पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 610, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - १३. ] दीपिकासहितम्. ५६३ ( ४ ) स्रष्टा पाता च संहर्ता स एको हरिरीश्वरः । स्रष्टृत्वादिकमन्येषां दारुयोषायदुच्यते ॥ एकदेशक्रिया चात्र न तु सर्वात्मनेरितम् । सृष्ट्यादिकं समस्तं तु विष्णोरेव पराद्भवेत् ॥ इति च स्कान्दे ॥ ज्ञानस्याज्ञाननिवर्तकत्वोक्तेरज्ञाननिवर्तने स्वरूपज्ञानस्यापि वृत्तिज्ञान- सहायत्वोक्तेश्चेति वाच्यम् । पूर्वं स्वरूपज्ञानस्यावृतत्वेनाकिञ्चित्कर- त्वेऽपि परोक्षवृत्तिज्ञानेनावरकाज्ञानस्य शिथिलीभावानन्तरमपरोक्षवृ- त्तिज्ञानोपोद्वलकत्वसम्भवात्केवलस्यापरोक्षवृत्तिज्ञानस्यात्यन्तिकाज्ञा- ननिवर्तकत्वाभावेऽपि स्वरूपज्ञानोपोद्वलितस्य समूलाज्ञानघातक- त्वोपपत्तेश्च । यमप्येतीति श्रुतिरस्त्यधिकरणे व्याख्याता । य इदमित्य- न्यश्रुत्यर्थस्तु। यस्माद्यः ‘इदं सर्वं' विश्वं ‘विलापयति' नाशयति त- स्मात्स भगवान् संहर्तृत्वाद्विरित्युच्यते । न च पितृत्वात्नाशकत्वा- योगः । यतः स ‘परो' ममत्वादिदोषराहित्याल्लोकपितृविलक्षणः । त- त्कथं ? यतः स परमात्मा सर्वोत्कृष्टचेतनोऽत इति ॥ (४) विष्णोरेव संहर्तृत्वे 'रुद्रो माऽऽविशन्तकः' (महा. ३५.) इत्युक्त- श्रुतिविरोध इत्यत आह-स्रष्टेति ॥ यतो हरिः परमेश्वरो ईशोऽयं ब्रह्मा- दिभ्योऽवर उत्तमोऽत एक एव स्रष्टा ‘पाता' रक्षिता संहर्ता च भवति। ततोऽन्येषां ब्रह्मादीनां स्रष्टृत्वादिकं ‘दारुयोषवत्' दारुमयीस्त्रीप्रतिमा- वत् परतन्त्रमुच्यते पुराणादावित्यर्थः । तदपि न सामस्त्येनेत्याह—ए- कदेश इति । सृष्ट्यादिकमिति पूर्वत्रापि सम्बध्यते । चोऽवधारणेऽप्य- र्थे च । तथा चात्र परतन्त्रेऽन्यनिष्ठस्रष्टृत्वाद्येकदेशस्य क्रियैव ज- गदेकदेशविषयैव सृष्ट्यादिक्रिया निविष्टा, न तु ‘सर्वात्मना' सर्वथा सर्वजगत्सम्बन्धिसृष्ट्यादिकमीरितं निविष्टमुक्तमित्यर्थः । यद्वा—पर- तन्त्रेऽपि ब्रह्मादिजीवे ‘एकदेशक्रिया' जगदेकदेशस्यैव क्रिया सृष्ट्या- दिरूपा तत्कर्तृत्वमिति यावत् । ‘न तु सर्वात्मना' सर्वथा सर्वजगत्स- म्बन्धिसृष्ट्यादिकं तत्कर्तृत्वमीरितं प्रमाणेषु । तर्हि समस्तं सृष्ट्यादि- कं कस्माद्भवेदित्यत आह—सृष्ट्यादिकमिति । तुशब्दो विशेषार्थः । परादिति हेतुगर्भम् । तथा च ‘समस्तं' सर्वजगत्सम्बन्धिसृष्ट्यादिकं ‘परात्' स्वतन्त्राद्विष्णोरेव भवेत्, न त्वन्यस्मादित्यर्थः । तथा चा- न्तकत्वश्रुतिः पराधीनसंहारकर्तृत्वपरा परतन्त्रजगदेकदेशसंहृतिकर्तृ