भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 595, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 595

५४८ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - ३.]


विकार एव जननं पुरुषे तद्विशेषणम् । परतन्त्रविशेषो हि विकार इति कीर्तितः ॥ इति च पाद्मे॥ ( ९ ) अविकारोऽपि भगवान् सर्वशक्तित्वहेतुतः ।


विकारवत्त्वेऽप्युपचयकृतविकारस्याभावात् । अतएव पुरुषैः तद्विशेष- णमिति पृथगुक्तिः । तत्र सत्त्वरजस्तमोगुणात्मकप्रकृतिगुणेषु मध्ये सत्त्वगुणस्य न द्रव्यान्तरसंयोगकृत उपचयः, अपि तु स्वत एव स्थू- लभूतस्य मूलराशितो विभागेन देशान्तरसंयोगकृतः। रजसस्तु न मू- लराशितो विभागेन देशान्तरसंयोगमात्रकृत उपचयः । अपि तु द्र- व्यान्तरसंयोगकृतश्च स च तमसोऽल्पः। सत्त्वापेक्षयाधिकः। अतएव विकारोऽप्यधिकः । एवं तमसो रजोऽपेक्षयोपचयकृतविकारोऽधिकः गुणत्रयापेक्षया महत्तत्त्वस्य, तदपेक्षया अहङ्कारस्याधिकः । एवमुत्तर- त्रापि । पूर्वपूर्वतत्त्वादुत्पन्नानामुत्तरोत्तरतत्त्वानां न केवलं पूर्वपूर्वत- तत्त्वभागसंयोगकृत एवोपचयः किन्तु स्वस्वसूक्ष्मभागसंयोगकृतश्च । अत एवोत्तरोत्तरतत्त्वेषूपचयाधिक्यमिति ध्येयम् । केचित्तु पुरुषपदो- क्तचेतनानां सूक्ष्मसृष्टिकाले सूक्ष्मप्रकृतिभिरुपचयः । प्रकृतेरपि प्रकृ- त्यन्तरसम्बन्ध एवोपचयः । कालप्रकृतेरपि स एवोपचयः । महत्तत्त्व- प्रकृतीनां गुणत्रयरूपकार्यभागैरुपचयः । एवमहङ्कारादिप्रकृतीनामपि महत्तत्त्वादिभागैरुपचय इत्युपचयाधिक्यक्रमादित्यर्थ इत्याहुः । ननु पुरु- षस्य चेतनत्वात्कथं विकार इत्यत आह-पुरुष इति । चेतन इत्यर्थः। त- द्विशेषणमिति। तेन विकारेण विशेषितत्वं तदाख्यविशेषवत्त्वं भवतीत्य- र्थः । तथैव तत्त्वप्रदीपोक्तेः । स च विकारो विकारिवस्त्वभिमानकृ- तः । तर्हि चेतनगतविशेषस्यैवोत्पत्तिर्गता न चेतनस्येत्यत आह- परतन्त्रेति । पराधीनविशेष एव विकार इत्यर्थः । हिशब्दो यत इत्य- र्थे । तत्र जडप्रकृतौ परिणामः चित्प्रकृतौ सिसृक्षाविषयत्वादिरूपो वि- शेषः परमात्मेऽधीनोऽस्ति । जीवे तु विकाररूपविशेष एव पराधीनोऽ- स्ति । कालस्य तु निमेषादिरूपेणोत्पाद एव अस्ति । अत एव तत्त्वप्र- दीपे 'सर्वे निमेषाः' ( महा. १ - ८. ) इत्यादिश्रुत्युपन्यासः । कीर्तित- इत्यनेनास्य प्रमितत्वमाह पाद्म इत्यनन्तरं तच्चदवतारिकशङ्कापरिहृ- तेति शेषः ॥ ( ९ ) ननु जगत्कारणत्वात्परमेश्वरस्य कथमविकारित्वमित्यत