पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 615, कुल 1267 में से
संदर्भ में पढ़ें५६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः ॥ इति च ॥ १४॥ ----------------- ⁂ ----------------- ९. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादि- ति चेन्नाविशेषात् ॥ ॐ ॥ १५ ॥ 'प्राणान्मनो मनसश्च विज्ञानम्' 'यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि' (कठ. ३ - १३.) इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत्— थः । वचनादित्यत्राप्यनुषज्यते । न सामर्थ्यात्क्रियासिद्धिरित्यध्याहृ- तेनान्वयः ॥ ८ ॥ इति विपर्ययाधिकरणम् ॥ —: ۞ :— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ काँचिदप- वादशङ्का निराक्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तत्पाठित्वा पूर्व- पक्षांशं तावद्व्याचष्टे—अन्तरेति ॥ तल्लिङ्गादित्येतच्छ्रुत्युक्तक्रमादुप- त्तिक्रमाल्लयाख्यलिङ्गादित्यर्थः । यद्वा— इत्येतद्रूपालिङ्गदर्शनादित्यर्थः । मनसः पूर्वोत्पन्नत्वं 'प्राणान्मनः' इति श्रुत्युदाहरणेन तस्य पूर्वमेव लये 'यच्छेत्' इति श्रुत्युदाहरणेन चोभयोरसिद्धिः परिहृता । पूर्व- पक्षे प्राणात् 'मनो' मनस्तत्त्वं जातं ततो विज्ञानतत्त्वं जातमित्यर्थः । सिद्धान्ते तु—मुख्यप्राणान्मनोरूपेन्द्रियं, तस्माद्वृत्तिरूपं विज्ञानं उत्प- न्नमित्यर्थः । यच्छेद्दिति काठकवाक्ये पूर्वपक्षे मनश्शब्दस्तत्त्वपरः । सिद्धान्तेऽर्थस्तु—'प्राज्ञो' ज्ञानी 'वाक्' वाक्तत्त्वं तदभिमानिनी उ- मा 'मनसि' मनस्तत्त्वे तदभिमानिनि रुद्रे 'यच्छेत्' उपरेमेत्तद्वश- त्वात्तत्र लीयत इति स्मरेदिति यावत् । 'तत्' मनः 'ज्ञान आत्मनि' विज्ञानतत्त्वाभिमानिन्यां वाण्यां लीयत इति ध्यायेदिति । प्रमेयदीपे तु—'यच्छेत्' नियच्छेदिति काठकभाष्यानुरोधात् 'वाक्' वाचं म- नसि 'यच्छेत्' तन्नियतां ध्यायेत् वाग्देवतां मनोदेवताधीनतया चि- न्तयेदिति विपरिणामाश्रयेण अध्याहारं लयपरत्वं च विना व्याख्यात- म् । अत एव तत्त्वप्रदीपकारोऽपि वाचं मनसि यच्छेत इत्येवाह । मन