पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 568, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - ४०. ] दीपिकासहितम्. ५२१ (४) सू—ॐ ॥ करणवच्चेन्न भोगादिभ्यः ॥ ॐ ॥ ४० ॥ इदमेव जगतस्तस्य करणवदधिष्ठानादिरूपं नित्यस्यापि कस्य चिद्भावाद्युज्यत इति चेत्— ऽपि न जगत्कर्तृत्वमित्यनेन 'अधिष्ठानानुपपत्तेः' अधिष्ठानाभावाच्च न पत्युः जगत्कर्तृत्वमिति सूत्रार्थो दर्शितः। अत्राप्रयोजकत्वमाशङ्क्य तत्परिहाराय सूत्रे अधिष्ठानाभावादित्यनुक्त्वा अधिष्ठानानुपपत्तेः अ- धिष्ठानाख्यव्याप्याभावादित्युक्तिबलात्सूचितां व्यतिरेकव्याप्तिं सामा- न्यतः सहदृष्टान्तं दर्शयति—पृथिव्यादीति । 'पृथिव्याद्यधिष्ठाने' भूम्याद्यधिकरणे । हिः प्रसिद्धौ । 'कार्ये' घटादि ॥ (४) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे —करणवदिति ॥ इदमेवेति । मायादिकारकसमुदायरूपं जगदेवेत्य- र्थः । न ततोऽन्यत् मृग्यमित्येवशब्दार्थः । 'तस्य' ईश्वरस्य । अनेन सूत्रे पत्युरिदमेवेति पदानुषङ्गो दर्शितः । 'करणवत्' करणमस्मदा- दिशरीरेन्द्रियादि तद्वत् समानं भवति , साक्षात्प्रयत्नाधिष्ठेयत्वसा- म्यात् । यत एवमतस्तस्य् इदमेवाधिष्ठानादिस्वरूपं भवतीत्यर्थः । आदिपदेनेह विवक्षितं सम्बन्धोपपादकं शरीरं गृह्यते । यद्यप्यस्य सू- त्रस्य व्यवहिताव्यवहितपूर्वसूत्रद्वयोक्तानुपपत्तिद्वयपरिहारनिरासक- त्वात् व्यवहितपूर्वसूत्रेऽशरीरत्वस्य हेतुत्वेनोक्तत्वात् इदमेव विश्वं शरीरादिरूपमिति वक्तव्यम् । अतएवानुव्याख्याने 'देहादिवद्विश्वम्' इत्युक्तम् । तथाऽपि सन्निहितपरित्यागकारणाभावादधिष्ठानादिरूप- मित्यक्तावपि उभयानुपपत्तिपरिहारप्रतीतेस्तन्निरासोऽत्र युज्यत एवे- त्याशयेनाधिष्ठानादीत्युक्तम् । अनुव्याख्याने तु उभयानुपपत्तिपरिहार- निरासकत्वज्ञापनायोभयमध्ये 'करणवच्चेत्' इत्यस्य सूत्रस्य व्याख्या- त्वात् तदनुसारेण सन्निधिमनादृत्य देहादिवदित्युक्तमिति न विरोधः। अधिष्ठानादिरूपमित्यनन्तरं अतो न तदनुपपत्तिरिति वाक्यशेषः । ननु प्रलये सर्वस्यापि विनाशात् कारकसमूहस्यापि नाधिष्ठानत्वाद्, युज्यत इत्यत आह—नित्यस्येति । अपिः प्रलयेऽपीत्यध्याहृतेनान्वेति। अधिष्ठानादीति भावप्रधानमिहानुषज्यते । युज्यत इति चावर्तते । त- था च यतः प्रलयेऽपि 'कस्यचित्' मायादिरूपकारकसमूहस्य नि- त्यस्य 'भावात्' विद्यमानत्वात् तस्याधिष्ठानादिरूपत्वं युज्यते तदुक्तं युज्यत इति च योजना ॥ ६६