पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 613, कुल 1267 में से
संदर्भ में पढ़ें५६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] क्रमवचनमपि विपरीतक्रमापेक्षया । (३) कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च । यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते ॥ इत्यत एव भाल्लवेयश्रुतिवचनात् ॥ (४) अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः । इति क्रमेण भगवान् सृष्टिसंहारकृद्विभुः॥ इति च पाद्मे॥ (५) पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । ष्यर्थः । आवृत्तस्य विपर्ययेणेत्यस्यार्थः विपरीतेति । प्रवृत्तं यत इति शेषः । अस्यातो लयक्रमः विपर्ययेण उत्पत्तिक्रमवैपरीत्येनेवेति सौ त्रपदोक्तसाध्येनान्वयः ॥ (३) कुतः क्रमश्रुतेरर्थान्तरकल्पनमित्यतोऽपि प्रवृत्तं अत इति प दं तुशब्दार्थावधारणान्विततयाऽनूद्य व्याचष्टे—कर्तेति ॥ कर्तेत्यतः प्राक् अतएवेत्युत्तरवचनात् कुत इत्युपस्कार्यम् । यस्यामेव श्रुतौ क्र माल्लयः श्रूयते, तस्यामेव वचनान्न त्वन्यस्यामित्येवशब्दार्थः । यः 'प्रा णादिकस्य' ब्रह्मादिकस्यास्य जगतः क्रमात्कर्ता यश्च 'भूम्यादिक स्यास्य' व्युत्क्रमाद्धन्ता स हरेरेव परो, न त्वन्य इत्यर्थः । अनेनोत्प त्तावुत्तमक्रमः, लये त्वधमक्रम इति सूचितम् ॥ (४) ननु श्रुतित्वाविशेषात् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतो बाधः, विपरीतमेवं किं न स्यादित्यतोऽतःशब्दसूचितां स्मृतिमाह—अनुरूप इति ॥ योजना तु—क्रमो द्विविधः अनुरूपः प्रतिरूपश्चेति । तत्र सृष्टौ यः क्रमः सोऽनुरूपः । उत्तमादितारतम्यानुसारित्वात् । यो लये क्रमः स प्रतिरूपः उत्तमादितारतम्यप्रतिकूलत्वात् । एवमुभयविधक्रमेण 'विभुः' समर्थो भगवान् सृष्टिसंहारकर्तेति । पाद्म इत्यनन्तरं वचना दित्यनुषज्यते । अस्य सावकाशक्रमश्रुतेर्निरवकाशव्युत्क्रमपदघटित श्रुत्या बाधो युक्त इत्याहृतसाध्यवाक्येनान्वयः ॥ (५) व्युत्क्रमालयाङ्गीकारे लोकविरोधापातान्नासौ युक्तो, लोके प्रायेण पूर्वोत्पन्नानां पित्रादीनां प्रथमं लयदर्शनादित्यतः प्रवृत्तमतः शब्दावृत्त्या उपपद्यते चेत्यंशं व्याचष्टे—पूर्वेषामिति ॥ पूर्वोत्पन्नानामि त्यर्थः । उपपद्यत इत्यतः प्राक् लये क्रमो विपर्ययेणेति सूत्रांश आवृ त्या संयोज्यः। उपपद्यत इत्यस्य सामर्थ्याधिक्ययुक्त्या सिद्ध्यतीत्यर्थः। यद्वा-उपपद्यत इत्यस्य युज्यत इत्यर्थः। सामर्थ्याधिक्यं त्वतश्शब्दार्थः।