पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 624, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १२. सू - २०. ] दीपिका सहितम्. ५७७ १२. अधिकरणम् ॥ ( १ ) 'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्व- रूपा अनन्ताः' इति काषायणश्रुतौ व्याप्तत्वं प्रती- यते । 'अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं च पापं च' इति गौपवनश्रुतावणुत्वमाम्नायतो विरोध इति ॥ ( २ ) अतो ब्रवीति— १२. अधिकरणम् ॥ ( १ ) धर्मिणि जीवे उत्पत्त्यनुत्पत्तिश्रुतिविरोधपरिहारानन्तरं अ- त्राधिकरणे जीवधर्मे परिमाणेऽणुत्वश्रुतिविरोधः परिह्रियते । तत्र श्रु- तिविरोधरूपं संशयबीजं दर्शयति—व्याप्ता हीति ॥ हिशब्दः प्रसिद्धौ। 'आत्मानः' परमात्मरूपविशेषाः 'व्याप्ताः' परममहत्परिमाणाः 'चेत- नाः' ज्ञानरूपाः 'निर्गुणाः' सत्त्वादिगुणशून्याः 'सर्वात्मानः' सर्वस्या- दानादिकर्तारः 'सर्वरूपाः' पूर्णस्वरूपाः । 'सर्वः पूर्णगुणत्वतः' इ- त्युक्तेः । 'अनन्ताः' कालतो गुणतश्चापरिच्छिन्ना इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वात्मशब्दो जीवपरः । विशेषणानि च तस्यैवेत्या- ह—व्याप्ता ह्यात्मान इति । समग्रोदाहरणं तु सिद्धान्तानुकूलतया ब्र- ह्मलिङ्गानि सूचयितुम् । व्याप्तत्वं देशतो महत्त्वमिति यावत् । प्रती- यते। जीवस्येत्यनुषज्यते। 'एषः' इति श्रुतौ हिशब्दः प्रसिद्धौ । चावन्त्यो- न्यसमुच्चये । तथा च 'एष आत्मा' जीवोऽणुः यं जीवं एते 'सिनी- तो' बध्नीतः । एते इत्येतदेव विवृणोति—पुण्यं च पापं चेति । अत्रा- प्यणुर्ह्येष आत्मेत्येतावदेवोदाहर्तव्ये वाक्यशेषोद्धारो जीवत्वज्ञापना- र्थः। अणुत्वमित्यत्रापि प्रतीयते इत्यनुषज्यते । जीवस्येति चास्ति। ततः किमित्यत आह—अत इति । विरुद्धार्थद्वयप्रतीतिरत एवेत्यर्थः। 'विरोधः' श्रुत्योः प्रतीयत इत्यनुवर्तते ॥ ( २ ) युक्तिसहितव्याप्तत्वश्रुतिबलात् व्याप्त एव जीव इति पूर्वप- क्षे सिद्धान्तयत्सूत्रमवतार्य तच्छेषमेव पूरयति—अत इति ॥ हेतूना- मित्युक्तिकान्त्यादेः लिङ्गताबोधनाय । तथाऽपि विभक्तिं विना हेतु- ताऽनवगमात्तदर्थं सकाशादिति शेषः कृतः । हेतूनामिति तु अनुवादो न दोषः । अणुरेवेति तु प्रकरणलब्धसाध्योक्तिः । जीव इति वर्तते । तेन सूत्रे ज्ञ इत्यस्यानुषङ्गस्सिध्यति। अनेन जीवः अणुरेव न व्याप्तः। ७३