भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 584, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 584

[ अधि - १. सू - ७. ] दीपिकासहितम्. ५३७ ( १३ ) एकोऽविभक्तः परमः प्ररुषो विष्णुरुच्यते । प्रकृतिः पुरुषः कालश्चय एते विभागतः ॥ ( १४ ) चतुर्थस्तु महान् प्रोक्तः पञ्चमाऽहङ्कृतिर्मता । तद्विभागेन जायन्त आकाशाद्याः पृथक्पृथक् ॥ ( १५ ) यो विभागी विकारः स सोऽविकारः परो हरिः । अविभागात्परानन्दो नित्यो नित्यगुणात्मकः ॥ ( १३ ) सूत्रार्थे स्मृतिसम्मतिं चाह—एक इति ॥ यतो विष्णुरेक एव परमपुरुषः । अतः स एक एवाविभक्त उच्यते । एतत्समर्थनाया न्येषां विभक्तत्वमाह—प्रकृतिरिति । प्रकृतिः पुरुषः कालः इति । ए तैः प्रान्नित्यत्वेन उत्तरत्र परनित्यत्वेन च गृहीतानां ग्रहणम् । तत्त्वप्र दीपे तु प्रकृतिः पुरुषः काल इत्येतैः परनित्यभूताः श्रीभूदुर्गाः सत्त्वा द्यात्मिकाः गृह्यन्त इत्युक्तम् । तत् नित्यस्याप्युपलक्षकं, श्रुत्यर्थनिर्णाय कत्वात्स्मृतेः । श्रुतावक्रमेण निर्दिष्टानामपीह क्रमेण निर्देशः कृतः । तथा च प्रकृतिः पुरुषः काल इत्येते त्रयो 'विभागतो' विभागत्वेन प्रोक्ता इत्यर्थः ॥ ( १४ ) एवं विभक्तेषु त्रीन् तत्त्वदेवान् प्रदर्श्य तत्सृज्यं चतुर्थमा ह—चतुर्थ इति ॥ 'महान्' महत्तत्त्वाभिमानी चतुर्मुखस्तु विभक्तेषु 'चतुर्थः प्रोक्तः' तत्त्वेन परिगणितः । 'अहंकृतिः' रुद्रस्तु 'पञ्चमा' पञ्चमीत्वेन मता । अस्त्वेवं, ततः किमित्यत आह—तदिति । स चा सौ विभागश्च स तथोक्तः । तथा च तेन विभक्तत्वरूपहेतुना आका शाद्याः 'पृथक्पृथक्' प्रकृतिगुणेभ्यो महान्, ततो अहम्, तत आका शः, आकाशाद्वायुः, वायोरग्निरिति परम्परया जायन्ते । न त्वेकस्मा त्सर्वमित्यनुमीयत इत्यर्थः । आद्यशब्देन वाय्वादिकं गृह्यते ॥ ( १५ ) विभक्तत्वेऽपि कुतो जन्मेति तत्राह—य इति ॥ 'यो विभा गी' विभागवान् 'स विकारः' विकृत इत्यर्थः । इति व्याप्तेरिति शे षः। ननु विष्णुरेक एवाविभाग इत्युक्तम्, समर्थितं च तत् । ततः कि मित्यत उक्तम्—स इति । अविभक्तत्वेनोक्तो हरिः 'अविकारः' अना दिनित्यः । कुतः? अविभागात् । न च द्वयमसम्भावितम् । यतः 'परः' लोकविलक्षणः । न केवलं हरिरविभागादविकारीत्येतावन्मात्रम् , किं तर्हि ? 'परानन्दः' पूर्णानन्दः स्वरूपतो देहतश्च नित्यः नित्यज्ञानादि गुणश्च भवति । नन्वविभागादित्यसिद्धं, तथासति विष्णोः द्रव्यत्वा ६८