भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 596, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 596

[ अधि - ३. सू - ९-१०. ] दीपिकासहितम्. ५४९ विकारहेतुकं सर्वं कुरुते निर्विकारवान् ॥ शक्तिशक्तिमतोश्चापि न विभेदः कथं चन । अविभिन्नाऽपि सेच्छादिभेदैरपि विभाव्यते ॥ आह—अविकारोऽपीति ॥ अपिरवधारणे । कर्तृत्वनिमित्तसुखदुःखा- नुभवरूपविकाररहित एवेत्यर्थः । न केवलं स्वरूपतो विकारः, किन्तु निर्विकारवानपीति वाऽपिशब्दार्थः ‘सर्वशक्तिश्चहेतुतः’ सर्वशक्तिम- त्त्वनिमित्तेन शक्त्याख्यहेतुना सर्वं करोतीत्यनेन ईश्वरस्य कुलालादि- वन्निमित्तकारणत्वान्न मृदादिवद्विकारित्वमित्युक्तं भवति । ‘विकार- हेतुकं’ विक्रियमाणप्रकृत्युपादानकं ‘सर्वं’ जगत् ‘कुरुते’ सृज- तीत्यर्थः । निर्विकारवानिति । निर्गतो विकारः एभ्यस्ते निर्विकारध- र्मास्तद्वानित्यर्थः । यथोक्तं तत्त्वप्रदीपे—विकारवान् धर्मोऽप्यस्य ना- स्तीति निर्विकारवानिति । अनेन ईश्वरधर्मादेरविकारित्वमुच्यते । अतएवाविकारो निर्विकारवान् इत्यनयोर्न पुनरुक्तिः । ननु यदीश्वर- स्य शक्त्या जगत्कारणत्वं तर्हि तद्विनाशे तदभावः स्यादित्यत आ- ह-शक्तीति । चस्त्वर्थः । शक्तिशक्तिमतोस्तु न विभेदः किन्त्वभेद ए- वेत्यर्थः । चशब्दावन्योन्यभेदाभावसमुच्चये नित्यत्वसमुच्चये वा । त- था च शक्तेर्नित्यशक्तिमदभिन्नत्वान्नित्यत्वाच्च नोक्तदोष इति भावः । ननु इच्छाज्ञानप्रयत्नानां कर्तृत्वोपयुक्तत्वात्तैर्विना कथं शक्तिमात्रेण कर्तृत्वमित्यत आह---अविभिन्नाऽपीति । अत्राभेदो नान्योन्याभावाभा- वः, तथासति तत्प्रतियोगिसमर्पकस्य भेदैरित्यस्यान्योन्याभावरूपो भेदोऽर्थः स्यात् । न च तद्युक्तम्, निर्भेदत्वात् । भेदैरिति बहुवचनायो- गाच्च । किन्त्वेकत्वसङ्ख्यारूपः । अपिरेवार्थः यद्यपीत्याद्यर्थे च । ज्ञान- प्रयत्नावादिपदोक्तौ । तथा च यद्यप्यभिन्ना तथाऽपि अविभिन्नाऽपि एकैव सा शक्तिः ‘इच्छादिभेदैः’ इच्छादिनिरूपितद्वित्वत्रित्वादिस- ङ्ख्याभिः । इच्छेत्याद्यनेकशब्दैरिति यावत् । ‘विभाव्यते’ ‘परास्य शक्तिः’ इत्यादावभिधीयत इत्यर्थः । न केवलं शक्तिरित्यपेरर्थः । तथा च शक्तिसत्त्वे तदवान्तरभेदरूपाणामिच्छादीनामपि सत्त्वान्न शक्त्या कर्तृत्वनिर्वाहानुपपत्तिरिति भावः । अनेनेश्वरस्य न केवलं शक्त्या सर्वं करोतीति हेतोरुपादानत्वाभावः, येन विकारशक्तिमत्युपादाने व्यभिचारः स्यात्, किन्तु कुलालादिवदिच्छापूर्वककारणत्वाच्च नोपादा- नत्वम् । अतोऽपि निर्विकारत्वमित्युक्तं भवति । भागवततन्त्र इत्य-

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 596, कुल 1267 में से · BharatKosha