भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 606, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 606

[ अधि - ७. सू - १३. ] दीपिकासाहितम्. ५५९ ( २ ) अतो ब्रूते— सू—ॐ ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ ॐ ॥ १३ ॥ 'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायां निवृत्तिः' (श्वे. १-१०.) इति बन्धलयस्य तदभिध्यान निमित्तत्वलिङ्गात्तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति प्रतीयते । ( २ ) सिद्धान्तयत्तसूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीत्यनन्त- रं श्रुताविति शेषः । बन्धलयस्येत्यनेन तदित्यस्यावृत्तिर्दर्शिता । अना- देरित्यादौ ग्राह्यम् । अस्य तत्कर्तृत्वमित्यनेनान्वयः । अत्र तत्कर्तृत्वं तदिच्छाधीनत्वं विवक्षितम् । ततः किमित्यतस्तल्लिङ्गादित्यस्य तच्च तत् लिङ्गं चेति विग्रहाश्रयेणार्थमाह—तदभिध्यानेति । बन्धलयस्ये- त्यत्राप्यन्वीयते । तथा च बन्धस्य संसारस्य लयस्य तस्मान्मोक्षस्ये- श्वरेच्छाधीनत्वरूपहेतोरित्यर्थः । श्रुतादित्यध्याहारे लिङ्गादित्यस्येति श्रुताल्लिङ्गात्तत्कर्तृत्वं प्रतीयत इत्यन्वयः । अत्र तत्कर्तृत्वं तत्कृत्यधी- नत्वं, प्रतीयत इत्यस्य चानुमीयत इत्यर्थः । बन्धलयस्येच्छाधीनत्व- लिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरिति भावः । ततः किमित्यतोऽ- नादिबन्धलयकर्तृत्वेनेश्वरस्य सादिजगत्संहृतिकर्तृत्वं सुतरां सिध्य- तीत्यभिप्रेत्य तदेव विवरितुं सौत्रमेवशब्दं कैमुतिकन्यायपरतया व्या- ख्याति—किम्विति । लयस्य तत्कर्तृत्वमित्यनुषज्यते । सिध्यतीति शे- षः । नन्वस्तु विष्णोरनादिबन्धभेत्तुर्विश्वसंहारकर्तृत्वं, तावता प्रयत्ना- ख्यतत्संहारफलोपधानं कुतः सिध्यतीत्यत आह—इत्येतस्मादिति । इत्येतद्रूपात् सादिजगत्संहर्तृत्वरूपाद्धेतोरेवेत्यर्थः । सूत्रे उद्देश्‍यसम- र्पकपदाभावाद्योग्यतया लब्धं तद्दर्शयति—सर्वेति । विधेयसमर्पक- स्य स इत्यस्यार्थो विष्णुरिति । निखिलनिगमतात्पर्यप्रसाधितजगतक- र्तृत्वादिना तस्यैव प्रस्तुतत्वादिति भावः । यद्वा—स इत्यस्यावृत्त्योद्दे- श्यविधेयपरत्वमित्याशयेन सर्वसंहारकर्ता विष्णुरिति चोक्तम् । वि- ष्णुरिति सावधारणम् । अत एव सूत्रेऽवधारणार्थकस्तुशब्दः प्रायो- जि । नन्वस्त्वीश्वरेच्छाधीनत्वमनादिबन्धलयस्येश्वरकर्तृत्वे लिङ्ग- म्, अस्तु चानादिबन्धलयस्येश्वरकर्तृत्वं सादिजगत्संहर्तृत्वे । तथा- पि सादिजगल्लयकर्तृत्वं तत्संहर्तृत्वे कथं लिङ्गमुभयोरभेदादिति चे- न्न । संहारकर्तृत्वशक्तेर्हेतुत्वेन तत्कर्तृत्वफलोपधानस्य साध्यत्वेनाभ्यु-