श्रुत्यादिविरुद्धत्वं उक्तमिति अध्याहृते- नान्वयः ॥ ६ ॥ ॥ इति वैशेषिकाधिकरणम् ॥ ―――― ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणप्रतिपाद्यं दर्शयति―परमाणुपुञ्जेति ॥ अत्राधि-