पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
शुक्लत्वमेत्येवमेव वर्णान्तरगतिर्भवेत् ॥ विष्णुवीर्याभियोगाच्च पीतत्वं भुव इष्यते । स्वर्णवीर्यो हि भगवाननादिः परमेश्वरः ॥ इति व्योमसंहितायाम् ॥ १२ ॥ ७. अधिकरणम् ॥ ( १ ) 'प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकस्तेनान्नेना प्यायस्व' ( महाना. १६-२. ) इत्यादिनान्यः संहर्ता प्रतीयते इति । उदकसम्बन्धबाहुल्यादित्यर्थः । 'एति' प्राप्नोति । सेत्यस्ति। एवमेवेति। पृथिव्यां वर्णान्तरस्य वर्णविशेषस्य 'एवमेव' वक्ष्यमाणरीत्या 'गतिः' स्थितिर्भवेदित्यर्थः । एवमेवेत्युक्तमेव दर्शयति-विष्ण्विति । 'वीर्या भियोगात्' वीर्यसम्बन्धात् वीर्यविकाराण्डद्वारेति भावः । न केवलं पद्मसम्बन्धात्,किं तु वीर्यसम्बन्धाच्चेति निमित्तसमुच्चये चशब्दः। वी र्यसम्बन्धेऽपि कुतः पीतत्वं भुव इत्यत आह-स्वर्णेति । हिशब्दो भ गवतः स्वर्णवीर्यत्वे 'तदण्डमभवद्धैमम्' 'शुष्मं हिरण्यात्मकम्' इ त्यादिप्रमाणप्रसिद्धिद्योतकः । स्वर्णस्य पीतत्वमप्यनेनैव सिद्धम् । य त इत्यर्थे वा हिशब्दः । नन्वन्यत्राहृष्टं विष्णुवीर्यस्य सुवर्णत्वं कथं क ल्प्यते, वीर्यसम्बन्धात्पूर्वं निमित्ताभावश्चेत्यत आह-अनादिः पुरुषो त्तम इति । तथा च विष्णोरनादित्वेन तद्वीर्यसम्बन्धस्यापि प्रवाहतो ऽनादित्वात्न निमित्ताभावः । लौकिकक्षराक्षरपुरुषविलक्षणत्वान्न दृष्ट विरोध इति भावः । परमेश्वर इति पाठे तु ऐश्वर्यमुक्तार्थघटकतया व्याख्येयमिति । व्योमसंहितायामित्यस्य काष्र्ण्यप्रचुरेत्युक्तमुक्तमित्य ध्याहृतेनान्वयः । अनेन प्रचुरेत्युक्तिप्रयोजनमुक्तं भवति ॥ ६ ॥ ॥ इति पृथिव्यधिकरणम् ॥ ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मणः प्रकृताधिभूताधिदैवविषयसंहृतिकर्तृ त्वे श्रुतिविरोधः परिह्रियते । पूर्वपक्षयति-प्राणानामिति ॥ तैत्तिरीय श्रुतिरियम् । आदिशब्दादेवंविधश्रुत्यन्तराणि पातृत्वादिति युक्तिश्च गृह्यते । व्याख्यातेयं श्रुतिर्द्युभ्वाद्यधिकरणे । 'अन्यो' विष्णोः रुद्र एवे त्यर्थः ॥
[ अधि - ७. सू - १३. ] दीपिकासाहितम्. ५५९ ( २ ) अतो ब्रूते— सू—ॐ ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ ॐ ॥ १३ ॥ 'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायां निवृत्तिः' (श्वे. १-१०.) इति बन्धलयस्य तदभिध्यान निमित्तत्वलिङ्गात्तत्कर्तृत्वं प्रतीयते, किमु सादेर्जगतः । इत्येतस्मादेव सर्वसंहारकर्ता विष्णुरिति प्रतीयते । ( २ ) सिद्धान्तयत्तसूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीत्यनन्त- रं श्रुताविति शेषः । बन्धलयस्येत्यनेन तदित्यस्यावृत्तिर्दर्शिता । अना- देरित्यादौ ग्राह्यम् । अस्य तत्कर्तृत्वमित्यनेनान्वयः । अत्र तत्कर्तृत्वं तदिच्छाधीनत्वं विवक्षितम् । ततः किमित्यतस्तल्लिङ्गादित्यस्य तच्च तत् लिङ्गं चेति विग्रहाश्रयेणार्थमाह—तदभिध्यानेति । बन्धलयस्ये- त्यत्राप्यन्वीयते । तथा च बन्धस्य संसारस्य लयस्य तस्मान्मोक्षस्ये- श्वरेच्छाधीनत्वरूपहेतोरित्यर्थः । श्रुतादित्यध्याहारे लिङ्गादित्यस्येति श्रुताल्लिङ्गात्तत्कर्तृत्वं प्रतीयत इत्यन्वयः । अत्र तत्कर्तृत्वं तत्कृत्यधी- नत्वं, प्रतीयत इत्यस्य चानुमीयत इत्यर्थः । बन्धलयस्येच्छाधीनत्व- लिङ्गेन तत्प्रयत्नाधीनत्वानुमानोपपत्तेरिति भावः । ततः किमित्यतोऽ- नादिबन्धलयकर्तृत्वेनेश्वरस्य सादिजगत्संहृतिकर्तृत्वं सुतरां सिध्य- तीत्यभिप्रेत्य तदेव विवरितुं सौत्रमेवशब्दं कैमुतिकन्यायपरतया व्या- ख्याति—किम्विति । लयस्य तत्कर्तृत्वमित्यनुषज्यते । सिध्यतीति शे- षः । नन्वस्तु विष्णोरनादिबन्धभेत्तुर्विश्वसंहारकर्तृत्वं, तावता प्रयत्ना- ख्यतत्संहारफलोपधानं कुतः सिध्यतीत्यत आह—इत्येतस्मादिति । इत्येतद्रूपात् सादिजगत्संहर्तृत्वरूपाद्धेतोरेवेत्यर्थः । सूत्रे उद्देश्यसम- र्पकपदाभावाद्योग्यतया लब्धं तद्दर्शयति—सर्वेति । विधेयसमर्पक- स्य स इत्यस्यार्थो विष्णुरिति । निखिलनिगमतात्पर्यप्रसाधितजगतक- र्तृत्वादिना तस्यैव प्रस्तुतत्वादिति भावः । यद्वा—स इत्यस्यावृत्त्योद्दे- श्यविधेयपरत्वमित्याशयेन सर्वसंहारकर्ता विष्णुरिति चोक्तम् । वि- ष्णुरिति सावधारणम् । अत एव सूत्रेऽवधारणार्थकस्तुशब्दः प्रायो- जि । नन्वस्त्वीश्वरेच्छाधीनत्वमनादिबन्धलयस्येश्वरकर्तृत्वे लिङ्ग- म्, अस्तु चानादिबन्धलयस्येश्वरकर्तृत्वं सादिजगत्संहर्तृत्वे । तथा- पि सादिजगल्लयकर्तृत्वं तत्संहर्तृत्वे कथं लिङ्गमुभयोरभेदादिति चे- न्न । संहारकर्तृत्वशक्तेर्हेतुत्वेन तत्कर्तृत्वफलोपधानस्य साध्यत्वेनाभ्यु-
-
iti -> kimviti = किन्विति / किंविति / किम्बिति). In many Marathi/Bombay Nirnaya Sagar prints, 'न्व' is often 'न्व', but 'म्ब' has a line across the loop. Look at 'म्ब' in 'बिम्ब': yes, that's 'म्ब'. Here it has a loop with a diagonal stroke: that is 'ब'! So 'म्ब' = mba. "किम्बिति". But wait, could it be "किमु इति" -> "किम्बिति"? Wait, look at line 4: "व्याख्याति—किम्बिति ॥" -> wait, is that a hyphen/dash? Yes, "व्याख्याति—किम्बिति ॥" Let's look at the letters: क (ka) + ि (i) = कि म + ब = म्ब, with ि = म्बि त + ि = ति So "किम्बिति ॥".
- Line 5:
इदं चावर्तते । किम्बिव्यादिश्रुतिभ्यः इत्यन्वयः । तथा च यदा लिङ्गाWait, look at "किम्बिव्यादिश्रुतिभ्यः": कि (ki) म्बि (mbi) त्या (tyā) - wait, is that 'त्या'? Look at line 5: "कि" "म्बि" "त्या" "दि"... wait, the letter after म्
- Line 5:
[ अधि - ७, सू - १३. ] दीपिकामहितम्. ५६१ युवेऽस्तु देवः । ' य इदं सर्वं विलापयति स हरिः परः मोक्षस्य प्रसादसाध्यत्वे लिङ्गं भगवत्प्रसादेन तद्दर्शनाभावे च ज्ञापय- ति-दृष्ट्वैव तं मुच्यत इति । मोक्षस्य दर्शनसाध्यत्वश्रवणात्प्रसादाद्द- र्शनं दर्शनान्मोक्ष इत्यवश्यमङ्गीकार्यत्वादिति टीकावचनमुक्तार्थानु- कूलम् । परिपाककाल इत्येतदधिकरणीयटीकापदस्योपासनाजनितप्र- सादाद्दर्शने जाते सति प्रारब्धकर्मावसाने सतीति चार्थः । यथोक्तं त- तत्त्वप्रदीपे-तस्य विष्णोरभिध्यानाद्विश्वमायान्निवृत्तिः कुतः जाता । तस्मिन्नेव मनोयोजनाद्भूयस्तत्त्वभावनया चान्ते परोक्षज्ञाने जा- ते विश्वबन्धकमायान्निवृत्तिद्वारको मोक्षो भवतीति । उक्तं च सुधा- याम्-अस्यापरोक्षज्ञाने जाते अन्ते कर्मक्षयान्ते इति । अत्र मायाश- ब्देन मायाऽविद्याप्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यम- ङ्गीकरणीयमिति सुधोक्तेः, अजे द्वे प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते । स्वगुणाच्छादिका त्वेका परमाच्छादिका परा ॥ स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः । व्याघुष्य मोक्षपदवीं ददाति पुरुषोत्तमः ॥ इति स्मृतिसिद्धे द्विरूपे दुष्टप्रकृती गृहीते । तयोर्दुष्टत्वं च स एवे- श्वरः स्वप्रकाशमपि स्वरूपचैतन्यं स्वाधिष्ठानलब्धपरिणाममहद- हङ्कारादिप्रकृत्यंशैः संयोज्याविद्यमानमेवास्य कर्तृत्वदि स्वातन्त्र्यादि प्रदर्श्य रागाद्युत्पादनद्वारा दुःखमनुभावयतीति सुधोक्तरीत्या जीव- स्य दुष्टत्वसम्पादकत्वात्, 'अजामजितदोषामगृहीतगुणाम्' इति व- चनाच्च सिद्धम् । जडप्रकृतेर्बन्धकत्वं चित्प्रकृतिद्वारा, चित्प्रकृतेर्बन्धक- त्वं तु 'दैवी ह्येषा गुणमयी मम माया दुरत्यया' इति स्मृतिसिद्धम् । ए- षा तु अस्य मोहिका इति व्याख्यानात् अन्यप्रकृतिद्वयमप्यस्ति, तच्च 'अथान्ये प्रकृती दुष्टे' इत्यादिवचनात्सिद्धं, दुष्टत्वमपि अत एव तयोः सिद्ध्यति । अनादिप्रकृतेः कीदृशो विनाश इति चेत्सुधोक्तरीत्या स्वरू- पप्रध्वंस एवेति गृहाण । न च दुष्टप्रकृत्योरुभयोः स्वरूपेण निवृत्त्य- भ्युपगमे श्रुतिगीतातात्पर्याहृतश्रुतौ हन द्रावयेत्युक्तिविरोधः, स्मृताव- पि व्याघुष्येत्युक्तिविरोधश्चेति वाच्यम् । व्याघुष्येत्यस्य निहृत्येत्यर्था- भ्युपगमात् । प्रथमं द्रावय पश्चाद्धनेत्यर्थसम्भवाच्च । श्रुतौ विश्वश ७२
५६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] परमात्मा ' ( ) इत्यादिश्रुतिभ्यः इति एवशब्दः । ब्दः एकैकाशेषपरः न तु समस्ताशेषपरः । एकैकस्य प्रातिस्विकमा- यानिवृत्तावपि सर्वमायानिवृत्तेरभावात् । अत एव ऋग्भाष्ये प्राति- स्विकी प्रकृतिर्यत्तमश्च दोषाश्चान्ये पुंस्यतो युक्तमेतदित्युक्तम् । सुधायां च एकमुक्तौ न सर्वमुक्तिः , प्रतिजीवमविद्याभेदाङ्गीकारादि- त्युक्तम् । इदं त्ववधेयम्-जीवस्य न मायैवावरणं किन्त्वन्यान्यप्यावर- णानि सन्ति । तानि चादौ देहः ततः प्रकृतिबन्धः ततः सत्त्वादिगुण- बन्धः ततः कर्मादिबन्धः ततः लिङ्गदेहः ततः ईश्वरेच्छेत्येवंरूपा- णि । न चात्र मूलाभावः। देहाद्वाह्यं विनाऽतीवबाह्यत्वादिति गीताभा- ष्यस्य मूलत्वात् । इदं हि भाष्यं प्रमेयदीपे देहाद्वाह्यं विनाऽऽत्माभि- मानस्थमध्यात्मम् ,तत्र युक्तिः-अतीवबाह्यत्वादभिमानविषयत्वाभा- वादिति व्याख्यातम् । अत्र देहाद्वाह्यस्य गेहादेरध्यात्मत्वाभावे साध्ये जीवापेक्षयाऽतीवबाह्यत्वादिति हेतुरुक्तः । अस्य हेतोर्व्यभिचारवार- णायात्मभिमानविषयत्वाभावादिति व्याख्यातः । तथा च जीवापेक्ष- या देहस्यातीवबाह्यत्वात् मध्ये बहून्यावरणाति सन्तीति सिद्धमिति। न चापरोक्षज्ञाने जाते सतीत्यर्थाभ्युपगमे तन्निर्धारणाधिकरणविरोधः, तत्र श्रवणादेरेवाज्ञाननिवर्तकत्वोक्तेः । अत्रापि पुनःपुनर्भगवति मनो- योजनतत्वभावजनिताभिध्यानस्य श्रवणादिजनितप्रसादरूपस्य मा- यानिवर्तकत्वोक्तेश्चेति वाच्यम् । यतोऽज्ञानस्य श्रवणादिनिवर्त्यत्वेऽप्य- परोक्षज्ञाननिवर्त्यत्वमपि सम्भवति । श्रवणजनितापरोक्षज्ञानेन अज्ञान- स्य शिथिलीभावरूपनिवृत्तिः अपरोक्षज्ञानेनात्यन्तिकी निवृत्तिरित्यभ्यु- पगमात् । एतत्सर्वं ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ इति गीताभाष्यप्रमेयदीपिकयोः स्पष्टमुपवर्णितम् । तथाहि प्रमेयदी- पवचनं—स्वरूपज्ञानमविद्ययाऽऽवृतं, वृत्तिज्ञानं त्वविद्यां शिथिलयति । ब्रह्म प्रकाशयतीति । अत्र वृत्तिज्ञानशब्दस्य गीताभाष्यरीत्या परोक्षम- परोक्षं चार्थः । न चैवं प्रमाणैरुत्पन्नमपीदं मनोवृत्तिरूपतत्त्वज्ञानं अन्त- रङ्गभूतेन विशुद्धस्वभावरूपज्ञानेनोपोद्वलितं सत् बहिरङ्गमनाद्यपि स- वासनमेवाज्ञानं समूलघातं हन्तीति सुधाविरोधः । अत्र केवलवृत्ति-
[ अधि - ७. सू - १३. ] दीपिकासहितम्. ५६३ ( ४ ) स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः । स्रष्टृत्वादिकमन्येषां दारुयोषायदुच्यते ॥ एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् । सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत् ॥ इति च स्कान्दे ॥ ज्ञानस्याज्ञाननिवर्तकत्वोक्तेरज्ञाननिवर्तने स्वरूपज्ञानस्यापि वृत्तिज्ञान- सहायत्वोक्तेश्चेति वाच्यम् । पूर्वं स्वरूपज्ञानस्यावृतत्वेनाकिञ्चित्कर- त्वेऽपि परोक्षवृत्तिज्ञानेनावरकाज्ञानस्य शिथिलीभावानन्तरमपरोक्षवृ- त्तिज्ञानोपोद्वलकत्वसम्भवात्केवलस्यापरोक्षवृत्तिज्ञानस्यात्यन्तिकाज्ञा- ननिवर्तकत्वाभावेऽपि स्वरूपज्ञानोपोद्वलितस्य समूलाज्ञानघातक- त्वोपपत्तेश्च । यमप्येतीति श्रुतिरस्त्यधिकरणे व्याख्याता । य इदमित्य- न्यश्रुत्यर्थस्तु। यस्माद्यः ‘इदं सर्वं' विश्वं ‘विलापयति' नाशयति त- स्मात्स भगवान् संहर्तृत्वाद्विरित्युच्यते । न च पितृत्वात्नाशकत्वा- योगः । यतः स ‘परो' ममत्वादिदोषराहित्याल्लोकपितृविलक्षणः । त- त्कथं ? यतः स परमात्मा सर्वोत्कृष्टचेतनोऽत इति ॥ (४) विष्णोरेव संहर्तृत्वे 'रुद्रो माऽऽविशन्तकः' (महा. ३५.) इत्युक्त- श्रुतिविरोध इत्यत आह-स्रष्टेति ॥ यतो हरिः परमेश्वरो ईशोऽयं ब्रह्मा- दिभ्योऽवर उत्तमोऽत एक एव स्रष्टा ‘पाता' रक्षिता संहर्ता च भवति। ततोऽन्येषां ब्रह्मादीनां स्रष्टृत्वादिकं ‘दारुयोषवत्' दारुमयीस्त्रीप्रतिमा- वत् परतन्त्रमुच्यते पुराणादावित्यर्थः । तदपि न सामस्त्येनेत्याह—ए- कदेश इति । सृष्ट्यादिकमिति पूर्वत्रापि सम्बध्यते । चोऽवधारणेऽप्य- र्थे च । तथा चात्र परतन्त्रेऽन्यनिष्ठस्रष्टृत्वाद्येकदेशस्य क्रियैव ज- गदेकदेशविषयैव सृष्ट्यादिक्रिया निविष्टा, न तु ‘सर्वात्मना' सर्वथा सर्वजगत्सम्बन्धिसृष्ट्यादिकमीरितं निविष्टमुक्तमित्यर्थः । यद्वा—पर- तन्त्रेऽपि ब्रह्मादिजीवे ‘एकदेशक्रिया' जगदेकदेशस्यैव क्रिया सृष्ट्या- दिरूपा तत्कर्तृत्वमिति यावत् । ‘न तु सर्वात्मना' सर्वथा सर्वजगत्स- म्बन्धिसृष्ट्यादिकं तत्कर्तृत्वमीरितं प्रमाणेषु । तर्हि समस्तं सृष्ट्यादि- कं कस्माद्भवेदित्यत आह—सृष्ट्यादिकमिति । तुशब्दो विशेषार्थः । परादिति हेतुगर्भम् । तथा च ‘समस्तं' सर्वजगत्सम्बन्धिसृष्ट्यादिकं ‘परात्' स्वतन्त्राद्विष्णोरेव भवेत्, न त्वन्यस्मादित्यर्थः । तथा चा- न्तकत्वश्रुतिः पराधीनसंहारकर्तृत्वपरा परतन्त्रजगदेकदेशसंहृतिकर्तृ
५६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ५ ) निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ॥ इति च भागवते । ( ६ ) ‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्प- त्तिलय एक एव हरिः परः परानन्दः ’ इति च म- त्वविषयतया भाक्ता चेति न तद्विरोध इति भावः । स्कान्द इत्यनन्तर- मुक्तमिति शेषः ॥ (५) रुद्रस्य संहारे पारतन्त्र्यं च विष्णुकर्तृके तस्मिन् द्वारत्व- मेवेति भावेनाह—निमित्तमिति ॥ दशमस्कन्धे उद्धववाक्यमेतत् । तवेति कृष्ण उच्यते । तस्य कालाख्यारूपिण इति हेतुगर्भं विशेषण- म् । आख्या च रूपं च आख्यारूपे काल इत्याख्यारूपे यस्यासौ का- लाख्यारूपी तस्येति विग्रहः । यस्येति बहुव्रीहिज्ञापकटीका तु इनेरर्थ- कथनपरा । रूपस्याकृतेः कालत्वं सर्वसंहर्तृत्वादिगुणसम्पन्नत्वं, का- लशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाचीति गीताभाष्यो- क्तः । धर्मविशिष्टभगवद्वाचीति तदर्थः । यद्वा—‘विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहः’ इति गीताभाष्योदाहृतस्मृतेः प्रमेयदीपे कालनामा विग्रहो यस्यासौ तथोक्त इति व्याख्यानादत्रापि सप्तम्य- न्तरूपपदघटितबहुव्रीहिसमासविग्रहप्रदर्शकतया टीका व्याख्येया । न चैवं कालाख्यारूपिण इति न स्यादिति वाच्यम् । आरूपिणो व्या- प्ररूपिण इति आङ् प्रश्लेषात् । अस्य काल इत्याख्यया युक्तं रूपम- स्यास्तीति मध्यमपदलोपित्वाद्वा । तत्त्वप्रदीपे तु—कालाख्यैव काल इति नामैव रूपं ज्ञापकं वाचकत्वेन तद्वानिति व्याख्यातम् । तथा च कालाख्यारूपिण ईशस्य तव ‘विश्वसर्गनिरोधयोः’ जगत्सृष्टिसंहार- योः हिरण्यगर्भः शर्वश्च ‘निमित्तमात्रं’ द्वारमात्रं न तु स्वतन्त्रकारणं मित्यर्थः । इति चेति चशब्दो न केवलं स्कान्दे, किन्तु भागवते चेति समुच्चयार्थः । अत्रापि पूर्ववदेव शेषः ॥ (६) भागवतस्मृतेर्मूलभूतां श्रुतिं चाह—स इति ॥ स विष्णुः ब्र- ह्मणा द्वारभूतेनेति शेषः । एवं रुद्रेणेत्यत्रापि । ‘विसृजति’ विविधं सृजति । ‘विलापयति’ विनाशयति । सृष्ट्यादौ विष्णोरेव मुख्यकार- णत्वे हेतुमाह—सोऽनुत्पत्तिलयो यत इति । उत्पत्तिनाशशून्य इत्य- र्थः । स एक एव हरिरित्यन्वयः । ‘परः’ उत्तमो विलक्षणो वा । अने-
[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६५ होपनिषदि ॥ १३ ॥ --:-- ८. अधिकरणम् ॥ ( १ ) ' अत एव हीदं परात्क्रमादुत्पद्यते क्रमाद्विलीयते न सावुदेति नास्तमेति' इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते । अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि ॥ इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । ( २ ) अत आह— सू— ॐ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ ॐ ॥ १४ ॥ न ममत्वादिदोषराहित्येन लोकपितृवैलक्षण्याल्लोके पितुरन्यस्य मार- कत्वेऽपि प्रकृते पितुरेव विष्णोर्मारकत्वोक्तौ न लोकविरोधः, तस्या- दोषत्वादिति सूचितम् । 'परानन्दः' पूर्णानन्दः निर्दुःखत्वं चोक्तम्। महोपानिषदीत्यस्य ब्रह्मरुद्रयोर्द्वारत्वमेवोक्तमित्यध्याहारेणान्वयः ॥७॥ ॥ इति तदभिध्यानाधिकरणम् ॥ -:※:- ८. अधिकरणम् ॥ ( १ ) अस्मिन्नधिकरणे अधिभूतादिसंहारक्रमविषयश्रुतिविरोधः परिह्रियते । अत्र प्रकृताधिभूतादीनि किमुत्पत्तिक्रमानुसारेण भगव- ता लीयन्ते व्युत्क्रमेण वेति सन्देहस्य बीजभूतं श्रुतिविगानं दर्शय- ति—अत एवेति ॥ पूर्वप्रकृतादेव 'परात्' उत्तमात् 'इदं' जगत् 'क्र- मात्' तत्त्वदेवतातारतम्यक्रमेणैवोत्पद्यते, क्रमेणैव लीयते इत्यर्थः । न जगद्वत्परमात्माप्युत्पत्तिनाशवानित्याह—नेति । 'असौ' परमात्मा 'नोदेति' नोत्पद्यते 'अस्तं' नाशं 'नैति' न प्राप्नोतीत्यर्थः । श्रीतत्त्व- व्यावृत्त्यर्थं परमादक्षराद्विष्णोरिति । न त्वन्यस्मादिति प्रथमैवकारस्य व्युत्क्रमादेवेति द्वितीयस्य न त्वन्यस्मिन्निति तृतीयस्य चार्थः । उत्प- त्तिक्रमेणैव लीयन्ते 'अत एव' इति श्रुतेर्लोकानुकूल्याच्च । ( २ ) इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ क्रमवचनमपीत्यनेन सूत्रे आवृत्तः क्रमशब्दः क्रमवचनपरः । अप्यर्थे स्तुरित्युक्तं भवति । अपिः बाधकत्वेन उपन्यस्तमपीति विशेषणसमु-
५६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] क्रमवचनमपि विपरीतक्रमापेक्षया । (३) कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च । यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते ॥ इत्यत एव भाल्लवेयश्रुतिवचनात् ॥ (४) अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः । इति क्रमेण भगवान् सृष्टिसंहारकृद्विभुः॥ इति च पाद्मे॥ (५) पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । ष्यर्थः । आवृत्तस्य विपर्ययेणेत्यस्यार्थः विपरीतेति । प्रवृत्तं यत इति शेषः । अस्यातो लयक्रमः विपर्ययेण उत्पत्तिक्रमवैपरीत्येनेवेति सौ त्रपदोक्तसाध्येनान्वयः ॥ (३) कुतः क्रमश्रुतेरर्थान्तरकल्पनमित्यतोऽपि प्रवृत्तं अत इति प दं तुशब्दार्थावधारणान्विततयाऽनूद्य व्याचष्टे—कर्तेति ॥ कर्तेत्यतः प्राक् अतएवेत्युत्तरवचनात् कुत इत्युपस्कार्यम् । यस्यामेव श्रुतौ क्र माल्लयः श्रूयते, तस्यामेव वचनान्न त्वन्यस्यामित्येवशब्दार्थः । यः 'प्रा णादिकस्य' ब्रह्मादिकस्यास्य जगतः क्रमात्कर्ता यश्च 'भूम्यादिक स्यास्य' व्युत्क्रमाद्धन्ता स हरेरेव परो, न त्वन्य इत्यर्थः । अनेनोत्प त्तावुत्तमक्रमः, लये त्वधमक्रम इति सूचितम् ॥ (४) ननु श्रुतित्वाविशेषात् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतो बाधः, विपरीतमेवं किं न स्यादित्यतोऽतःशब्दसूचितां स्मृतिमाह—अनुरूप इति ॥ योजना तु—क्रमो द्विविधः अनुरूपः प्रतिरूपश्चेति । तत्र सृष्टौ यः क्रमः सोऽनुरूपः । उत्तमादितारतम्यानुसारित्वात् । यो लये क्रमः स प्रतिरूपः उत्तमादितारतम्यप्रतिकूलत्वात् । एवमुभयविधक्रमेण 'विभुः' समर्थो भगवान् सृष्टिसंहारकर्तेति । पाद्म इत्यनन्तरं वचना दित्यनुषज्यते । अस्य सावकाशक्रमश्रुतेर्निरवकाशव्युत्क्रमपदघटित श्रुत्या बाधो युक्त इत्याहृतसाध्यवाक्येनान्वयः ॥ (५) व्युत्क्रमालयाङ्गीकारे लोकविरोधापातान्नासौ युक्तो, लोके प्रायेण पूर्वोत्पन्नानां पित्रादीनां प्रथमं लयदर्शनादित्यतः प्रवृत्तमतः शब्दावृत्त्या उपपद्यते चेत्यंशं व्याचष्टे—पूर्वेषामिति ॥ पूर्वोत्पन्नानामि त्यर्थः । उपपद्यत इत्यतः प्राक् लये क्रमो विपर्ययेणेति सूत्रांश आवृ त्या संयोज्यः। उपपद्यत इत्यस्य सामर्थ्याधिक्ययुक्त्या सिद्ध्यतीत्यर्थः। यद्वा-उपपद्यत इत्यस्य युज्यत इत्यर्थः। सामर्थ्याधिक्यं त्वतश्शब्दार्थः।
[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६७ ( ६ ) वामने च— पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् । सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ॥ न केवलं श्रूयते, किन्तु युज्यते चेति समुच्चये चशब्दः । तथा च लौकि- कानां प्रायशशतवर्षजीवित्वादिरूपस्य बलज्ञानादिरूपस्य वा सामर्थ्य- स्य साम्यात् क्रमाल्लयेऽपि नासावलौकिकतत्त्वदेवतालये भवति, यतः पूर्वोत्पन्नानां सामर्थ्याधिक्यादुत्तरेषां तदभावात्, एवं च लौकिकविरोध- स्यैष गुणवादिति भावः । पूर्वोत्पन्नेषु सर्वत्र उत्तरोत्पन्नापेक्षया साम- र्थ्याधिक्यमस्तीति ज्ञापनाय द्विर्वचनम्। अनेन—यतः ‘क्रमस्तु’ क्रमवच- नमपि ‘विपर्ययेण’ विपरीतक्रमापेक्षया प्रवृत्तमतो लये क्रमः ‘विपर्यये- ण तु’ उत्पत्तिक्रमवैपरीत्येनैव। कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः? अत एव व्यु- त्क्रमाल्लयश्चेति श्रुतेरेव । तथाऽपि क्रमश्रुतेः कुतो बाधः श्रुतित्वाविशे- षात् विपरीतं किं न स्यात् । अत एव सावकाशत्वादेव । न च लोक- विरोधः । यत उपपद्यते चायं व्युत्क्रमो युज्यते च । कथम्? अतः सामर्थ्याधिक्यात् । न केवलं श्रुत्योच्यते व्युत्क्रमः किन्तु उपपद्यते चेति सूत्रार्थ उक्तो भवति ॥ ( ६ ) ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतः ? येन पश्चाल्लयः स्यादित्यत आह—वामने चेति ॥ सामस्त्यं वीप्सार्थः । तथा च यतः ‘पूर्वे पूर्वे’ आदिसृष्टौ पूर्वोत्पन्नेषु चतुर्मुखादितत्त्वदेवेषु विष्णोः ‘स- न्निधानं' सन्निधिः ‘क्रमाधिकं' तारतम्यक्रमेणाधिकं अत एव तेषां पूर्वोत्पन्नानां पश्चादुत्पन्नापेक्षया ‘सामर्थ्याधिक्यम्' बलज्ञानशक्त्याधि- क्यमेवास्ति । न केवलमेतावत्, किन्तु तेषां ‘व्याप्तिः' अण्डाद्बहिः स्वस्वाभिमन्यमानपर्यन्तं देहतो व्याप्तिरपि तारतम्यक्रमेणाधिकैव, न न्यूना समा च । यत एवं अतस्तेषां पश्चादेव लयो न कदाचित्पूर्व, नात्र संशय इत्यर्थः । तथाशब्द उपमायां समुच्चये वा। तेन पश्चादुत्प- न्नेषु उक्तवैपरीत्यं च सिध्यति । ‘पूर्वादिभ्यो नवभ्यो वा' इति सर्वना- मसंज्ञायां विकल्पानुशासनात् तदभावपक्षे पूर्व इत्येतत्सप्तम्यन्तं, तद्भा- वपक्षे तु प्रथमाबहुवचनमिदम् । न च तथात्वे सन्निधानमित्यस्यान- न्वयः । सन्निधीयते विष्णुरत्रेतिव्युत्पत्त्याऽस्य प्रतिमापरत्वात् । तथा- त्वे ‘पूर्वे पूर्वे’ पूर्वपूर्वमुत्पन्नास्तत्त्वदेवाः यतो विष्णोः ‘क्रमाधिकं स- न्निधानं' क्रमेणाधिकप्रतिमारूपा इति योजना । इति वामन इत्यन्व-
५६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः ॥ इति च ॥ १४॥ ----------------- ⁂ ----------------- ९. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादि- ति चेन्नाविशेषात् ॥ ॐ ॥ १५ ॥ 'प्राणान्मनो मनसश्च विज्ञानम्' 'यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि' (कठ. ३ - १३.) इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत्— थः । वचनादित्यत्राप्यनुषज्यते । न सामर्थ्यात्क्रियासिद्धिरित्यध्याहृ- तेनान्वयः ॥ ८ ॥ इति विपर्ययाधिकरणम् ॥ —: ۞ :— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ काँचिदप- वादशङ्का निराक्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तत्पाठित्वा पूर्व- पक्षांशं तावद्व्याचष्टे—अन्तरेति ॥ तल्लिङ्गादित्येतच्छ्रुत्युक्तक्रमादुप- त्तिक्रमाल्लयाख्यलिङ्गादित्यर्थः । यद्वा— इत्येतद्रूपालिङ्गदर्शनादित्यर्थः । मनसः पूर्वोत्पन्नत्वं 'प्राणान्मनः' इति श्रुत्युदाहरणेन तस्य पूर्वमेव लये 'यच्छेत्' इति श्रुत्युदाहरणेन चोभयोरसिद्धिः परिहृता । पूर्व- पक्षे प्राणात् 'मनो' मनस्तत्त्वं जातं ततो विज्ञानतत्त्वं जातमित्यर्थः । सिद्धान्ते तु—मुख्यप्राणान्मनोरूपेन्द्रियं, तस्माद्वृत्तिरूपं विज्ञानं उत्प- न्नमित्यर्थः । यच्छेद्दिति काठकवाक्ये पूर्वपक्षे मनश्शब्दस्तत्त्वपरः । सिद्धान्तेऽर्थस्तु—'प्राज्ञो' ज्ञानी 'वाक्' वाक्तत्त्वं तदभिमानिनी उ- मा 'मनसि' मनस्तत्त्वे तदभिमानिनि रुद्रे 'यच्छेत्' उपरेमेत्तद्वश- त्वात्तत्र लीयत इति स्मरेदिति यावत् । 'तत्' मनः 'ज्ञान आत्मनि' विज्ञानतत्त्वाभिमानिन्यां वाण्यां लीयत इति ध्यायेदिति । प्रमेयदीपे तु—'यच्छेत्' नियच्छेदिति काठकभाष्यानुरोधात् 'वाक्' वाचं म- नसि 'यच्छेत्' तन्नियतां ध्यायेत् वाग्देवतां मनोदेवताधीनतया चि- न्तयेदिति विपरिणामाश्रयेण अध्याहारं लयपरत्वं च विना व्याख्यात- म् । अत एव तत्त्वप्रदीपकारोऽपि वाचं मनसि यच्छेत इत्येवाह । मन
[अधि - ९. - सू- १६.] दीपिकासहितम्. ५६९ (२) न, विशेषप्रमाणाभावात् ॥ १५ ॥ (३) ॥ सू-ॐ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भा क्तस्तद्भावभावित्वात् ॥ ॐ ॥ १६ ॥ 'मनसश्च विज्ञानम्' इति व्यपदेशश्चराचरेष्वालोच सीति दीर्घश्छान्दसः। वाङ्मनसी परस्परं 'यच्छेत्' एकैकञ्चैकैके यच्छेत् इति व्याख्यानं त्वाहृतग्रन्थविरुद्धम् । हेत्वंशं व्याख्याय पूर्व पक्षप्रतिज्ञांशं व्याचष्टे—विज्ञानमनसी इति । तत्त्वे इति शेषः । द्विती याद्विवचनमेतत्। 'अन्तरा' विना। विपरीतक्रम इत्यनेन क्रमेणेत्येतदुक्ता र्थं, अन्येषां लय इत्यादौ ग्राह्यम् । तेन सूत्रे लय इति शेषो दर्शितः ॥ (२) सिद्धान्तांशे व्याचष्टे—नेति ॥ विज्ञानमनस्तत्त्वे विना विप रीतक्रमेण लय इत्युक्तं नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं अविशेषादित्येत द्विशेषधर्मरहितत्वादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे—विशेषेति । सङ्कोचकप्रमाणाभावादित्यर्थः । यद्वा-विज्ञानमनस्तत्त्वयोर्यथोत्पत्ति लय इति विशेषप्रमाणाभावादित्यर्थः । ननु सर्वेषामपि विपरीतक्रमेणै व लय इत्यत्रापि प्रमाणं नास्ति । तथा च साम्यमेवेत्यतोऽप्याह—वि शेषेति । अभावादिति विच्छेदः । तथा च सर्वे वा एतत्क्रमादुत्पद्यते क्रमाद्विलीयते इति विशेषप्रमाणाभावादित्यर्थः । अनेन नाविशेषादि त्येकपदं सूचितम् । अथ वा—अभावादित्येव छेदः । तथात्वे सर्वं वे त्यविशेषप्रमाणाभावादित्यर्थः ॥ (३) नन्वस्त्येवोक्तं लिङ्गदर्शनं केषां चित्क्रमाल्लयः, केषां चिद्युत्क्रम मादित्यत्र विशेषप्रमाणरूपमतः कथं विशेषप्रमाणाभाव इत्याशङ्कां परि हरत्सूत्रमुपन्यस्य व्याचष्टे—चराचरेति ॥ मनसश्च विज्ञानमिति व्यप देश इत्यनेन तद्व्यपदेश इत्येतत् स चासौ व्यपदेशश्च तद्व्यपदेशो मनो विज्ञानमिति शब्द इति व्याख्यातम् । 'चराचरेषु' जङ्गमस्थाव रेषु । विषयसप्तमीयम् । इदं चराचरेषु व्यपदेशश्चञ्चलान्तःकरणाव बोधरूपचरतत्त्वरूपांचरविषयको व्यपदेश इति चराचरेष्वालोचना दिति चोभयान्वयि । पूर्वत्रान्वयेन चराचरव्यपाश्रयो व्यपदेश इत्येत द्व्याख्यातम् । चराचरेष्वालोचनाद्विज्ञानं भवतीत्यनेन च तद्भावभा वित्वादित्यंशः तस्मिन् चराचरविषये तस्य मनसो भावेनालोचनेन त स्यावबोधस्य वृत्तिज्ञानस्य भावित्वात् उत्पद्यमानत्वादिति व्याख्या तः। यद्वा—चराचरेष्वालोचनादित्यनेन चन्द्रिकारीत्या चराचरव्य ७२
` Wait! "भागापेक्षया स्यात्" इति वदता सूत्रस्थः "तु" शब्दः, अथवा "भाक्त" शब्दः? Wait, does the sutra have "भाक्तः"? Wait, let's look at BS 2.3 in Madhva: Wait! BS 2.3.17: Let's list the sutras in Madhva 2.3: 1. न वियदश्रुतेः 2. अस्ति तु 3. गौण्यसम्भवात् 4. शब्दाच्च 5. स्याच्चैकस्य ब्रह्मशब्दवत् 6. प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः 7. यावद्विकारं तु प्रभागो लोकवत् 8. एतेन मातरिश्वा व्याख्यातः 9. असम्भवस्तु सतोऽनुपपत्तेः 10. तेजोऽतस्तथा ह्याह 11. आपः 12. पृथिव्यधिकाररूपशब्दान्तरेभ्यः 13. तदभिध्यानादेव तु तल्लिङ्गात्सः 14. विपर्ययेण तु क्रमोऽत उपपद्यते च 15. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् 16. चरा
[ अधि - १०. सू - १७. ] दीपिकासहितम्. ५७१ विज्ञानतत्त्वात्तु मनो मनस्तत्त्वाच्च खादिकम् । एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ॥ विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः ॥ इति ॥ १६ ॥ १०. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ ॐ ॥ १७ ॥ का च । अथ यत्र क्वचित्त्तत्त्वानामेव अवरस्य पूर्वत्वमित्येवंरूपो विप- रीतक्रमः श्रूयते, तत्र कथमित्यतस्तस्या विषयमाह—अन्तरिति । 'वि- परीतक्रमः' परादित्युक्तापेक्षया विपरीतक्रमोत्पत्तिश्रुतिः 'प्राणान्मनोम- नसश्च विज्ञानम्'इत्येवमादिरूपा अन्तः ब्रह्माण्डस्य देहस्य चान्तस्तत्त्वा- भिव्यक्तौ ज्ञानिनां तदापरोक्ष्ये च क्रमापेक्षया च प्रवृत्तेत्यर्थः । यथो- क्तं तत्त्वप्रदीपे—यस्मादवरेषा
५७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ' स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्था पयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचय त्येक एव' ( ) इति श्रुतेः परमात्माऽपि न लीयते अश्रुतत्वाद्ब्रह्मलयस्य । ( २ ) निलीनशब्देनापिहितत्वमुच्यते । तुच्छ्येनाभ्वपि हितं यदासीत् , ( ऋ.१०-१२९-३. ) इति श्रुतेः । ते। तत्र सूत्रमुपन्यस्य पूर्वपक्षं सूचयन् व्याचष्टे—नेति ॥ श्रुतेरित्यनेन सूत्रे श्रुतेरित्यपिपदच्छेदः सूचितः। परमात्माऽपि लीयते इति नेत्यर्थः। न केवलं पृथिव्यादिरित्यपिशब्दार्थः। अनेन 'आत्मा चेत्यन्वितश्चशब्दो ऽप्यर्थतयाऽपि व्याख्यातः । तथा 'तमसि निलीनः' इति श्रुतेः चेतनत्वयुक्तेश्च परमात्माऽपि लीयत इति सयुक्तिकपूर्वपक्ष श्च सूचितः । सृष्ट्याद्यनेककर्तृत्वरूपब्रह्मलिङ्गप्रतिपादक 'स इदम्' इ त्यादिवाक्यशेषोदाहरणं तु निलीनश्रुतेरीश्वरैकविषयत्वेन निरवकाश त्वोपपादनाय । 'सः' एक एव परमात्मा 'इदं सर्वं' जगद्विलाप्य चित्प्रकृतिरूपोदकात्मकेन तमसाऽऽच्छाद्य संहृत्य स्वयं तमस्यन्तर्नि लीनः प्रकृतावाच्छन्नोऽथ तत्प्रकृतिरूपं तमो विलाप्याऽच्छाद्य स्वयं 'व्युत्तिष्ठते' प्रादुर्भवति । अथ स इदं जगत्सृजति। सृष्ट्वा च विविधं 'स्थापयति' स्थितिं प्रापयति। अथ 'विलापयति' संहारयति 'प्र स्थापयति' प्रेरयति 'आच्छादयति' अज्ञानेनावृतं करोति 'प्रकाश यति' जीवकर्तृकानुभवेन जीवं संयोजयति 'विमोचयति' स्वप्राप्ति तबन्धादित्यर्थः । सर्वत्रान्वयार्थं स इति द्विरुक्तिः । नेत्यनेन सिद्धान्त प्रतिज्ञाया उक्तत्वात् तत्राश्रुतेरिति पदच्छेदेनोक्तं हेतुं योजयति—अ श्रुतत्वादिति । 'तद्विलाप्य व्युत्तिष्ठते' इत्याद्युक्तयोदाहृतश्रुतितोऽपि ब्रह्मलयो नेति ज्ञायते । न चान्यतो ब्रह्मलयः श्रुतः । अतः कस्यामपि श्रुतौ ब्रह्मलयस्याश्रुतत्वादित्यर्थः । परमात्मनः प्रकृतत्वात्तल्लयस्येत्ये तावता पूतौ ब्रह्मेत्युक्तिः कालापरिच्छिन्नत्वरूपयुक्तिसूचनाथौ ॥ ( २ ) नन्वन्तस्तमसि निलीन इति ब्रह्मलयस्य श्रुतत्वात्कथमुच्य ते अश्रुतत्वमित्यत आह—निलीनेति ॥ अपिहितत्वमाच्छादितत्वम् । उपलक्षणमेतत् । इतरादृश्यत्वमित्यपि द्रष्टव्यम् । अतएव पैङ्गिश्रुता वदृश्यत्वमुच्यते । यथोक्तं बृहद्भाष्ये—
[ अधि - १०. - सू - १७. ] दीपिकासहितम्. ५७३
' स एतस्मिम् स्तमासि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति कश्चन ' इति पैङ्गिश्रुतिः । (४) ' नित्यो नित्यानां चेतनश्चेतनानाम् ' ( कठ. ५-१३. ) ' स नित्यो निर्गुणो विभुः परः परमात्मा ' ' नित्यो वि लौकिकव्यवहारो यो भूभारक्षपणादिकः । तद्दृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥ इति ॥ लौकिको लोकविषयकः। कुतो निलीनशब्दोऽपिहितार्थकः, येनाश्रुत त्वं सिद्ध्येत् इत्यतस्तदुत्तरत्वेनापि श्रुतेरिति छेदेनोक्तां श्रुतिं दर्शय ति—तुरुच्छ्येनेति । श्रुतेरिति । समाख्यारूपश्रुतेरित्यर्थः । ' स इदं स र्वे विलाप्य ' इत्यादेः ' व्युत्तिष्ठते ' इत्यन्तस्य ' नासदासीत् ' इत्यादेः ' महिना जायतैकम् ' इत्यन्तस्य च समर्थनार्थत्वादिति भावः । श्रुते रित्यस्य पूर्वेणान्वयः । व्याख्यैतेयं श्रुतिः आनुमानिकनये। निलीनत्व मिहापिहितत्वमेव न त्वन्यदिति ॥ ( ३ ) अत्र न केवलं समाख्यानं, किन्तु वाक्यमपीत्याशयेन श्रुते रित्यनेनोक्तं श्रुतिवाक्यं चाह—स इति ॥ अत्र पूर्वोत्तरवाक्यार्थप र्यालोचनया वाक्यलक्षणप्रमाणेनार्थात् निलीनशब्दोऽपिहितार्थे प्र युक्त इति ज्ञायते । केचिदियमपि प्रयोगरूपश्रुतित्वात्समात्र्यैव, समा ख्यादीनामिति टीका तु वस्तुस्थितिकथनपरेत्याहुः। ' सः ' परमात्मा ' एतस्मिन् ' प्रकृतिरूपे तमसि ' निलीनः ' छन्नः स्वयं प्रकृतिजीवका लाननुपश्यति एनं तु न कोऽपि पश्यतीत्यर्थः । ' पैङ्गिश्रुतेः ' पैङ्गीनां वा क्यात् । अस्यापि निलीनशब्देनेति पूर्ववाक्येनान्वयः ॥ ( ४ ) ननु किमर्थमेवं निलीनश्रुतेरर्थान्तरं परिकल्प्यते अस्याः ल य एवार्थः किं न स्यात् । न च समाख्यादिविरोधः । तस्य श्रुतितो दुर्बलत्वात् । न च ' नित्यो नित्यानाम् ' इति श्रुत्यन्तरबलात् । तस्या प्रामाण्योपपत्तेरित्यतः प्रवृत्तं नित्यत्वाच्च ताभ्य इत्यंशं व्याचष्टे— नित्य इति ॥ नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ॥ इति कठश्रुतेरयमर्थः—' नित्यानां ' स्वरूपतः अविनाशिनां सकाशा
५७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] भुः कारणो लोकसाक्षी परो गुणैस्सर्वदृक् शाश्वतश्च' ( ) इत्यादिश्रुतिभ्यो नित्यत्वाच्च ॥ १७ ॥ -- ११. अधिकरणम् ॥ (१) 'नित्यो नित्यानाम्' (कठ. ५-१३.) इति जीवस्यापि नित्यत्वमुक्तम् । 'सर्व एते चिदात्मानो व्युच्चरन्ति' इत्युत्पत्तिरुच्यते। त 'नित्यो' देहतोऽपि नित्यः परमनित्य इति यावत् । नित्यानां नित्य- त्वप्रद इति वा । एवं 'चेतनानां' ज्ञातॄणामपि 'चेतनः' परमचेत- नः, तेषां चैतन्यप्रद इति वा । यश्च स्वयमेक एव 'बहूनां' पुरुषाणां 'कामान्' काम्यान् 'विदधाति' करोति तं हृदयस्थं ये धीराः अनु- पश्यन्ति तेषां 'शाश्वती' पुनरावृत्तिशून्या 'शान्तिः' मोक्षो भवेन्नेत- रेषामिति । 'स नित्यः' इत्यन्यश्रुतिवाक्यम् । स परमात्मा देहतोऽपि नित्यः, यतो 'निर्गुणः' सत्त्वादिगुणाबद्धो विभुः परो विलक्षणोऽत इ- त्यर्थः । 'नित्यो विभुः' इत्यन्या श्रुतिः । नित्यत्वे हेतुर्विभुरित्यादिकं । 'कारणः' कारणं जगत इति शेषः । 'गुणैः' गुणेभ्यस्सत्त्वादिभ्यः 'परो' मुक्तः गुणमयदेहादिवर्जितः 'सर्वदृक्' सर्वज्ञः 'शाश्वतो' निर्विकार इत्यर्थः । आदिशब्देन नित्यत्वबोधकवाक्यान्तरं गृह्यते । ता- भ्य इत्यस्य व्याख्या श्रुतिभ्य इति । नित्यत्वादिति। देहतोऽपि नित्यत्वा- वगमादित्यर्थः । ब्रह्मण इत्यनुषज्यते । अस्यापि निर्लीनशब्देनापिहित- त्वमुच्यत इति पूर्वेणान्वयः । चशब्दो हेतुसमुच्चये । तथा च बाहुल्ये- न 'नित्यः' इत्यादिश्रुतीनां प्राबल्यान्नेतरश्रुतिविरोधेन अप्रामाण्यं शङ्क्य- मिति तच्छ्रुतिविरोधान्निर्लीनश्रुतेरर्थान्तरकल्पनं युक्तमिति भावः॥१०॥ ॥ इति आत्माधिकरणम् ॥ -:--:- ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवजन्मविषयश्रुतिविरोधः परिह्रियते । स- न्देहबीजं श्रुतिविरोधं दर्शयति—नित्य इति ॥ न केवलं परस्येत्यपि शब्दार्थः । नित्यत्वमिति । अविनाशित्वमित्यर्थः । उक्तमिति । पूर्वाधि- करणोदाहृतवाक्येनेति शेषः । न चोत्पत्तिश्रुतिप्रतियोग्यनादित्वश्रुतेरे- वोदाहर्तव्यतया नित्यत्वश्रुत्युदाहरणमसङ्गतमेवेति वाच्यम् । भावस्य
[header] [ अधि - ११. सू - १८. ] दीपिकासहितम् ५७५
अतो विरोध इति । ( २ ) अत आह— सू—ॐ ॥ ज्ञोऽत एव ॥ ॐ ॥ १८ ॥ जीवोऽप्यत एव परमेश्वरादुत्पद्यते, शब्दादेव । ‘ ते वा एते चिदात्मानो विनष्टाः परं ज्योतिर्निविशन्त्यवि नष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन ’ इति का षायणश्रुतिः ॥ १८ ॥ सतः नित्यत्वोक्त्यनुपपत्तित एव प्रागभावाप्रतियोगित्वरूपानादित्व स्याप्युक्तप्रायत्वात् । इतीति । इति श्रुत्यन्तरेणेत्यर्थः । ‘ आत्मानो ’ जीवाः ‘ व्युच्चरन्ति ’ मातृदेहात् निस्सरन्ति जायन्त इत्यर्थः । ततः किमित्यत आह—अत इति । यत एवं श्रुतिद्वयेन विरुद्धार्थद्वयमुक्तं, अतः श्रुत्योर्विरोध इत्यर्थः ॥ ( २ ) अनुत्पत्तिज्ञापकनित्यत्वश्रुत्युपन्यासेनैव जीवोऽनुत्पत्तिमान् प्रागभावाप्रतियोगित्वरूपानादित्वात् ईश्वरवदिति सयुक्तिकपूर्वप क्षो लब्धो भवतीत्याशयवान् सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अ त इति ॥ जीव इत्यनेन जानातीति व्युत्पत्त्या ज्ञो जीव इति ज्ञशब्दो व्याख्यातः । पूर्वसूत्रादनुवृत्तस्य चशब्दस्यार्थोऽपीति । न केवलं विय दादिः किन्तु जीवोऽपीति तस्यार्थः । यद्वा—नित्यत्वेनोक्तोऽपीत्यर्थः । अत इत्यनुवादेन परमेश्वरादिति व्याख्यानम् । परमेश्वरादेवेत्येवका रान्वयः । सर्वसूत्रेषु तस्यैव प्रकृतत्वादिति भावः । उत्पद्यत इति सू त्रे शेषोक्तिः । एवकारस्यात्राप्यन्वयः । उत्पद्यत इत्यावर्तते । अनेन जीवोऽपि उत्पद्यत एव, उत्पद्यमानश्चेश्वरादेव उत्पद्यत इति प्रतिज्ञाद्व यं सूचितं भवति । उभयत्र हेतुमाह—शब्दादेवेति । अनेनातश्शब्द स्यावृत्तिस्सूचिता । न तत्र प्रमाणान्तरं गवेषणीयमिति एवशब्दार्थः । तमेव शब्दमुदाहरति—त इति । वैशब्दोऽवधारणे । ‘ ते ’ प्रसिद्धाः ‘ एते ’ जीवाः यतः ‘ चिदात्मानो ’ ज्ञानस्वरूपाः अतस्स्वरूपतोऽविन ष्टास्सन्तो ‘ज्योतिः’ प्रकाशरूपं ‘परं ’ ब्रह्म निविशन्ति प्रलये मुक्तौ च। तर्हि अनादिनित्यत्वश्रुतिविरोध इत्यत आह—अविनष्टा इति । स्वरूप तः अनादिनित्या एवेत्यर्थः । कादाचित्कनाशोऽपि नेत्याह—नेति । स्व रूपत इति शेषः। ‘कदाचन’ महाप्रलयेऽन्यदा वेत्यर्थः। इति श्रुतिरित्या नन्तरं अस्ति हीति शेषः ॥
१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २। पा - ३। ] ( ३ ) सू—ॐ ॥ युक्तेश्च ॥ ॐ ॥ १९ ॥ नित्यस्यापि हि जीवस्योपाध्यपेक्षयोत्पत्तिर्युज्यते । ( ४ ) उत्पद्यन्ते चिदात्मानो नित्या नित्यात्परात्मनः । उपाध्यपेक्षया तेषां उत्पत्तिरपि गीयते ॥ इति च व्योमसंहितायाम् ॥ १९ ॥ —::— ( ३ ) नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि कथं युज्यते व- न्ध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिव- चनस्य व्याहतत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-युक्तेश्चे- ति ॥ 'नित्यस्यापि' अनादिनित्यस्यापि । अपिः यद्यपितथापीत्यर्थे । अनेन सूत्रे ज्ञस्येति विपरिणतमनुषज्यते । चोऽप्यर्थः । स च विशेष- णसमुच्चयार्थोऽपीत्युक्तं भवति । 'उपाध्यपेक्षया' बाह्यशरीराख्योपा- ध्युत्पत्त्यपेक्षया तद्विषयकतया उत्पत्तिवचनं युज्यत इत्यर्थः । शरीरा- देरुपाधित्वं न प्रतिफलनाधिकरणत्वम्, किन्तु उत्पत्त्यादिरूपविकार- विशेषापादकत्वम्, अत एवाह—उत्पत्तिरिति । युज्यत इति । अनेन नायं युक्तिशब्दो लिङ्गार्थः, किन्तु योगार्थको विवक्षार्थकश्चेति सूचित- म् । सावधारणं चैतत् । तेन सौत्रचशब्दो व्याख्यातः । अवधारणेन नै- वमुपचारमात्रम्, किन्तु मुख्यमेव । पराधीनविशेषावाप्तिरूपोत्पत्तेरेवा- त्र विवक्षितत्वादिति सूचितम् । अनेन—अनादिनित्यस्यापि ज्ञस्य पराधीनविशेषावाप्तिरूपोत्पत्तेः योगान्न तदुक्ति व्याघात इति सूत्रार्थ उक्तो भवति ॥ ( ४ ) अत्र स्मृतिसम्मतिमाह—उत्पद्यन्त इति ॥ चिदात्मत्वमना- दिनित्यत्वे हेतुः । तथा च यद्यपि यतश्चिदात्मानो जीवा अतोऽनादिनि- त्याः, तथाऽपि देहतोऽपि नित्यात्परात्मन उत्पद्यन्ते । व्याहतिमाश- ङ्कयाह—उपाधीति । बाह्योपाध्युत्पत्त्यपेक्षयेत्यर्थः । 'तेषां' जीवानां, न केवलमनादिनित्यत्वमित्यपिशब्दार्थः । व्योमसंहितायामित्यनन्तरं नित्यस्यापीत्यादिशब्देनोक्तं युक्तमिति वाक्यशेषः ॥ १९ ॥ ॥ इति ज्ञाधिकरणम् ॥ —::—
[ अधि - १२. सू - २०. ] दीपिका सहितम्. ५७७ १२. अधिकरणम् ॥ ( १ ) 'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्व- रूपा अनन्ताः' इति काषायणश्रुतौ व्याप्तत्वं प्रती- यते । 'अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं च पापं च' इति गौपवनश्रुतावणुत्वमाम्नायतो विरोध इति ॥ ( २ ) अतो ब्रवीति— १२. अधिकरणम् ॥ ( १ ) धर्मिणि जीवे उत्पत्त्यनुत्पत्तिश्रुतिविरोधपरिहारानन्तरं अ- त्राधिकरणे जीवधर्मे परिमाणेऽणुत्वश्रुतिविरोधः परिह्रियते । तत्र श्रु- तिविरोधरूपं संशयबीजं दर्शयति—व्याप्ता हीति ॥ हिशब्दः प्रसिद्धौ। 'आत्मानः' परमात्मरूपविशेषाः 'व्याप्ताः' परममहत्परिमाणाः 'चेत- नाः' ज्ञानरूपाः 'निर्गुणाः' सत्त्वादिगुणशून्याः 'सर्वात्मानः' सर्वस्या- दानादिकर्तारः 'सर्वरूपाः' पूर्णस्वरूपाः । 'सर्वः पूर्णगुणत्वतः' इ- त्युक्तेः । 'अनन्ताः' कालतो गुणतश्चापरिच्छिन्ना इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वात्मशब्दो जीवपरः । विशेषणानि च तस्यैवेत्या- ह—व्याप्ता ह्यात्मान इति । समग्रोदाहरणं तु सिद्धान्तानुकूलतया ब्र- ह्मलिङ्गानि सूचयितुम् । व्याप्तत्वं देशतो महत्त्वमिति यावत् । प्रती- यते। जीवस्येत्यनुषज्यते। 'एषः' इति श्रुतौ हिशब्दः प्रसिद्धौ । चावन्त्यो- न्यसमुच्चये । तथा च 'एष आत्मा' जीवोऽणुः यं जीवं एते 'सिनी- तो' बध्नीतः । एते इत्येतदेव विवृणोति—पुण्यं च पापं चेति । अत्रा- प्यणुर्ह्येष आत्मेत्येतावदेवोदाहर्तव्ये वाक्यशेषोद्धारो जीवत्वज्ञापना- र्थः। अणुत्वमित्यत्रापि प्रतीयते इत्यनुषज्यते । जीवस्येति चास्ति। ततः किमित्यत आह—अत इति । विरुद्धार्थद्वयप्रतीतिरत एवेत्यर्थः। 'विरोधः' श्रुत्योः प्रतीयत इत्यनुवर्तते ॥ ( २ ) युक्तिसहितव्याप्तत्वश्रुतिबलात् व्याप्त एव जीव इति पूर्वप- क्षे सिद्धान्तयत्सूत्रमवतार्य तच्छेषमेव पूरयति—अत इति ॥ हेतूना- मित्युक्तिकान्त्यादेः लिङ्गताबोधनाय । तथाऽपि विभक्तिं विना हेतु- ताऽनवगमात्तदर्थं सकाशादिति शेषः कृतः । हेतूनामिति तु अनुवादो न दोषः । अणुरेवेति तु प्रकरणलब्धसाध्योक्तिः । जीव इति वर्तते । तेन सूत्रे ज्ञ इत्यस्यानुषङ्गस्सिध्यति। अनेन जीवः अणुरेव न व्याप्तः। ७३