पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 594, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ९. ] दीपिकासहितम्. ५४७ इति भागवते ॥ (७) 'अजायमानो बहुधा विजायते' (तै.आ.३-१३.) इति च । (८) प्रत्यक्षत्वं हरेर्जन्म न विकारः कथं चन । पुरुषः प्रकृतिः कालो महानित्यादिषु क्रमात् ॥ 'आदधे' आधत्त । तुर्विशेषार्थः । ततः अथ तस्याः प्रकृतेस्सप्तमुखाः वायुप्रभृतयो बभूविम । किञ्चातः हे 'आत्मन्' स्वामिन् वयं यदर्थं यत्कार्याय बभूविम, ते तव तत्तिकार्यं करवाम, न किमपि तदुपयु क्तज्ञानाद्यभावादित्यर्थः । यद्यपि सप्तमुखाः महदादय इति तात्पर्ये व्याख्यातम् । तथाऽपि वायुरपि महत्तत्वाभिमानित्यविरोधः । यद्यपि त्वमग्ने प्रथमं मातरिश्वनः आविर्बभूवेति ऋग्भाष्यटीकायां युष्मद्युपप देऽपि भाष्ये आविर्बभूवेति प्रथमपुरुषप्रयोगो युक्त इत्यत्र त्वं देवश क्त्यां रेत आदधे इति प्रयोगो दृष्टान्तीकृतः । तद्वदत्राप्यार्षत्वसमाधा नं वक्तुं युक्तम् । तथाऽप्यार्षत्वं विना वाक्यभेदेन भवानित्यध्याहारेण च व्याख्यानान्तरमिदं व्यासतीर्थैः कृतमित्यदोषः । भागवते उक्तमत उक्तं युक्तमिति शेषेणान्वयः ॥ (७) ननु रामकृष्णदिरूपेण हरेर्जायमानत्वात्कथं जन्माभाव इ त्यत आह—अजायमान इति ॥ व्याख्यातेयं श्रुतिर्युभ्वाद्यधिकरणस्था नाधिकरणयोः । इति श्रुतिश्चार्थे मानम्, अतो न प्रातीतिकजनिविरो ध इत्यन्वयः ॥ (८) अजायमानस्य कीदृशं जन्मेत्यत आह—प्रत्यक्षत्वमिति ॥ अ वतारेषु व्यक्तिरेवेत्यर्थः । कथं चनेति स्वरूपदेहविशेषाणामन्यतमे नेत्यर्थः । अन्यत्र तु विकार एव जन्मेत्याह—पुरुष इति । 'पुरुषः' चेतनः, अत एव चित्रप्रकृतेरपि लाभः । प्रकृतिकालमहच्छब्दैः जडा न्युच्यन्ते । तथैव तत्त्वप्रदीपोक्तेः । 'इत्यादिषु' एवमादिशब्दवाच्ये षु । आदिशब्देन अहमादिशब्दवाच्याहङ्कारतत्त्वादीनि गृह्यन्ते । अ भिमानिचेतनव्यावर्तनाय तत्त्वमात्रं ग्राहयितुमितिशब्दः । 'क्रमात्' पूर्वतत्त्वापेक्षया उत्तरोत्पन्नतत्त्वोपचयाधिक्यक्रमात् । उपचयो नाम स्थूलभावः । तस्याधिक्यमतिशयः तस्य क्रमः तारतम्यं तदनुसारेणा धिक्यतारतम्यवान्यो विकारस्तदेव प्रकृत्यादिषु जननमित्यर्थः । क्र मादित्यस्य प्रकृतिमहदादिष्वेवान्वयः । न तु पुरुषकालयोरपि, तयो