पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 626, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १२. सू - २१. ] दीपिका सहितम्. ५७९ ( ५ ) अतो वक्ति— सू— ॐ ॥ स्वात्मना चोत्तरयोः ॥ ॐ ॥ २१ ॥ 'स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नी यते। तं वा एतमभिवदन्ति स्वात्मा' इति, 'एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गम यत्येष आगमयति' (पौष्यायण) इत्युत्तरयोर्वाक्ययोः ति चार्थः । तथा च स्मृत्यनुसारेण श्रुतेरपि जीवस्योत्क्रान्त्यादेः परा धीनतानिषेधोऽर्थ इति भावः ॥ ( ५ ) एवं पूर्वपक्षे तन्निराकरणाय सूत्रमवतार्य व्याचष्टे—अत इ ति ॥ 'स एतेन' इत्याद्येकं श्रुतिवाक्यम् । 'एष ह्यानन्दम्' इत्यन्यत् । अनेनोत्तरयोरित्यनेन ज्ञापितं वाक्यद्वयमुदाहृतं भवति । 'सः' जीवः 'एतेन' स्वस्थितेन 'स्वात्मना' स्वरूपभूतमानन्दमादत्ते इति व्युत्प त्त्या स्वात्मशब्दवाच्येन परमात्मनाऽनुगृहीतः इमं मातृदेहस्थं गर्भं प्रवि शति । परेणैव तत्प्रेरित एव जायते । तेनैव लोकान्तरं 'नीयते' म्रिय ते 'उन्नीयते' मोक्षायोर्ध्वं नीयते । तमेतं विष्णुं स्वात्मेत्यभिवदन्ति विद्वांस इत्यर्थः । अनेन स्वात्मशब्दस्य विद्वद्रूढिर्दर्शिता । 'एषः' पर मात्मा आनन्दं जीवकृतशुभकर्मफलं 'आदत्ते' गृह्णाति स्वरूपानन्द मनुभवतीति वा । 'अभि जीवयति' धृतप्राणं करोति संस्थापयति । 'उद्गमयति' देहान्निर्गमयति ऊर्ध्वं परलोकं गमयतीति वा । 'आग मयति' देहं प्रावेशयति । इमां भूमिमागमयतीति वेत्यर्थः । यद्यप्येष ह्येनं जीवमित्यारभ्यैव द्वितीयवाक्यमुदाहर्तव्यम् । तस्यैव प्रकृतोपयु क्तत्वात् । तथाऽपि द्वितीयवाक्ये स्वात्मशब्दाभावात् कथमुत्तरयोरि त्यनेन द्वितीयवाक्यं गृह्यत इत्याशङ्क्य मैवं द्वितीयवाक्ये स्वात्मशब्दा भावेऽपि तद्व्याख्यानरूपैष ह्यानन्दमादत्त इति वाक्यसद्भावादिति भावेन तत्पूर्ववाक्यमप्युदाहृतम् । अत एव सूत्रे उभयोदाहरणम् । इ त्युत्तरयोरिति । पौष्यायणश्रुतौ सोऽस्मादिति वाक्यापेक्षयोत्तरयो रित्यर्थः । सकाशादिति शेषः । यद्वा—सप्तमीयं न षष्ठी । तथात्वे सू त्रे वचनादिति शेषः। भाष्ये तूच्यन्त यत इति शेषः। आद्ये तु भवन्ती ति । एवं हेतुं व्याख्याय इदानीं स्वात्मना चेति प्रतिज्ञांशं व्याचष्टे— परमात्मनैवेति ॥ स्वात्मनेत्यनुक्त्वा परमात्मनेत्युक्त्या परं पूर्णं स्वरूप