भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 611, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 611

५६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ५ ) निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ॥ इति च भागवते । ( ६ ) ‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्प- त्तिलय एक एव हरिः परः परानन्दः ’ इति च म- त्वविषयतया भाक्ता चेति न तद्विरोध इति भावः । स्कान्द इत्यनन्तर- मुक्तमिति शेषः ॥ (५) रुद्रस्य संहारे पारतन्त्र्यं च विष्णुकर्तृके तस्मिन् द्वारत्व- मेवेति भावेनाह—निमित्तमिति ॥ दशमस्कन्धे उद्धववाक्यमेतत् । तवेति कृष्ण उच्यते । तस्य कालाख्यारूपिण इति हेतुगर्भं विशेषण- म् । आख्या च रूपं च आख्यारूपे काल इत्याख्यारूपे यस्यासौ का- लाख्यारूपी तस्येति विग्रहः । यस्येति बहुव्रीहिज्ञापकटीका तु इनेरर्थ- कथनपरा । रूपस्याकृतेः कालत्वं सर्वसंहर्तृत्वादिगुणसम्पन्नत्वं, का- लशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाचीति गीताभाष्यो- क्तः । धर्मविशिष्टभगवद्वाचीति तदर्थः । यद्वा—‘विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहः’ इति गीताभाष्योदाहृतस्मृतेः प्रमेयदीपे कालनामा विग्रहो यस्यासौ तथोक्त इति व्याख्यानादत्रापि सप्तम्य- न्तरूपपदघटितबहुव्रीहिसमासविग्रहप्रदर्शकतया टीका व्याख्येया । न चैवं कालाख्यारूपिण इति न स्यादिति वाच्यम् । आरूपिणो व्या- प्ररूपिण इति आङ् प्रश्लेषात् । अस्य काल इत्याख्यया युक्तं रूपम- स्यास्तीति मध्यमपदलोपित्वाद्वा । तत्त्वप्रदीपे तु—कालाख्यैव काल इति नामैव रूपं ज्ञापकं वाचकत्वेन तद्वानिति व्याख्यातम् । तथा च कालाख्यारूपिण ईशस्य तव ‘विश्वसर्गनिरोधयोः’ जगत्सृष्टिसंहार- योः हिरण्यगर्भः शर्वश्च ‘निमित्तमात्रं’ द्वारमात्रं न तु स्वतन्त्रकारणं मित्यर्थः । इति चेति चशब्दो न केवलं स्कान्दे, किन्तु भागवते चेति समुच्चयार्थः । अत्रापि पूर्ववदेव शेषः ॥ (६) भागवतस्मृतेर्मूलभूतां श्रुतिं चाह—स इति ॥ स विष्णुः ब्र- ह्मणा द्वारभूतेनेति शेषः । एवं रुद्रेणेत्यत्रापि । ‘विसृजति’ विविधं सृजति । ‘विलापयति’ विनाशयति । सृष्ट्यादौ विष्णोरेव मुख्यकार- णत्वे हेतुमाह—सोऽनुत्पत्तिलयो यत इति । उत्पत्तिनाशशून्य इत्य- र्थः । स एक एव हरिरित्यन्वयः । ‘परः’ उत्तमो विलक्षणो वा । अने-