पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 623, कुल 1267 में से
संदर्भ में पढ़ें१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २। पा - ३। ] ( ३ ) सू—ॐ ॥ युक्तेश्च ॥ ॐ ॥ १९ ॥ नित्यस्यापि हि जीवस्योपाध्यपेक्षयोत्पत्तिर्युज्यते । ( ४ ) उत्पद्यन्ते चिदात्मानो नित्या नित्यात्परात्मनः । उपाध्यपेक्षया तेषां उत्पत्तिरपि गीयते ॥ इति च व्योमसंहितायाम् ॥ १९ ॥ —::— ( ३ ) नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि कथं युज्यते व- न्ध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिव- चनस्य व्याहतत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-युक्तेश्चे- ति ॥ 'नित्यस्यापि' अनादिनित्यस्यापि । अपिः यद्यपितथापीत्यर्थे । अनेन सूत्रे ज्ञस्येति विपरिणतमनुषज्यते । चोऽप्यर्थः । स च विशेष- णसमुच्चयार्थोऽपीत्युक्तं भवति । 'उपाध्यपेक्षया' बाह्यशरीराख्योपा- ध्युत्पत्त्यपेक्षया तद्विषयकतया उत्पत्तिवचनं युज्यत इत्यर्थः । शरीरा- देरुपाधित्वं न प्रतिफलनाधिकरणत्वम्, किन्तु उत्पत्त्यादिरूपविकार- विशेषापादकत्वम्, अत एवाह—उत्पत्तिरिति । युज्यत इति । अनेन नायं युक्तिशब्दो लिङ्गार्थः, किन्तु योगार्थको विवक्षार्थकश्चेति सूचित- म् । सावधारणं चैतत् । तेन सौत्रचशब्दो व्याख्यातः । अवधारणेन नै- वमुपचारमात्रम्, किन्तु मुख्यमेव । पराधीनविशेषावाप्तिरूपोत्पत्तेरेवा- त्र विवक्षितत्वादिति सूचितम् । अनेन—अनादिनित्यस्यापि ज्ञस्य पराधीनविशेषावाप्तिरूपोत्पत्तेः योगान्न तदुक्ति व्याघात इति सूत्रार्थ उक्तो भवति ॥ ( ४ ) अत्र स्मृतिसम्मतिमाह—उत्पद्यन्त इति ॥ चिदात्मत्वमना- दिनित्यत्वे हेतुः । तथा च यद्यपि यतश्चिदात्मानो जीवा अतोऽनादिनि- त्याः, तथाऽपि देहतोऽपि नित्यात्परात्मन उत्पद्यन्ते । व्याहतिमाश- ङ्कयाह—उपाधीति । बाह्योपाध्युत्पत्त्यपेक्षयेत्यर्थः । 'तेषां' जीवानां, न केवलमनादिनित्यत्वमित्यपिशब्दार्थः । व्योमसंहितायामित्यनन्तरं नित्यस्यापीत्यादिशब्देनोक्तं युक्तमिति वाक्यशेषः ॥ १९ ॥ ॥ इति ज्ञाधिकरणम् ॥ —::—