भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 593, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 593

५४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ५ ) 'देवानां पूर्वे युगेऽसतः सदजायतेति ब्रह्म वा असत् सद्वाव प्राणः प्राणं ह्वाव महान् सह ओजो बलमित्या- चक्षते' इति पैङ्गिश्रुतिः ॥ ( ६ ) त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः। ततो वयं सप्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते ॥ ( ५ ) असच्छब्दस्य ब्रह्मपरत्वेऽपि कः समस्तश्रुत्यर्थ इत्यत आ- ह—देवानामिति ॥ पैङ्गिश्रुतिर्देवानामिति ऋक्प्रतीकं गृहीत्वा ब्रह्मोत्य- नेन तां व्याख्याति । 'पूर्वे युगे' आदिसृष्टिकाले देवानां मध्ये प्रथमं सच्छब्दितो वायुः 'असतः' परब्रह्मणोऽजायतेत्यर्थः । 'असत्' अस- च्छब्दवाच्यं, वैशब्दोऽवधारणे । वावेति निपातसमुच्चयः प्रसिद्धौ । कथं प्राणः सच्छब्दवाच्य इत्याह—प्राणमिति । यतो वृद्धाः 'प्राणं' मुख्यं 'महान्' पूज्यः 'सहः' सहनशक्तिः 'ओजो बलम् ' इत्याचक्ष- ते' प्राहुः, अतः प्राणो महत्त्वादि सद्गुणशालित्वान्निमित्तात् 'सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते' इति गीतोक्तेरिति भावः। धर्मधर्म्य- भेदविवक्षया सह इत्याद्युक्तिः । यद्यप्युक्तार्थसिद्धौ पैङ्गिश्रुतिरेवालम्। तथाऽप्यसच्छब्दस्य ब्रह्मणि निर्वचनार्थं 'तद्वा एतत्' इति पूर्वश्रुत्यु- दाहरणम् । असच्छब्दितान्नारायणात्सच्छब्दितो वासुदेवः समुद्भूत इति तैत्तिरीयभाष्यं तु व्याख्यानान्तरम् । यच्च 'असतः' इति श्रुतेर- नेकार्थत्वादिति प्रमेयदीपिकायामसच्छब्दस्य प्रकृतिपरतया व्याख्या- नम्, तदप्यमुख्यवृत्त्यैवेति ध्येयम् । श्रुतिर्यत इति शेषः । अस्यातो ऽसच्छब्दो ब्रह्मवाचीत्यनेन वा न हीति पूर्वेणान्वयः । तथा च असत इति श्रुतेः अन्यथा सम्यग्व्याख्यातत्वात् नाप्रामाण्यमिति भावः यद्वा न केवलं 'तद्वा एतत्' ( ) इति श्रुतिरिति समुच्चये चशब्दः॥ ( ६ ) सच्छब्दवाच्यस्य वायोः परब्रह्मजातत्वे न केवलं 'असतः' इति श्रुतिर्मानं, किन्त्वत्र स्पष्टस्मृतिश्चास्तीत्याह-त्वमिति ॥ भागवते तृतीयस्कन्धे देवानां वाक्यमेतत् । हे देव त्वं 'कविः' अतिक्रान्तदर्शी 'अजो' देहतोऽप्युत्पत्तिशून्यश्च अतः यद्यपि त्वयि देवदत्तवद्गर्भाधाना- दिकर्माण्यसम्भावितानि । तथाऽपि भवान् 'शक्त्यां' भार्यायां 'गुण कर्मयोनौ' गुणानां ज्ञानादीनां सत्त्वादीनां वा कर्मणामदृष्टादीनां यो- नौ हेतुभूतायां 'अजायां' जननधर्मरहितायां चित्प्रकृतौ 'रेतो' गर्भं