भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

५७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] सू—ॐ ॥ उत्क्रान्तिगत्यागतीनाम् ॥ ॐ ॥ २० ॥ हेतूनां सकाशादणुरेव । ( ३ ) ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मा द्दिमं लोकमागच्छति स गर्भीभवति स प्रसूयते स कर्म कुरुते’ इति पौष्यायणश्रुतेः ॥ २० ॥ ( ४ ) तत्र स्वातन्त्र्यप्रतीतेः , एकः प्रसूयते जन्तुरेक एव प्रमीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ इत्यादेश्च स्वयमेवेति । कुतः ? उत्क्रान्तिगत्यागतिमत्त्वात् , पतत्रिशरीरवदित्यनुमानप्रयोग स्सूचितः । न च मध्यमपरिमाणत्वेनान्यथासिद्धिस्यात् । तस्यानि त्यत्वप्रसङ्गेन निराकृतत्वात् इति भावेनाप्येवकारः प्रायोजि ॥ ( ३ ) विभुत्वबाधकानामणुत्वसाधकानां हेतूनामसिद्धिमाशङ्क्य तत्र तत्सद्भावे श्रुतिमाह—स इति ॥ स जीवो बाह्यशरीरबन्धादुत्क्र म्यामुं लोकं ‘अभिगच्छति’ प्राप्नोति । ‘अमुष्मादिमं लोकं’ भूलोकं प्रत्यागच्छति । अनन्तरं ‘स गर्भी भवति’ पूर्वमगर्भः, अधुना गर्भस्स म्पद्यते मातुरुदरं प्रविशतीति यावत् । अथ ‘प्रसूयते’ उत्पद्यते । अ थ पुण्यपापसाधनं कर्म करोतीति श्रुत्यर्थः । श्रुतेरित्यनन्तरं सिद्धाना मिति शेषः । अस्य हेतूनामित्यनेनान्वयः ॥ ( ४ ) एवमुत्क्रान्त्यादिहेतुभ्यो जीवस्याव्याप्तत्वे सिद्धे अणुत्वसा धकाधिकरणमध्ये अन्तर्भेदाधिकरणत्वेन किञ्चित्प्रसङ्गात् चिन्त्यते । किमिदमुत्क्रान्त्यादिकं जीवस्य परमेश्वरेण? स्वयमेवेति। तत्र पूर्वपक्ष माह—तत्रेति ॥ ‘सोऽस्मात्’ इत्युदाहृतश्रुतावित्यर्थः । तत्रेत्यावर्तते। तस्योत्क्रान्त्यादावित्यर्थः । जीवस्येत्यनुवर्तते । प्रतीतेरित्यस्य स्वयमे वेत्यनेनान्वयः । स्वयमेवेत्यनन्तरं तस्योत्क्रान्त्यादीति साध्यमध्याहार्य म् । नेश्वरेणेत्येवशब्दार्थः। नन्वस्यां श्रुतौ जीवस्योत्क्रान्त्याद्येव श्रूयते, न त्वन्याधीनताविधिः निषेधो वाऽस्ति । अतो नानया दृढनिर्णय इत्य त आह—एक इति । ‘एकः’ स्वतन्त्रो ‘जन्तुः’ जीवः ‘प्रसूयते’ उ त्पद्यते ‘प्रमीयते’ नश्यति । एवशब्दस्य द्विर्ग्रहणं सर्वत्रान्वयज्ञापक म् । दुष्कृतं चेत्यन्वितः चशब्दः समुच्चये । अनुभुङ्क्त इत्यत्रापि सम्ब ध्यते । ‘इत्यादेः’ एवमादिस्मृतिवचनाच्चेत्यर्थः । न केवलं प्रतीतेरि

[ अधि - १२. सू - २१. ] दीपिका सहितम्. ५७९ ( ५ ) अतो वक्ति— सू— ॐ ॥ स्वात्मना चोत्तरयोः ॥ ॐ ॥ २१ ॥ 'स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नी यते। तं वा एतमभिवदन्ति स्वात्मा' इति, 'एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गम यत्येष आगमयति' (पौष्यायण) इत्युत्तरयोर्वाक्ययोः ति चार्थः । तथा च स्मृत्यनुसारेण श्रुतेरपि जीवस्योत्क्रान्त्यादेः परा धीनतानिषेधोऽर्थ इति भावः ॥ ( ५ ) एवं पूर्वपक्षे तन्निराकरणाय सूत्रमवतार्य व्याचष्टे—अत इ ति ॥ 'स एतेन' इत्याद्येकं श्रुतिवाक्यम् । 'एष ह्यानन्दम्' इत्यन्यत् । अनेनोत्तरयोरित्यनेन ज्ञापितं वाक्यद्वयमुदाहृतं भवति । 'सः' जीवः 'एतेन' स्वस्थितेन 'स्वात्मना' स्वरूपभूतमानन्दमादत्ते इति व्युत्प त्त्या स्वात्मशब्दवाच्येन परमात्मनाऽनुगृहीतः इमं मातृदेहस्थं गर्भं प्रवि शति । परेणैव तत्प्रेरित एव जायते । तेनैव लोकान्तरं 'नीयते' म्रिय ते 'उन्नीयते' मोक्षायोर्ध्वं नीयते । तमेतं विष्णुं स्वात्मेत्यभिवदन्ति विद्वांस इत्यर्थः । अनेन स्वात्मशब्दस्य विद्वद्रूढिर्दर्शिता । 'एषः' पर मात्मा आनन्दं जीवकृतशुभकर्मफलं 'आदत्ते' गृह्णाति स्वरूपानन्द मनुभवतीति वा । 'अभि जीवयति' धृतप्राणं करोति संस्थापयति । 'उद्गमयति' देहान्निर्गमयति ऊर्ध्वं परलोकं गमयतीति वा । 'आग मयति' देहं प्रावेशयति । इमां भूमिमागमयतीति वेत्यर्थः । यद्यप्येष ह्येनं जीवमित्यारभ्यैव द्वितीयवाक्यमुदाहर्तव्यम् । तस्यैव प्रकृतोपयु क्तत्वात् । तथाऽपि द्वितीयवाक्ये स्वात्मशब्दाभावात् कथमुत्तरयोरि त्यनेन द्वितीयवाक्यं गृह्यत इत्याशङ्क्य मैवं द्वितीयवाक्ये स्वात्मशब्दा भावेऽपि तद्व्याख्यानरूपैष ह्यानन्दमादत्त इति वाक्यसद्भावादिति भावेन तत्पूर्ववाक्यमप्युदाहृतम् । अत एव सूत्रे उभयोदाहरणम् । इ त्युत्तरयोरिति । पौष्यायणश्रुतौ सोऽस्मादिति वाक्यापेक्षयोत्तरयो रित्यर्थः । सकाशादिति शेषः । यद्वा—सप्तमीयं न षष्ठी । तथात्वे सू त्रे वचनादिति शेषः। भाष्ये तूच्यन्त यत इति शेषः। आद्ये तु भवन्ती ति । एवं हेतुं व्याख्याय इदानीं स्वात्मना चेति प्रतिज्ञांशं व्याचष्टे— परमात्मनैवेति ॥ स्वात्मनेत्यनुक्त्वा परमात्मनेत्युक्त्या परं पूर्णं स्वरूप

५८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] परमात्मनैवोत्क्रान्त्यादयः ॥ २१ ॥ ( ६ ) ॐ ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ ॐ ॥ २२ ॥ 'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च' इति व्याप्तिश्रुतेर्ना णुर्जीव इति चेत्— ( ७ ) न, 'स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च । स बहुधेदमनुप्रविश्यात्मानोऽभिनयति । स आत्मा प्रभूतमानन्दं आदत्त इति व्युत्पत्त्या स्वात्मशब्दो व्याख्यातः । उत्क्रा- न्त्यादय इत्यनेन सूत्रे उत्क्रान्तिगत्यागतय इति पूर्वसूत्राद्विपरिणतप- दस्यानुवृत्तिः सूचिता । अल्पाक्षरत्वायादिशब्दप्रयोगः । तथा च सो- ऽस्मादिति पूर्ववाक्यमप्येतदर्थकमेव । स्मृतिस्तु प्रसवादिदुःखानुभ- वं परमात्मदत्तस्वातन्त्र्यमाहेति न त

[ अधि - १२. सू - २२. ] दीपिकासहितम्. ५८१ स आत्मानः स ईशः स विष्णुः स परः परोवरी- यान्' इति परमात्माधिकारात्वात् । ( ८) एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः । एक एवोच्यते वेदैस्तावता नास्य भिन्नता ॥ इति भविष्यत्पुराणे । ( ९ ) 'तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा-आ तेन या स्यापि तस्मिन्नेव सावकाशत्वात् । निर्गुणा इति गुणबन्धरहित्योक्ते- श्च । अत एव नोत्क्रान्त्यादीनां औपचारिकत्वं कल्प्यमेतच्छ्रुतेर्बाधक- त्वादिति भावः । 'सः' परमात्मा 'इदं' जगत् सृजति । सोऽन्तर्गतो बहिर्गतश्चेति द्विधा भूत्वाऽन्तर्बहिश्चेदं जगद्विभर्ति । बहुधा भूत्वा इद- मनुप्रविश्य 'आत्मनः' स्वस्य स्वत एवाभितः आभिमुख्येन 'नयति' स्व- क्रियानुकूलक्रियं करोति । यद्वा—'आत्मनः' आत्मरूपानभितो नय- ति। 'स आत्मा स आत्मानः' तादृशैकवचनबहुवचनान्तशब्दबोध्यः 'प- रोवरीयान्' सर्वोत्तम इति श्रुत्यर्थः । न चैवं विरोधः पौनरुक्त्यं वा, बहुरूपत्वात्तात्पर्यज्ञापकत्वाच्च । सृष्ट्यादिकर्तृत्वाभिधायिपूर्वांशस्य 'स ईशः' इत्याद्युत्तरांशस्य चोदाहरणमेतच्छ्रुतिस्थतच्छब्दानां वि- ष्ण्वेकविषयत्वसाधनार्थम् । तदेतत्सर्वमभिप्रेत्योक्तं तत्त्वप्रदीपे—बहु- रूपैरिदं जगत्प्रविश्य स्वत एवाभितो नयति । स आत्मा स आत्मानः इत्येकस्यैव बहुरूपत्वं पुनः पुनस्तात्पर्यादुपदिशति । विष्णुश्रुतिः सृ- ष्ट्यादिकर्तृत्वरूपतल्लिङ्गोक्त्या स इति तच्छब्दानां विष्णुविषयत्वमेवे- ति साधयति । परोवरीयस्त्वोक्त्या चात्मशब्दितस्य विष्णोरवरत्वं दूरीकरोतीति ॥ (८) ईश्वरस्य बहुवचनवाच्यत्वे भेदः स्यादित्यत आह—एकश- ब्दैरिति ॥ 'केशवः' सृष्टिसंहारयोर्ब्रह्मरुद्रनियोजको विष्णुरेक एवाभि- न्न एवानेकरूपत्वात् 'वेदैः' वेदगतैः 'एकशब्दैः' एकवचनान्तशब्दैर्द्विव- चनान्तशब्दैर्बहुवचनान्तशब्दैश्चोच्यते । तावताऽस्य विष्णोर्भिन्नता ना- शङ्क्येत्यर्थः । भविष्यत्पुराणे इत्यनन्तरमुक्तं अतो न भेदप्रसक्तिदोष इति वाक्यशेषः ॥ (९) एकस्मिन्नेकशब्दप्रयोगं सम्प्रतिपन्नस्थले दर्शयति—तदि- ति ॥ व्याख्यातमेतद्वाक्यं प्राणनये ऐतरेयश्रुतिः । तदयमिति वाक्येन

५८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] तम्’ (ऐ.आ.२-३-८.) इत्यादि च ॥ २२ ॥ परमात्मनः एकस्यैव शरीररथाधिष्ठातृत्वमुक्त्वा तत्र द्विवचनयुक्तौ म- न्त्रौ प्रमाणयति-तदित्यनेन। तत्तन्मन्त्रार्थे मन्त्रद्रष्टृऋषिणा हयग्रीवेण प्रमाणमुक्तमित्यर्थः । तन्मन्त्रद्वयं पठति-आतेनेति । इत्यादीति । इ- त्याद्युदाहरणं च निर्भेदेऽपि हरौ बहुरूपत्वापेक्षया बहुवचनं युक्तमि- त्येतमर्थं गमयतीति । तृतीयान्तपाठे इत्यादिना करणेनैतमर्थं गमयती- -त्यध्याहारेणान्वयो द्रष्टव्यः । न केवलं भविष्यत्पुराणोक्तिमात्रमिति चशब्दार्थः । आदिशब्देन समग्रो मन्त्रः ‘निमिषश्चित्’ इति मन्त्रान्त- रं च गृह्यते । तत्र— आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । [

(१०) सू—ॐ ॥ स्वशब्दोन्मानाभ्यां च ॥ ॐ ॥ २३ ॥ एषो ह्यात्माऽप्युद्गतो मानंशकेस्तथाऽप्यसौ प्रमितिं याति वेदैः । पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित्स र्वकर्ता ॥ ति । भागवततात्पर्ये तु—'यत्रोभयोस्सशब्दस्स्यात् तत्र द्विवचनेऽप्यु भे' इत्युक्तम् । 'सशब्दः' समानशब्दः । केचित्तु—यस्य मनोवाक्कर्म भिः योगे भगवत्सम्बन्धादिति व्याचख्युः । तन्नु ऐतरेयभाष्यटीका विरुद्धम् । निमिषश्चिज्जवीयसा रथेनायातमश्विना । अन्तिषद्भूतु वामवः ॥ (ऋ.८-६२-२. ) इति द्वितीयमन्त्रस्यायमर्थः—हे अश्विनौ 'निमिषश्चित्' चक्षुर्निमेषा दपि 'जवीयसा' अत्यन्तं वेगवता देहाख्यरथेनायातम् । 'वां' युव योस्सकाशात् यत् 'अवः' अद्यनं तत् 'अन्तिषत्' समीपे विद्यमानं अस्मदन्तिके स्थितं 'भूतु' भवत्विति ॥ (१०) यदुक्तं व्याप्तिश्रुतिरीश्वरविषया तत्प्रकरणादिति, तद्यु क्तं, श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वात्, तन्मात्रेण बहुवचनश्रुतेः ई श्वरविषयत्वेन सङ्कोचरूपबाधायोगात् इत्याशङ्कां परिहरत्सूत्रमुपन्य स्य व्याचष्टे—स्वेति ॥ इति वाक्यशेष इति । इत्येवं रूपे काषायणवा क्यशेष इत्यर्थः । श्रुताभ्यामिति शेषः । आत्मशब्दोन्मानाभ्यामिति । आत्मशब्दोन्मानत्वलिङ्गाभ्यामित्यर्थः । अस्य व्याप्तत्वश्रुतेः ईश्वरविष यत्वेन सावकाशत्वादिति पूर्वाध्याहृतवाक्येनान्वयः । न केवलं 'इत राधिकारात्' इत्युक्तप्रकरणात्, किन्तु आत्मश्रुत्युन्मानत्वलिङ्गाभ्यां चेति चशब्दार्थः । तथा च श्रुतिलिङ्गसहितप्रकरणेन केवलाया बहुव चनश्रुतेः बाधो युक्त एवेति भावः । आत्मशब्दोन्मानाभ्यामित्यनेन सू त्रे स्वेतिशब्दः स्वशब्दः , स्वस्य ब्रह्मणः शब्द इति वा विग्रहः । तेन च तत्पर्यायात्मशब्दो गृह्यते । उन्मानशब्दश्च भावप्रधानः । तेन च अपरिमितत्वलिङ्गमुच्यते । 'परमतस्सेतून्मान' इतिवत् इत्यभिप्रे ति । 'एषः' इति श्रुतौ उत्तरार्धेन पूर्वार्धोदितमुपपाद्यते । तथा च— 'एषः' हरिः 'हि' यतः गुणैः पूर्णः अचिन्त्यश्च, तथा 'स सर्ववेदैक योनिः' सर्वे वेदाः एकं केवलं योनयो व्यक्तिकारणानि यस्य स तथो

५८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च । ( ११ ) आत्माऽमेयः परंब्रह्म परानन्दादिकाभिधाः । वदन्ति विष्णुमेवैकं नान्यत्रासाङ्गतिः काचित्॥ इति च कौर्मे ॥ २३ ॥ ( १२ ) सू— ॐ ॥ अविरोधश्चन्दनवत् ॥ ॐ ॥ २४ ॥ क्तः सर्वाधीशः सर्वज्ञः सर्वकर्ता च, अतो 'मानशक्तेः' पुरुषगतपरि- माणशक्तेः अध्युद्गतः परिमाणातीतः पूर्ण इत्यर्थः । अत एव तत्त्वप्रदी- पे मानशक्तेः अधिकत्वेनोद्गतः सर्वेभ्यो गुणाधिकत्वेन मानशक्तिमति- लङ्घ्य वर्तते कैश्चिदपि न मानशक्त्या मीयत इत्युक्तम् । यद्वा—'मा- नशक्तेः' वेदगतयथार्थज्ञानजननशक्तेरुद्गतः तद्विषय इत्यर्थः । यद्य- प्येवं, तथाऽपि 'असौ' परमात्मा विषयतया 'वेदैः प्रमिति याति' वे- दजन्यज्ञानविषयो भवतीत्यर्थः । अपरिमितस्यापि विभोः वेदैः एकदे- शप्रमितिः तत्प्रसादात् भवतीति भावः । यद्वा—वेदानां स्वशक्त्यवि- षयस्यापि विष्णोः तत्प्रसादात् ज्ञानकरणत्वं भवतीति भावः । अथ वा—द्रष्टुश्चक्षुः इतिवत् विष्णुः प्रमिति स्वप्रमिति याति यापयति स्वातन्त्र्यादित्यर्थः ॥ ( ११ ) आत्मश्रुतेरुन्मानत्वलिङ्गस्य च कुतो वैष्णवत्वमित्यत आ- ह—आत्मेति ॥ 'अमेयः' अपरिमितः । स्मृतेः विष्णुविषयत्वोपपादनाय परंब्रह्मेत्याद्युपन्यासः । एकपदमिदं, परानन्देत्यनन्तरं विसर्गलोपः आ- र्षो बोध्यः । इतिशब्दोऽत्राध्याहार्यः । इत्यादिका एवमाद्या अभिधा अ- भिधायकाः शब्दाः विष्णुमेवैकं मुख्यतो वदन्ति । 'आसां' अभिधा- नां 'अन्यत्र' जीवादौ काचिदपि 'गतिः' वृत्तिः मुख्यतो नास्तीत्य- र्थः । इति च कौर्मे इति । न केवलं वाक्यशेषे श्रुतमात्राभ्यां, किन्तु कौर्मे वचने विष्ण्वेकनिष्ठत्वेन निश्चिताभ्यामप्यात्मशब्दोन्मानाभ्यामि- त्यन्वयः । यद्यपि 'व्याप्ता ह्यात्मानः' इति श्रुतावात्मशब्दानन्त्ययोः श्र- वणात् पृथग्वाक्यशेषग्रहणं व्यर्थम् । तथाऽपि 'व्याप्ता ह्यात्मानः' इ- ति वाक्ये बहुवचनसमभिव्याहारात् अन्यार्थताया एव झडिति प्रति- भासाद्वाक्यशेषे च तदभावेनास्य स्मृतिगतामेयपदव्याख्येयोद्गतोमा- नशकेरितिपदयुक्तत्वेन च निश्चितार्थत्वात्तदर्थं पृथगुपन्यासो युक्तः॥ ( १२ ) नन्वथापि न जीवस्याणुत्वं युक्तम्, अणोस्तस्य शरीरे

[ अधि - १२. सू - २५ ] दीपिकासहितम्. ५८५ अणोरपि जीवस्य सर्वशरीरव्याप्तिर्युज्यते । यथा ह रिचन्दनविपुष एकदेशपतितायाः सर्वशरीरव्याप्तिः । ( १३ ) अणुमात्रोऽप्ययं जीवः स्वदेहं व्याप्य तिष्ठति । यथा व्याप्य शरीराणि हरिचन्दनविप्रुषः ॥ इति च ब्रह्माण्डपुराणे ॥ २४ ॥ ( १४ ) सू— ॐ ॥ अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृ- दि हि ॥ ॐ ॥ २५ ॥ कदेशस्थत्वेन तदन्यत्राभावेन कस्याप्यप्राप्तकरणेन क्रियानिर्वर्तक- त्वाभावेन सर्वशरीरगतस्पर्शज्ञानायोगात् तत्रतत्र चक्षुरादिषु तैस्तैर्यु- गपद्रूपादिरिपज्ञानायोगाच्चेत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे— अविरोध इति ॥ अणोरपि जीवस्येत्यादिना सूत्रे ज्ञस्य जीवस्येत्यस्या- नुवृत्त्या विरोधपदावृत्त्या च यतो जीवस्य अणुत्वव्याप्त्यविरोधः अणु- त्वेऽप्यंशैः सर्वशरीरव्याप्तिर्युज्यते, अतो 'विरोधः' तत्र तत्र परिज्ञानायो- गाख्यविरोधो नेति योजना दर्शिता । अपिस्तु यद्यपितथापीत्यर्थः, समुच्चयार्थो वा । उभयादृष्टबाधपरिहाराय प्रवृत्तं चन्दनवदिति दृष्टा- न्तांशं चन्दनेषु श्रेष्ठत्वाद्विशेषपरतया विवृणोति—यथेति । हरिचन्द- नेति । 'गन्धसारो मलयजो हरिचन्दनम्' इत्युक्तेः गन्धसाराख्यमल- यगिरितरुकाष्ठकृतद्रव्यबिन्दो रित्यर्थः । विप्रुष इत्यनेन अणुत्वं ज्ञापित- म् । 'एकदेशपतितायाः' अंशैः शरीरैकदेशनिपतितायाः। अस्य तथे- ति पदाध्याहारेण अणोरपीति पूर्ववाक्येनान्वयः ॥ ( १३ ) ननु नियामकं विना न दृष्टान्तमात्रेण अर्थसिद्धिः, एतत्प्रति- कूलदृष्टान्तस्यापि वचनसम्भवादित्यत आह—अणुमात्रोऽपीति ॥ अ- णुपरिमाणोऽपीत्यर्थः । अपिः पूर्वोक्तार्थकः । अंशैरिति शेषः । 'शरी- राणि' शरीराङ्गानि 'हरिचन्दनविप्रुषो' गन्धद्रव्यबिन्दवः एकदेशप- तिताः तिष्ठन्ति, तथेति शेषः । ब्रह्माण्डपुराणे उक्तमिति शेषः । तथा च अस्यैव नियामकत्वान्नोक्तदोष इति भावः ॥ ( १४ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याच- ष्टे—अवस्थितीति ॥ विप्रुष इत्यनुषज्यते । तथा नेति । वाऽप्यत्रान्वीय- ते । सर्वशरीरव्याप्तिरिति चास्ति । तथा च चन्दनस्य विप्रुषः सर्व- शरीरव्याप्तिर्युज्यते । कुतः ? 'सम्यगसम्यगवस्थानविशेषात् ' चन्द- ७४

५८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] सम्यगसम्यगवस्थानविशेषाद्युज्यते चन्दनस्येति चेत्— ( १५ ) न, ‘हृदि ह्येष आत्मा’ (प्र० ३.६०) इति जीवस्यापि तथाऽभ्युपगमात् ॥ २५ ॥ नबिन्दोः सांशत्वेन शरीरैकदेशे सम्यगवस्थानस्य अन्यत्र असम्यग- वस्थानस्य च विशेषस्यानुभवसिद्धत्वात् न तथा जीवस्य । कुतः ? यतोऽयं न तथा सांशः, तथा सत्यनित्यत्वप्रसङ्गादिति योजना । विशे- षादित्युक्त्या सूत्रे स्वार्थे ष्यञिति ज्ञापितम् ॥ ( १५ ) परिहारांशं व्याचष्टे—नेति ॥ न जीवस्य शरीरे सम्यगस- म्यगवस्थानाभाव इत्यर्थः । येन दृष्टान्तवैषम्यं स्यादिति भावः । कुतो नेत्यतस्तत्र हेतुतया अभ्युपगमादित्यंशं योजयति—जीवस्येति ॥ अ- नेन सूत्रे ज्ञस्य जीवस्येत्यस्य अनुवृत्तिस्सूचिता । न केवलं चन्दनबि- न्दोः किन्तु जीवस्यापीत्यपेरर्थः । ‘तथाऽभ्युपगमात्’ चन्दनबिन्दुव- द्देहे हृदयतदितरस्थानयोः सम्यगसम्यगवस्थानाभ्युपगमात् । कथ- मेतत् ‘तथाऽभ्युपगमात्’ चन्दनबिन्दुवज्जीवस्यापि सांशत्वाभ्युपग- मादित्यर्थः । न चानित्यत्वप्रसङ्गः । यतो न सांशत्वमात्रमनित्यत्वे प्र- योजकम्, किन्त्वारम्भकांशवत्त्वं, तच्च न जीवेऽस्ति । अन्यथा प्रकृत्या- देरपि दशदिक्सम्बन्धेन सांशत्वादनित्यत्वप्रसङ्गादिति भावः । अयं च भावस्तत्त्वप्रदीपे सूचितः । कुतस्तथाऽभ्युपगम इत्यतस्तत्र हेतुत- या हृदि हीत्यंशं योजयति—हृदीति । श्रुतेरिति शेषः । हृदि हीति श्रु- तिप्रतीकग्रहणम् । हृदयेऽवस्थितितयैवोभ्याभ्युपगमादिति स्थलोक्तिरू- पे वा । ‘हि’ यतः ‘एष आत्मा’ जीवो ‘हृदि’ हृदये स्वरूपेणास्ति, अतो नेन्द्रियवृत्तिं विनाऽप्येतस्य विषयसङ्गतिरिति षट्प्रश्नश्रुतिवा- क्यार्थः । अनेन—चन्दनवज्जीवस्य ‘अविरोधः’ स्वरूपतदंशाभ्यां सर्वशरीरव्याप्तिर्युज्यते । कुतः ? चन्दनबिन्दोरात्मनस्सकाशात् ‘अवस्थितिवैशेष्यात्’ शरीरैकदेशे सम्यगवस्थानस्य अन्यत्र अस- म्यगवस्थानस्य च विशेषस्य अनुभवसिद्धत्वादस्य च जीवेऽभावा- दिति चेत्—न, कुतो?जीवस्यापि हृदि तदन्यत्र च तथाभावाभ्युपग- मात् । सोऽपि कुतः ? ‘हृदि हि’ इति श्रुतेरिति सूत्रयोजना, विरोधप- दानुवृत्त्या नञावृत्त्या तथाशब्दाध्याहारेण च दर्शिता भवति । इदं त्ववधेयम्—सांशानां देवादीनामेकस्मिन् देहे हृदि नवनीतपिण्डव- स्सान्द्रद्रव्यरूपेण सम्यगवस्थानं तदन्यत्रासम्यगवस्थानमिति । यथो-

...': प (pa) द (da) म (ma) नु (nu) - it is just 'नु'! No 'न्', it's 'नु' with the bottom curve! Wait, look at "मनुषङ्गनीयम्": म (ma) नु (nu) ष (ṣa) ङ्ग (ṅga) नी (nī) य (ya) म् (m) Wait, look at the letter between 'ष' and 'नी': Is it 'ङ्ग'? It looks like 'ङ्ग'! Wait, is it "मनुषङ्गनीयम्" or "मनुषञ्जनीयम्"? Actually, "अनुषञ्जनीयम्" is standard, but often printed as "अनुषङ्गनीयम्" by confusion with "अनुषङ्ग". Wait, look at the vowel in 'नी': it's दीर्घ ई. So: "इतिपदमन्वषङ्गनीयम्" or "इतिपदमन्वषञ्जनीयम्"? Let's look at the letter after म: Is there a 'न्'? No, it is 'नु' or 'न्व'? Look at "किन्त्वन्यत्र" in L29: 'न्व' has a clear न and व. In L21, after 'म', there is 'नु' with a bottom loop, but wait, does it have a loop on the left? No, it's 'नु'. Wait, could it be "मनुषङ्गनीयम्"? Wait, look

Here is the line-by-line transcription of the text in Unicode Devanagari:

व्याप्त्यव्याप्तियुतास्त्वन्ये चिद्गुणेनैव नान्यथा । ( १८ ) चिद्गुणस्य स्वरूपत्वात्तद्व्याप्तिश्चेति युज्यते । रूपेण सम्यगवस्थानमित्यवस्थाभेदमपेक्ष्यैव व्याप्त्यव्याप्तियुताः, एवं देवांगा अर्जुनादयोऽपि प्रत्येकं हृदयादितरत्रासम्यक् कस्मिंश्च स- म्यगवस्थानेन व्याप्त्यव्याप्तियुताः । एवमंश्यापेक्षया ऽप्यव्याप्तियु- ताः असम्यगवस्थिताश्चांशिनस्त्वंशापेक्षया सम्यगवस्थिताः व्याप्ति- युताश्च, न त्वन्यथा । देवादिभ्योऽन्ये नरास्तु प्रकाशगुणेनैव व्याप्तियु- ताः, न देववत्सान्द्रव्याप्तिभाजः । अतो जीवानाम्णुत्वेऽपि न तत्र त- त्र परिज्ञानायोगाख्यविरोधावकाश इत्यर्थः ॥ ( १८ ) नन्वस्तु गुणस्य व्याप्तिः, गुणिनः कुत इत्यत आह—चिद्गुण [L1

[ अधि - १३. सू - २७. ] दीपिकासहितम्. ५८९ शक्तियोगात्सुराणां तु विविधा च व्यवस्थितिः ॥ इति ॥ २६ ॥ —:*:— १३. अधिकरणम् ॥ (१) 'स नित्यो निरवयवः पुण्ययुक् पापयुक् च स इमं लोकममुं चावर्तते स विमुच्यते स एकधा न सप्तधा न दशधा न शतधा' इति गौपवनश्रुतावेकस्याबहु- त्वं प्रतीयते । 'सपञ्चधा स सप्तधा स दशधा भ- वति स शतधा च सहस्रधा स गच्छति स मुच्यते ' मात्रशब्दोऽवधारणार्थः । तथा च अणूनामपि जीवानां देवेतरेषामण्ड- मात्रे यथाक्रमं प्रकाशो व्यापकः । अतएव तत्त्वप्रदीपे—'तद्यथाणुन- श्चक्षसः प्रकाशो व्याततः एवमेवास्य प्रकाशो व्याततः' (शाण्डिल्य.) इति श्रुतिमुदाहृत्य जीवमात्रस्य शरीराद्वहिरपि प्रकाशव्याप्तिरस्ती- त्युक्तम् । अतात्त्विकदेवाना मण्डमात्रे यथाक्रममंशो व्यापकः । ता- त्त्विकदेवानां तु यथाक्रमं बहिरपि अंशो व्यापक इत्युभयपरं वाक्य- मिति न विरोधः ॥ १२ ॥ ॥ इति उत्क्रान्त्यधिकरणम् ॥ १३. अधिकरणम् ॥ (१) अत्राधिकरणे जीवस्यैकरूपत्वानेकरूपत्वविषयश्रुतिविरो- धः परिह्रियते । सन्देहबीजं श्रुतिविगाने दर्शयति— स इति ॥ 'सः' जीवो नित्यः । तत्र हेतुः—यतो निरवयव इति । तत्रैव हेत्वन्तरम्— पुण्ययुक्पापयुक्चेति । तत्फलभोक्तेत्यर्थः । तथा च नित्यत्वाभावे कृत- हानाकृताभ्यागमप्रसङ्गात्तदेष्टव्यमिति भावः । अतएव तेषां बद्धक्रम- त्वात्न पृथक् तच्छब्दाभावः । 'इमं' भूलोकं 'प्रत्यावर्तते' पुण्यपाप- क्षये पुनः पुनरागच्छति । एवममुं परलोकं 'प्रत्यावर्तते' तदा तदा ग- च्छति 'स विमुच्यते' बन्धात् । 'स एकधा भवति' एकरूप एव भव- ति । नानेकरूप इत्यर्थः । यद्यपि स एकधेत्याद्येवोदाहार्यम् । तथाऽपि तच्छब्दबोध्यस्य जीवत्वज्ञापनाय, निरवयवत्वाद्देशबाहुल्येनाप्यनेकरू- पत्वं न सम्भवतीति पूर्वपक्षयुक्तिज्ञापनाय च श्रुतेरीश्वरविषयत्वनि- वारणाय 'पुण्ययुक्' इत्यादिवाक्यस्य, 'स नित्यः' इति तदादिवा-

इति पाराशर्यायणश्रुतौ बहुरूपत्वं प्रतीयते । ( २ ) अतो विरोधं परिहरति— सू—ॐ ॥ व्यतिरेको गन्धवत्तथा च दर्शयति ॥ ॐ ॥ २७ ॥ यथापुष्पाद्गन्धः पृथग्गच्छत्येवमंशिनो जीवादंशाः पृ- थग्गच्छन्ति । क्यस्य चोदाहरणं कृतम् । एकस्य जीवस्येति शेषः । 'अबहुत्वं' अ- बहुरूपत्वं एकरूपत्वमिति यावत् । स जीवः 'पञ्चधा' पञ्चरूपः । ए- वमुत्तरत्रापि । 'गच्छति' परं लोकं प्रति । अत्रापि जीवत्वज्ञापनाय 'स मुच्यते' इति शेषोदाहरणम् । अत्र श्रुतिद्वयेऽपि प्रतिपाद्यो योगिजी- वः । स एवेह विचारविषय इति ध्येयम् ॥ ( २ ) सयुक्तिकाबहुरूपत्वश्रुतिविरोधेन बहुरूपत्वश्रुतेः अप्रामाण्या त्तसाम्याज्जगत्कारणत्वश्रुतेः अप्रामाण्यात् न हरौ श्रुतिसमन्वयो यु- क्त इति प्राप्ते सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ यतो विरोधः द्वैधाश्रुतिमूलकः संशयबीजमस्ति, अतः संशयनिवृत्तयै तं विरोधं परि- हरति सूत्रकृदित्यर्थः । सूत्रं व्याचष्टे—यथेति ॥ यथा 'गन्धः' गुणः वायुनाऽऽकृष्टः 'पुष्पात्' पुष्पं विहाय 'पृथक्' पार्थक्येन प्रदेशान्त- रस्थितं घ्राणदेशं गच्छति तथा ये योगिजीवांशाः अंशिनो जीवात् पृ- थग्विभक्ताः सन्तस्तत्र तत्र स्वकार्याय गच्छन्तीत्यर्थः । यद्वा—गन्ध- शब्दो गन्धवद्द्रव्यावयवपरः । अतएव प्रमेयदीपे 'वायुर्गन्धानिव' इत्यत्र गन्धवतोऽवयवानिति व्याख्यातम् । पृथगित्यनेन व्यतिरेकशब्द- स्य पृथग्भावार्थत्वमभिप्रेति । अंशिनोऽंशा इत्यनेन सूत्रे ज्ञस्येति वि- परिणतपदस्यानुवृत्तिरंशैरित्यध्याहारश्च सूचितः । अत एव टीकायां म्—प्राथम्यसाम्येन गुणत्वोक्तिरित्युक्तम् । एतेन 'यथा गन्धस्य भू- मेश्च न भावो व्यतिरेकतः' इति तृतीयस्कन्धविरोधोऽपि निरस्तः । न चैवं दीपं विहाय वृत्तेर्द्रव्यत्वसाधकताविवादादिति पूर्वाधिकरण- टीकोक्त्या गन्धादिगुणानामपि गुणिनं विहाय गमनावगमनात् तथा, द्रव्यत्वसाधकगमनदूषकचन्द्रिकया च विरोध इति वाच्यम् । गम- नोक्तेः सूक्ष्मावयवविषयत्वात्, दूषणोक्तेश्च स्थूलावयवविषयत्वात्, पक्षद्वयस्याप्यविरुद्धत्वात् । अत्र भाष्यटीकयोः आलोकगन्धयोर्गुण- त्वोक्तिर्मुख्या । द्रव्यत्वोक्तिस्त्वमुख्येति द्रष्टव्यम् ॥

[ अधि - १३. सू - २७. ] दीपिकासहितम्. ५९१ ( ३ ) ‘अथैक एव सन् गन्धवद्व्यतिरिच्यते। अथैकीभवति। अथ बह्नीभवति । तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति सोऽचिन्त्यः परमो गरीयान्’ इति शाण्डिल्यश्रुतिः। (४) अचिन्त्येशशक्त्यैव ह्येकोऽप्यवयववर्जितः। ( ३ ) ननु विभक्तांशबाहुल्येन जीवस्य बहुरूपत्वाभ्युपगमेऽपि ‘स ए- कधा’ (गौपवन.) इति श्रुतिविरोध इत्यतस्तत्र तस्याः स्वरूपैक्यविष- यत्वादिति परिहारम्, न च भिन्नांशशून्यत्वादनेकरूपत्वानुपपत्तिरि- त्यतस्तत्र योगसम्पदोपपत्तेरिति परिहारम्, न चेश्वरेण साम्यापात इत्यतस्तत्र योगिनामपि बहुरूपत्वशक्तेः योगाराधितेश्वरप्रसादायत्त- त्वादिति परिहारम्,न चेश्वरस्याप्येतदश

आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदा ॥ इति च पाद्मे ॥ २७ ॥ १४. अधिकरणम् ॥ ( १ ) ‘तत्त्वमसि’ (छा. ६-८-७.) ‘अहं ब्रह्मास्मि’ (बृ. ३- ४ - १०.) इत्यादिषु जीवस्य परेणाभेदः प्रतीयते । ‘नित्यो नित्यानां चेतनश्चेतनानां’ (श्वे. ६-१३.) ‘द्वा सुपर्णा’ (श्वे. ४-६.) इत्यादिषु भेदः । ( २ ) अत उच्यते— सू—ॐ ॥ पृथगुपदेशात् ॥ ॐ ॥ २८ ॥ ख्यसम्पत्त्या स्वात्मानं बहुधा कृत्वा क्रीडत इत्यर्थः । ‘एतेन योगः’ इत्यत्रेतरयोगशास्त्रस्यैव दृगर्थविषये अप्रामाण्यमुक्तं भगवता, न तु परमयोगस्येति तत्त्वप्रदीप एवोक्तम् । इति पाद्मे इत्यनन्तरं सूत्रकृदु- क्तमुक्तमिति शेषः ॥ १३ ॥ ॥ इति व्यतिरेकाधिकरणम् ॥ ─── * ॐ * ─── १४. अधिकरणम् ॥ ( १ ) अस्मिन्नधिकरणे जीवस्य परमात्माभिन्नत्वादिविषयश्रुति- विरोधः परिह्रियते । संशयबीजं श्रुतिद्विगानं दर्शयति-तत्त्वमसीति ॥ ‘इत्यादिषु’ एवमादिश्रुतिवाक्येषु । आदिशब्देन ‘स यो हवै तत्पर- मं ब्रह्म वेद ब्रह्मैव भवति’ (मु. ३-२-९.) इत्यादिकं गृह्यते । ‘परे- ण’ परमात्मना । ‘नित्यो नित्यानाम्’ इत्यत्र ‘चेतनश्चेतनानाम्’ इ- त्यत्र च निर्धारणषष्ठ्या जीवस्य भेदः प्रतीयते । ‘द्वा सुपर्णा’ इत्य- त्र तु अभेदविरोधिद्वित्वसङ्ख्यया भेदवाचकद्विशब्देनैव वा भेदोऽव- गम्यत इति ध्येयम् । ‘तत्त्वमसि’ इत्येतदानन्दमयाधिकरणे ‘नित्यो नित्यानाम्’ इत्येतत् ‘नात्मा’ इत्यत्र ‘द्वा सुपर्णा’ इत्येतत् द्युभ्वा- धिकरणे व्याख्यातम् ॥ ( २ ) ‘तत्त्वमसि’ इत्यादिश्रुतेः षड्विधतात्पर्यलिङ्गोपेतत्वेन प्रबल- त्वात् परमात्माभिन्न एव जीव इति पूर्वपक्षे सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ उपदेशादित्यस्यार्थः श्रुतेरिति । नन्वभेदश्रुतेर-

[ अधि - १४. सू - २९. ] दीपिकासहितम्. ५९३ 'भिन्नोऽचिन्त्यः परमो जीवसङ्घात्पूर्णः परो जीवसङ्घो ह्यपूर्णः । यतस्त्वसौ नित्यमुक्तो ह्ययं च बन्धान्मोक्षं तत एवाभिवाञ्छेत्' इति सोपपत्तिककौशिकश्रुते र्भिन्न एव जीवः ॥ २८ ॥ ( ३ ) सू—ॐ ॥ तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ ॐ ॥ २९ ॥ ज्ञानानन्दादिब्रह्मगुणा एवास्य यतः सारः स्वरूपम् भिन्नो जीव इत्यपि सुवचत्वादवधारणानुपपत्तिरित्यतः सोपपत्ति केति हेतुविशेषणमदायि । विरुद्धधर्माधिकरणत्वरूपयुक्तियुक्तेत्य र्थः । सावधारणस्य पृथगिति साध्यपदस्यार्थो भिन्न एवेति । स्वात्मने तिप्रकृतपरमात्मन इति शेषः । ज्ञ इत्यस्य अनुवृत्तपदस्यार्थो जीव इ ति । श्रुतिसूत्रयोः प्रतिज्ञावाक्यादित्वेऽपि हेतुगर्भा प्रतिज्ञाऽपि उपप त्तिज्ञापिकेति प्रमाणलक्षणोक्तेरनियमपक्षमाश्रित्य हेतुगर्भप्रतिज्ञैवेह प्रदर्शिता । एवमन्यत्रापि द्रष्टव्यम् । यतः 'परः' परमात्माऽचिन्त्यः साकल्येन 'जीवसङ्घात्' जीवसमुदायात् 'परमः' उत्तमः पूर्णः गु णैः । जीवसङ्घस्तु चिन्त्यः परमत्वावधिभूतोऽपूर्णश्च 'हि' प्रसि द्धः । किञ्च—यतोऽसौ हरिर्नित्यमुक्तः, अयं जीवश्च संसरति बन्धान्मो क्षं 'ततः' परमादेव स्वस्याभिवाञ्छति 'हिः' प्रसिद्धम् । अतो जी वविरुद्धधर्मत्वात् ततो भिन्न एवेति श्रुत्यर्थः । यद्यपि श्रुतावीश्वरध र्मिकाभेदस्यैव श्रवणात् 'जीवैक्यं परमात्मनः' इत्यनुव्याख्याने तथै वोक्तत्वाच्च ईश्वरो जीवाद्भिन्न इति प्रतिज्ञातव्यम् । तथाऽपि जीवपेटि कात्वादेकवित्तिवेद्यतया विरुद्धधर्मोक्तिद्वारा जीवधर्मिकभेदस्यापि श्रु त्युक्तत्वादेवमुक्तम् । अत एव सुधायां—यतो विष्णुः जीवात् जीवश्च विष्णोः पृथगिति साध्यनिर्देशः कृतः ॥ ( ३ ) नन्वेवं सति 'तत्त्वमसि' इत्याद्यद्वैतश्रुतेर्निर्विषयतयाऽप्रामा ण्यं स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—तदिति ॥ ज्ञाना नन्दादिब्रह्मगुणा एवेत्युक्त्या अभेदेत्युक्त्या च तदिति तच्छब्दद्वये न स्वात्मनेतिप्रकृतस्य परमात्मनः परामर्शः, तस्य गुणास्तद्गुणा इ ति विग्रहः, तद्गुणशब्दस्तद्गुणसदृशगुणपरः, द्वितीयतच्छब्दो भावप्र धान इति च सूचितम् । अस्येत्यनेन ज्ञस्येति विपरिणतपदस्य सूत्रेऽ नुवृत्तिस्सूचिता । न चायोग्यस्य जीवस्य ज्ञानानन्दादिगुणाभाव इति ७५

५९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] तोऽभेदव्यपदेशः । यथा सर्वगुणात्मकत्वात्सर्वात्मक त्वं ब्रह्मण उच्यते 'सर्वं खल्विदं ब्रह्म' ( छा. ३-१४- १०) इति । (४) भविष्यत्पुराणे च— वाच्यम् । अस्य शास्त्रस्य विशिष्टाधिकारित्वेन तं प्रत्येव 'तत्त्वम सि'इत्याद्युपदेशप्रवृत्तेः अस्य सज्जीवस्येत्यर्थाभ्युपगमात् । सारपदमनू द्य व्याचष्टे—सारः स्वरूपमिति । न च ज्ञानानन्दादिरूपब्रह्मगुणानां कथं जीवस्वरूपत्वमिति वाच्यम् । ब्रह्मगुणा इत्यस्य तद्गुणसदृशगु णा इत्यर्थाभ्युपगमात् । एवं सूत्रेऽपि गुणशब्दस्तद्गुणसदृशगुणपरः । अत इति सावधारणम् । अनेन सौत्र तुशब्दो व्याख्यातः । तद्व्यपदेशः इत्यस्य पर्यवसितार्थोऽभेदव्यपदेश इति । 'तत्त्वमसि' इत्यादिपरब्र ह्मैक्योक्तिरित्यर्थः। ज्ञानानन्दादीत्यादिवाक्यं च। यतो जीवस्य ब्रह्मगुण सदृशगुणस्वरूपत्वं, अतस्तद्विवक्षयैव गौण्या वृत्त्या जीवे ब्रह्माभेदो क्तिः अभेदप्रापकतदादिपदप्रयोगो, न त्वभेदाभिप्रायेण । यत एवमभेदव्यपदेशोऽन्यथोपपन्नः, अतो न तस्याप्रामाण्यमिति साध्या ध्याहारेणावृत्त्या योज्यम् । एवं यतस्तद्व्यपदेशो जीवस्य तद्गुणसार त्वमपेक्ष्योपपन्नोऽतो नाभेदश्रुतेरप्रामाण्यमिति प्रतिज्ञाध्याहारेण सूत्र योजना द्रष्टव्या । सर्वगुणात्मकत्वादिति । समस्तजद्गुणसदृशगुण स्वरूपत्वमपेक्ष्य यथा 'सर्वं खल्विदं ब्रह्म' इति छन्दोगश्रुतौ प्रकृ ष्टज्ञातृत्वनिमित्तात् प्राज्ञशब्दोक्तस्य ब्रह्मणः 'सर्वात्मकत्वं' जड जगदभेदः 'उच्यते' व्यपदिश्यते तथैवेत्यर्थः । यथेत्यादिना प्रज्ञ एव प्राज्ञः तद्वत् तस्य सर्वाभेदोक्तिवदिति दृष्टान्तांशो व्याख्यातः । यद्यपि छान्दोग्यभाष्ये 'इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः' इति व चनानुसारेणेदंसर्वपदयोः परमात्मनि मुख्यवृत्तिरभिहिता, न तु गौ णी वृत्तिः । तथाऽपि पदसमन्वयाभिप्रायेण तस्य प्रवृत्तत्वात् , वा क्यान्वयाभिप्रायेणात्र गौणिवृत्त्यभिधानात् न विरोधः ॥ (४) अत्रैव स्मृतिसम्मतिमाह—भविष्यदिति ॥ न केवलं सूत्र कृता सूत्र एवैतदुक्तम्, किन्तु स्पष्टोक्तिरूपे भविष्यत्पुराणे चोक्तमि त्यर्थः । किमुक्तमित्यतस्तत्पठति—भिन्ना इति । यद्यपि जीवाः परमा त्मनो भिन्नाः, परमात्माऽपि जीवेभ्यो भिन्नः । तथाऽपि सर्वेषु 'वेदवा

ृशगु-Line 13:णस्वरूपत्वादित्यर्थः । अनेन जीवब्रह्माभेदोक्तेः चित्त्वादिसाम्यं निमि-Line 14:त्तमित्युक्तं भवति । इति भविष्यत्पुराणे इतीतिशब्दान्वयः ॥ १४ ॥Line 15:॥ इति पृथगधिकरणम् ॥Line 16::*:-(decorative separator) Line 17:१५ अधिकरणम् ॥Line 18:( १ ) अत्राधिकरणे जीवनित्यत्वविषयश्रुतिविरोधः परिह्रियते ।Line 19:सफले पूर्वपक्षमाह—जीवस्येति ॥ ऽपीह इत्यत्रेति भावः । न केवलंLine 20:वियदादेः, किन्तु जीवस्यापीति वा, न केवलं जीवोपाधेः किन्तु जी-Line 21:वस्यापीति वाऽपेरर्थः । न केवलं पूर्वोक्तन्यायेनोत्पत्तिमात्रं जीवस्य,Line 22:किन्तु उत्पत्तिमतो भावस्य विनाशित्वरूपानित्यत्वनियमादनित्यत्वम-Line 23:पि प्राप्तमित्यपिशब्दाभिप्रायः । अनेन सयुक्तिकपूर्वपक्षः प्रदर्शितः ।`

५९६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ३. ] सू—ॐ ॥ यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ ॐ॥ ३० ॥ यावत्परमात्मा तिष्ठत्यनाद्यनन्तत्वेनैवं जीवोऽपि । ( ३ ) ‘नित्यः परो नित्यो जीवोऽनित्यास्तस्य धातवः । अत उत्पद्यते च म्रियते च विमुच्यते च’ इति च आग्नि- वेश्यश्रुतिः । ( ४ ) आत्मा नित्यस्सुखदुःखे त्वनित्ये, जीवो नित्यो धातुर नेन आत्मशब्दो व्याख्यातः । ‘तिष्ठति’ अस्तीत्यनेन भाविशब्दः , ‘अनाद्यनन्तत्वेन’ उत्पत्तिनाशशून्यत्वेनेति सत्त्वप्रकार उक्तः । ‘एवं’ तावत्कालं जीवोऽपि तिष्ठतीत्यनेन सूत्रे इहत्वनुवृत्तिस्सूचिता । न केवलं परमात्मा किन्तु जीवोऽपीति समुच्चये अपिशब्दः । अनेन बिम्ब- स्य परमात्मनोऽनाद्यनन्तत्वात् जीवस्वरूपोपाधेश्च यावदात्मभावि- त्वात् परमात्मनोऽनन्तत्वेन बिम्बोपाधिसन्निधेरनाद्यनन्तत्वात् नित्य- त्वादिति हेतुसमुच्चायकतया सौत्रचशब्दो व्याख्यातः । न दोष इति साध्यांशः अनादिकर्मसम्बन्धः आनन्त्यावाप्तिश्च न युज्यत इत्युक्तो दोषो नेति पूर्वपक्षफलकथनपरभाष्येणैव व्याख्यातप्रायत्वात् पुनर्न व्याख्यातः । अनेनैव ‘सोऽनादिना’ इति श्रुत्यप्रामाण्यदोषोऽपि नेत्यपि व्याख्यातः ॥ ( ३ ) कुत एतदखिलं सिद्धमित्यतः तत्र प्रमाणप्रदर्शकत्तया तद्- र्शनादिति सूत्रखण्डं योजयति—नित्य इति ॥ बिम्बभूतः ‘परः’ पर- मात्मा नित्यः । तथा ‘जीवः’ प्रतिबिम्बनोपाधिभूतः जीवस्वरूप- प्रकाशो ‘नित्यो’ यावत्परमात्मभावी । न चैवं ‘ब्रह्मन् लयमभ्युपै- ति’ इति जीवस्य ब्रह्मणि लयश्रुतिविरोध इत्याह—अनित्या इति । यतस्तस्य जीवस्य ‘धातवो’ बाह्यदेहाः अनित्याः अतो जीवा उत्पद्य- न्ते ‘म्रियन्ते’ नश्यन्ति इत्युच्यन्ते । तथा च श्रुतेरुपाधिविषयत्वात् न तद्विरोध इति भावः। स्वरूपतोऽविनाशित्वादेव जीवो देहबन्धात् ‘वि- मुच्यते’ आनन्त्यावाप्तिरूपमुक्तिभागी च भवतीति श्रुत्यर्थः । चशब्दः क्रियासमुच्चये ॥ ( ४ ) सूत्रे दर्शनाच्चेत्यपि चशब्दान्वयेन सूचिते स्मृती दर्शय- ति—आत्मेति ॥ सुखदुःखपदाभ्यां बाह्योपाधिरुपलक्ष्यते । अत एव टीकायाम्—धात्वादिपदोदितेत्युक्तम् । भारते आत्मेति पादः एक- स्थानस्थितः। आत्मेत्यस्य सुखदुःखेत्यस्य च व्याख्यानरूपो जीवधातु

[ अधि - १६. सू - ३१. ] दीपिकासहितम्. ५९७ स्य त्वनित्यः । इति च भारते ॥ ३० ॥ -: * :- १६. अधिकरणम् ॥ ( १ ) ‘विज्ञानात्मा सह देवैश्च सर्वैः ' ( प्र.४-११.) ‘स आ- नन्दः स परेणामुं लोकं नीयते स विमुच्यते' इति जीवस्य ज्ञानानन्दादिरूपत्वमुच्यते । ‘स दुःखाद्वि- मुक्त आनन्दीभवति । सोऽज्ञानाद्विमुक्तो ज्ञानीभवति । पदघटितोऽन्यः पादः स्थलान्तरंगतः । अत एव न पुनरुक्तिः । धातु- स्त्वित्यन्वयः । उभयत्रापि तुशब्दो वैलक्षण्यद्योतकः । भारत इत्यन- न्तरं वचनमिति शेषः । आग्निवेश्यश्रुतिर्वचनमित्युभयत्रापि यत इति शेषः । अस्यैवं जीवोऽपीति पूर्वेणान्वयः । चशब्दः श्रुतिस्मृतिसमुच्च- यार्थः ॥ १५ ॥ इति यावदधिकरणम् ॥ -: * :- १६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवस्य आनन्दादिरूपत्वतदभावश्रुत्योर्विरो- धः परिह्रियते । श्रुतिविरोधरूपं सन्देहबीजं दर्शयति-विज्ञानात्मेति ॥ विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र । तदेतदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेश ॥ इति षट्प्रश्नश्रुतिः । ‘स आनन्दः' इति श्रुत्यन्तरम् । इतीति । इत्या- दिश्रुतिभिरित्यर्थः । सोम्येति कस्य चित्सम्बोधनम् । तुशब्दोऽवधार- णे । तथा च ‘विज्ञानात्मा' विज्ञानस्वरूपो जीवः ‘प्राणाः' चक्षुरा- द्याः तद्विषयाश्च रूपादयः ‘भूतानि' पृथिव्यादीनि तन्मात्राश्च ‘सर्वै- र्देवैः' अभिमानिभिः सूर्यादिभिः सह ‘यत्र' यस्मिन् अक्षरे ब्रह्मणि सम्प्रतिष्ठन्ति । तदेतदक्षरं यः पुरुषो ‘वेदयते' विजानाति ‘सः' उ- क्तप्रकारेण सर्वज्ञः ‘सर्वं' पूर्णं परं ब्रह्म ‘आविवेशैव' ध्रुवमाविश- त्येवेति प्रथमश्रुत्यर्थः । ‘सः' जीवः ‘आनन्दः' आनन्दरूपः । एवं ब- लरूपः ओजोरूपः ‘परेण' परमात्मनाऽमुमामुष्मिकं लोकं प्रति नीय- ते । तत्पूर्वं तेनैव देहसम्बन्धाद्विमुच्यत इति द्वितीयश्रुत्यर्थः । आन- न्दादिगुणानां प्रत्येकमभेदे तात्पर्यज्ञापनार्थं स इत्यभ्यासः । स परेणे- त्यधिकांशोदाहरणं अस्य ईश्वरविषयतानिरासाय । एवं पूर्ववाक्य