भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 585, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 585

५३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] विभागो ह्यल्पशक्तिस्स्यान्न तदस्ति जनार्दने ॥ इति बृहत्संहितायाम् ॥ ७ ॥ —:*:— २. अधिकरणम् ॥ ( १ ) ‘अथ ह नित्याश्चानित्याश्च तेजोऽबन्नान्याकाश इति नुपपत्तेरित्यत आह—विभाग इति । नात्र विभागशब्देन विभागाख्यो गुणो ग्राह्यः, येन द्रव्यत्वानुपपत्तिः, किन्तु ‘अल्पशक्तिः’ अल्पसा- मर्थ्यम्, तच्च जनार्दने नास्ति । अन्यथा तस्य महाबलदुर्जनसंहर्तृत्वा- नुपपत्तिरित्याशयेन जनार्दन इत्याह । न च तद्विभागेनेत्यत्र अन्वय- साधने विभागस्य हेतुत्वोक्त्या व्यतिरेके तदभावस्य व्यापकत्वात् अविभागादिति तस्य हेतुत्वोक्तिरयुक्तेति वाच्यम् । विभागाख्यहेतोः समव्याप्त्यभिप्रायेणास्य प्रवृत्तेः । न च ‘प्रकृतिः पुरुषः कालः’ इति [L