पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 625, कुल 1267 में से
संदर्भ में पढ़ें५७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] सू—ॐ ॥ उत्क्रान्तिगत्यागतीनाम् ॥ ॐ ॥ २० ॥ हेतूनां सकाशादणुरेव । ( ३ ) ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मा द्दिमं लोकमागच्छति स गर्भीभवति स प्रसूयते स कर्म कुरुते’ इति पौष्यायणश्रुतेः ॥ २० ॥ ( ४ ) तत्र स्वातन्त्र्यप्रतीतेः , एकः प्रसूयते जन्तुरेक एव प्रमीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ इत्यादेश्च स्वयमेवेति । कुतः ? उत्क्रान्तिगत्यागतिमत्त्वात् , पतत्रिशरीरवदित्यनुमानप्रयोग स्सूचितः । न च मध्यमपरिमाणत्वेनान्यथासिद्धिस्यात् । तस्यानि त्यत्वप्रसङ्गेन निराकृतत्वात् इति भावेनाप्येवकारः प्रायोजि ॥ ( ३ ) विभुत्वबाधकानामणुत्वसाधकानां हेतूनामसिद्धिमाशङ्क्य तत्र तत्सद्भावे श्रुतिमाह—स इति ॥ स जीवो बाह्यशरीरबन्धादुत्क्र म्यामुं लोकं ‘अभिगच्छति’ प्राप्नोति । ‘अमुष्मादिमं लोकं’ भूलोकं प्रत्यागच्छति । अनन्तरं ‘स गर्भी भवति’ पूर्वमगर्भः, अधुना गर्भस्स म्पद्यते मातुरुदरं प्रविशतीति यावत् । अथ ‘प्रसूयते’ उत्पद्यते । अ थ पुण्यपापसाधनं कर्म करोतीति श्रुत्यर्थः । श्रुतेरित्यनन्तरं सिद्धाना मिति शेषः । अस्य हेतूनामित्यनेनान्वयः ॥ ( ४ ) एवमुत्क्रान्त्यादिहेतुभ्यो जीवस्याव्याप्तत्वे सिद्धे अणुत्वसा धकाधिकरणमध्ये अन्तर्भेदाधिकरणत्वेन किञ्चित्प्रसङ्गात् चिन्त्यते । किमिदमुत्क्रान्त्यादिकं जीवस्य परमेश्वरेण? स्वयमेवेति। तत्र पूर्वपक्ष माह—तत्रेति ॥ ‘सोऽस्मात्’ इत्युदाहृतश्रुतावित्यर्थः । तत्रेत्यावर्तते। तस्योत्क्रान्त्यादावित्यर्थः । जीवस्येत्यनुवर्तते । प्रतीतेरित्यस्य स्वयमे वेत्यनेनान्वयः । स्वयमेवेत्यनन्तरं तस्योत्क्रान्त्यादीति साध्यमध्याहार्य म् । नेश्वरेणेत्येवशब्दार्थः। नन्वस्यां श्रुतौ जीवस्योत्क्रान्त्याद्येव श्रूयते, न त्वन्याधीनताविधिः निषेधो वाऽस्ति । अतो नानया दृढनिर्णय इत्य त आह—एक इति । ‘एकः’ स्वतन्त्रो ‘जन्तुः’ जीवः ‘प्रसूयते’ उ त्पद्यते ‘प्रमीयते’ नश्यति । एवशब्दस्य द्विर्ग्रहणं सर्वत्रान्वयज्ञापक म् । दुष्कृतं चेत्यन्वितः चशब्दः समुच्चये । अनुभुङ्क्त इत्यत्रापि सम्ब ध्यते । ‘इत्यादेः’ एवमादिस्मृतिवचनाच्चेत्यर्थः । न केवलं प्रतीतेरि