पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 614, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६७ ( ६ ) वामने च— पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् । सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ॥ न केवलं श्रूयते, किन्तु युज्यते चेति समुच्चये चशब्दः । तथा च लौकि- कानां प्रायशशतवर्षजीवित्वादिरूपस्य बलज्ञानादिरूपस्य वा सामर्थ्य- स्य साम्यात् क्रमाल्लयेऽपि नासावलौकिकतत्त्वदेवतालये भवति, यतः पूर्वोत्पन्नानां सामर्थ्याधिक्यादुत्तरेषां तदभावात्, एवं च लौकिकविरोध- स्यैष गुणवादिति भावः । पूर्वोत्पन्नेषु सर्वत्र उत्तरोत्पन्नापेक्षया साम- र्थ्याधिक्यमस्तीति ज्ञापनाय द्विर्वचनम्। अनेन—यतः ‘क्रमस्तु’ क्रमवच- नमपि ‘विपर्ययेण’ विपरीतक्रमापेक्षया प्रवृत्तमतो लये क्रमः ‘विपर्यये- ण तु’ उत्पत्तिक्रमवैपरीत्येनैव। कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः? अत एव व्यु- त्क्रमाल्लयश्चेति श्रुतेरेव । तथाऽपि क्रमश्रुतेः कुतो बाधः श्रुतित्वाविशे- षात् विपरीतं किं न स्यात् । अत एव सावकाशत्वादेव । न च लोक- विरोधः । यत उपपद्यते चायं व्युत्क्रमो युज्यते च । कथम्? अतः सामर्थ्याधिक्यात् । न केवलं श्रुत्योच्यते व्युत्क्रमः किन्तु उपपद्यते चेति सूत्रार्थ उक्तो भवति ॥ ( ६ ) ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतः ? येन पश्चाल्लयः स्यादित्यत आह—वामने चेति ॥ सामस्त्यं वीप्सार्थः । तथा च यतः ‘पूर्वे पूर्वे’ आदिसृष्टौ पूर्वोत्पन्नेषु चतुर्मुखादितत्त्वदेवेषु विष्णोः ‘स- न्निधानं' सन्निधिः ‘क्रमाधिकं' तारतम्यक्रमेणाधिकं अत एव तेषां पूर्वोत्पन्नानां पश्चादुत्पन्नापेक्षया ‘सामर्थ्याधिक्यम्' बलज्ञानशक्त्याधि- क्यमेवास्ति । न केवलमेतावत्, किन्तु तेषां ‘व्याप्तिः' अण्डाद्बहिः स्वस्वाभिमन्यमानपर्यन्तं देहतो व्याप्तिरपि तारतम्यक्रमेणाधिकैव, न न्यूना समा च । यत एवं अतस्तेषां पश्चादेव लयो न कदाचित्पूर्व, नात्र संशय इत्यर्थः । तथाशब्द उपमायां समुच्चये वा। तेन पश्चादुत्प- न्नेषु उक्तवैपरीत्यं च सिध्यति । ‘पूर्वादिभ्यो नवभ्यो वा' इति सर्वना- मसंज्ञायां विकल्पानुशासनात् तदभावपक्षे पूर्व इत्येतत्सप्तम्यन्तं, तद्भा- वपक्षे तु प्रथमाबहुवचनमिदम् । न च तथात्वे सन्निधानमित्यस्यान- न्वयः । सन्निधीयते विष्णुरत्रेतिव्युत्पत्त्याऽस्य प्रतिमापरत्वात् । तथा- त्वे ‘पूर्वे पूर्वे’ पूर्वपूर्वमुत्पन्नास्तत्त्वदेवाः यतो विष्णोः ‘क्रमाधिकं स- न्निधानं' क्रमेणाधिकप्रतिमारूपा इति योजना । इति वामन इत्यन्व-