भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

५६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ( ५ ) निमित्तमात्रमीशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भश्शर्वश्च कालाख्यारूपिणस्तव ॥ इति च भागवते । ( ६ ) ‘स ब्रह्मणा विसृजति स रुद्रेण विलापयति सोऽनुत्प- त्तिलय एक एव हरिः परः परानन्दः ’ इति च म- त्वविषयतया भाक्ता चेति न तद्विरोध इति भावः । स्कान्द इत्यनन्तर- मुक्तमिति शेषः ॥ (५) रुद्रस्य संहारे पारतन्त्र्यं च विष्णुकर्तृके तस्मिन् द्वारत्व- मेवेति भावेनाह—निमित्तमिति ॥ दशमस्कन्धे उद्धववाक्यमेतत् । तवेति कृष्ण उच्यते । तस्य कालाख्यारूपिण इति हेतुगर्भं विशेषण- म् । आख्या च रूपं च आख्यारूपे काल इत्याख्यारूपे यस्यासौ का- लाख्यारूपी तस्येति विग्रहः । यस्येति बहुव्रीहिज्ञापकटीका तु इनेरर्थ- कथनपरा । रूपस्याकृतेः कालत्वं सर्वसंहर्तृत्वादिगुणसम्पन्नत्वं, का- लशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाचीति गीताभाष्यो- क्तः । धर्मविशिष्टभगवद्वाचीति तदर्थः । यद्वा—‘विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहः’ इति गीताभाष्योदाहृतस्मृतेः प्रमेयदीपे कालनामा विग्रहो यस्यासौ तथोक्त इति व्याख्यानादत्रापि सप्तम्य- न्तरूपपदघटितबहुव्रीहिसमासविग्रहप्रदर्शकतया टीका व्याख्येया । न चैवं कालाख्यारूपिण इति न स्यादिति वाच्यम् । आरूपिणो व्या- प्ररूपिण इति आङ् प्रश्लेषात् । अस्य काल इत्याख्यया युक्तं रूपम- स्यास्तीति मध्यमपदलोपित्वाद्वा । तत्त्वप्रदीपे तु—कालाख्यैव काल इति नामैव रूपं ज्ञापकं वाचकत्वेन तद्वानिति व्याख्यातम् । तथा च कालाख्यारूपिण ईशस्य तव ‘विश्वसर्गनिरोधयोः’ जगत्सृष्टिसंहार- योः हिरण्यगर्भः शर्वश्च ‘निमित्तमात्रं’ द्वारमात्रं न तु स्वतन्त्रकारणं मित्यर्थः । इति चेति चशब्दो न केवलं स्कान्दे, किन्तु भागवते चेति समुच्चयार्थः । अत्रापि पूर्ववदेव शेषः ॥ (६) भागवतस्मृतेर्मूलभूतां श्रुतिं चाह—स इति ॥ स विष्णुः ब्र- ह्मणा द्वारभूतेनेति शेषः । एवं रुद्रेणेत्यत्रापि । ‘विसृजति’ विविधं सृजति । ‘विलापयति’ विनाशयति । सृष्ट्यादौ विष्णोरेव मुख्यकार- णत्वे हेतुमाह—सोऽनुत्पत्तिलयो यत इति । उत्पत्तिनाशशून्य इत्य- र्थः । स एक एव हरिरित्यन्वयः । ‘परः’ उत्तमो विलक्षणो वा । अने-

[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६५ होपनिषदि ॥ १३ ॥ --:-- ८. अधिकरणम् ॥ ( १ ) ' अत एव हीदं परात्क्रमादुत्पद्यते क्रमाद्विलीयते न सावुदेति नास्तमेति' इति भाल्लवेयश्रुतौ क्रमाल्लयः प्रतीयते । अक्षरात्परमादेव सर्वमुत्पद्यते क्रमात् । व्युत्क्रमाद्विलयश्चैव तस्मिन्नेव परात्मनि ॥ इति चतुर्वेदशिखायां व्युत्क्रमाल्लयः प्रतीयते । ( २ ) अत आह— सू— ॐ ॥ विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ ॐ ॥ १४ ॥ न ममत्वादिदोषराहित्येन लोकपितृवैलक्षण्याल्लोके पितुरन्यस्य मार- कत्वेऽपि प्रकृते पितुरेव विष्णोर्मारकत्वोक्तौ न लोकविरोधः, तस्या- दोषत्वादिति सूचितम् । 'परानन्दः' पूर्णानन्दः निर्दुःखत्वं चोक्तम्। महोपानिषदीत्यस्य ब्रह्मरुद्रयोर्द्वारत्वमेवोक्तमित्यध्याहारेणान्वयः ॥७॥ ॥ इति तदभिध्यानाधिकरणम् ॥ -:※:- ८. अधिकरणम् ॥ ( १ ) अस्मिन्नधिकरणे अधिभूतादिसंहारक्रमविषयश्रुतिविरोधः परिह्रियते । अत्र प्रकृताधिभूतादीनि किमुत्पत्तिक्रमानुसारेण भगव- ता लीयन्ते व्युत्क्रमेण वेति सन्देहस्य बीजभूतं श्रुतिविगानं दर्शय- ति—अत एवेति ॥ पूर्वप्रकृतादेव 'परात्' उत्तमात् 'इदं' जगत् 'क्र- मात्' तत्त्वदेवतातारतम्यक्रमेणैवोत्पद्यते, क्रमेणैव लीयते इत्यर्थः । न जगद्वत्परमात्माप्युत्पत्तिनाशवानित्याह—नेति । 'असौ' परमात्मा 'नोदेति' नोत्पद्यते 'अस्तं' नाशं 'नैति' न प्राप्नोतीत्यर्थः । श्रीतत्त्व- व्यावृत्त्यर्थं परमादक्षराद्विष्णोरिति । न त्वन्यस्मादिति प्रथमैवकारस्य व्युत्क्रमादेवेति द्वितीयस्य न त्वन्यस्मिन्निति तृतीयस्य चार्थः । उत्प- त्तिक्रमेणैव लीयन्ते 'अत एव' इति श्रुतेर्लोकानुकूल्याच्च । ( २ ) इति प्राप्ते सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ क्रमवचनमपीत्यनेन सूत्रे आवृत्तः क्रमशब्दः क्रमवचनपरः । अप्यर्थे स्तुरित्युक्तं भवति । अपिः बाधकत्वेन उपन्यस्तमपीति विशेषणसमु-

५६६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] क्रमवचनमपि विपरीतक्रमापेक्षया । (३) कर्ता प्राणादिकस्यास्य हन्ता भूम्यादिकस्य च । यः क्रमाद्व्युत्क्रमाच्चैव स हरिः पर उच्यते ॥ इत्यत एव भाल्लवेयश्रुतिवचनात् ॥ (४) अनुरूपः क्रमः सृष्टौ प्रतिरूपो लये क्रमः । इति क्रमेण भगवान् सृष्टिसंहारकृद्विभुः॥ इति च पाद्मे॥ (५) पूर्वेषां पूर्वेषां सामर्थ्याधिक्यादुपपद्यते च । ष्यर्थः । आवृत्तस्य विपर्ययेणेत्यस्यार्थः विपरीतेति । प्रवृत्तं यत इति शेषः । अस्यातो लयक्रमः विपर्ययेण उत्पत्तिक्रमवैपरीत्येनेवेति सौ त्रपदोक्तसाध्येनान्वयः ॥ (३) कुतः क्रमश्रुतेरर्थान्तरकल्पनमित्यतोऽपि प्रवृत्तं अत इति प दं तुशब्दार्थावधारणान्विततयाऽनूद्य व्याचष्टे—कर्तेति ॥ कर्तेत्यतः प्राक् अतएवेत्युत्तरवचनात् कुत इत्युपस्कार्यम् । यस्यामेव श्रुतौ क्र माल्लयः श्रूयते, तस्यामेव वचनान्न त्वन्यस्यामित्येवशब्दार्थः । यः 'प्रा णादिकस्य' ब्रह्मादिकस्यास्य जगतः क्रमात्कर्ता यश्च 'भूम्यादिक स्यास्य' व्युत्क्रमाद्धन्ता स हरेरेव परो, न त्वन्य इत्यर्थः । अनेनोत्प त्तावुत्तमक्रमः, लये त्वधमक्रम इति सूचितम् ॥ (४) ननु श्रुतित्वाविशेषात् व्युत्क्रमश्रुत्या क्रमश्रुतेः कुतो बाधः, विपरीतमेवं किं न स्यादित्यतोऽतःशब्दसूचितां स्मृतिमाह—अनुरूप इति ॥ योजना तु—क्रमो द्विविधः अनुरूपः प्रतिरूपश्चेति । तत्र सृष्टौ यः क्रमः सोऽनुरूपः । उत्तमादितारतम्यानुसारित्वात् । यो लये क्रमः स प्रतिरूपः उत्तमादितारतम्यप्रतिकूलत्वात् । एवमुभयविधक्रमेण 'विभुः' समर्थो भगवान् सृष्टिसंहारकर्तेति । पाद्म इत्यनन्तरं वचना दित्यनुषज्यते । अस्य सावकाशक्रमश्रुतेर्निरवकाशव्युत्क्रमपदघटित श्रुत्या बाधो युक्त इत्याहृतसाध्यवाक्येनान्वयः ॥ (५) व्युत्क्रमालयाङ्गीकारे लोकविरोधापातान्नासौ युक्तो, लोके प्रायेण पूर्वोत्पन्नानां पित्रादीनां प्रथमं लयदर्शनादित्यतः प्रवृत्तमतः शब्दावृत्त्या उपपद्यते चेत्यंशं व्याचष्टे—पूर्वेषामिति ॥ पूर्वोत्पन्नानामि त्यर्थः । उपपद्यत इत्यतः प्राक् लये क्रमो विपर्ययेणेति सूत्रांश आवृ त्या संयोज्यः। उपपद्यत इत्यस्य सामर्थ्याधिक्ययुक्त्या सिद्ध्यतीत्यर्थः। यद्वा-उपपद्यत इत्यस्य युज्यत इत्यर्थः। सामर्थ्याधिक्यं त्वतश्शब्दार्थः।

[ अधि - ८. सू - १४. ] दीपिकासहितम्. ५६७ ( ६ ) वामने च— पूर्वे पूर्वे यतो विष्णोः सन्निधानं क्रमाधिकम् । सामर्थ्याधिक्यमेतेषां पश्चादेव लयस्तथा ॥ न केवलं श्रूयते, किन्तु युज्यते चेति समुच्चये चशब्दः । तथा च लौकि- कानां प्रायशशतवर्षजीवित्वादिरूपस्य बलज्ञानादिरूपस्य वा सामर्थ्य- स्य साम्यात् क्रमाल्लयेऽपि नासावलौकिकतत्त्वदेवतालये भवति, यतः पूर्वोत्पन्नानां सामर्थ्याधिक्यादुत्तरेषां तदभावात्, एवं च लौकिकविरोध- स्यैष गुणवादिति भावः । पूर्वोत्पन्नेषु सर्वत्र उत्तरोत्पन्नापेक्षया साम- र्थ्याधिक्यमस्तीति ज्ञापनाय द्विर्वचनम्। अनेन—यतः ‘क्रमस्तु’ क्रमवच- नमपि ‘विपर्ययेण’ विपरीतक्रमापेक्षया प्रवृत्तमतो लये क्रमः ‘विपर्यये- ण तु’ उत्पत्तिक्रमवैपरीत्येनैव। कुतोऽर्थान्तरकल्पनं क्रमश्रुतेः? अत एव व्यु- त्क्रमाल्लयश्चेति श्रुतेरेव । तथाऽपि क्रमश्रुतेः कुतो बाधः श्रुतित्वाविशे- षात् विपरीतं किं न स्यात् । अत एव सावकाशत्वादेव । न च लोक- विरोधः । यत उपपद्यते चायं व्युत्क्रमो युज्यते च । कथम्? अतः सामर्थ्याधिक्यात् । न केवलं श्रुत्योच्यते व्युत्क्रमः किन्तु उपपद्यते चेति सूत्रार्थ उक्तो भवति ॥ ( ६ ) ननु पूर्वोत्पन्नानां सामर्थ्याधिक्यमेव कुतः ? येन पश्चाल्लयः स्यादित्यत आह—वामने चेति ॥ सामस्त्यं वीप्सार्थः । तथा च यतः ‘पूर्वे पूर्वे’ आदिसृष्टौ पूर्वोत्पन्नेषु चतुर्मुखादितत्त्वदेवेषु विष्णोः ‘स- न्निधानं' सन्निधिः ‘क्रमाधिकं' तारतम्यक्रमेणाधिकं अत एव तेषां पूर्वोत्पन्नानां पश्चादुत्पन्नापेक्षया ‘सामर्थ्याधिक्यम्' बलज्ञानशक्त्याधि- क्यमेवास्ति । न केवलमेतावत्, किन्तु तेषां ‘व्याप्तिः' अण्डाद्बहिः स्वस्वाभिमन्यमानपर्यन्तं देहतो व्याप्तिरपि तारतम्यक्रमेणाधिकैव, न न्यूना समा च । यत एवं अतस्तेषां पश्चादेव लयो न कदाचित्पूर्व, नात्र संशय इत्यर्थः । तथाशब्द उपमायां समुच्चये वा। तेन पश्चादुत्प- न्नेषु उक्तवैपरीत्यं च सिध्यति । ‘पूर्वादिभ्यो नवभ्यो वा' इति सर्वना- मसंज्ञायां विकल्पानुशासनात् तदभावपक्षे पूर्व इत्येतत्सप्तम्यन्तं, तद्भा- वपक्षे तु प्रथमाबहुवचनमिदम् । न च तथात्वे सन्निधानमित्यस्यान- न्वयः । सन्निधीयते विष्णुरत्रेतिव्युत्पत्त्याऽस्य प्रतिमापरत्वात् । तथा- त्वे ‘पूर्वे पूर्वे’ पूर्वपूर्वमुत्पन्नास्तत्त्वदेवाः यतो विष्णोः ‘क्रमाधिकं स- न्निधानं' क्रमेणाधिकप्रतिमारूपा इति योजना । इति वामन इत्यन्व-

५६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] व्याप्तिश्चाभ्यधिका तेषामत एव न संशयः ॥ इति च ॥ १४॥ ----------------- ⁂ ----------------- ९. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादि- ति चेन्नाविशेषात् ॥ ॐ ॥ १५ ॥ 'प्राणान्मनो मनसश्च विज्ञानम्' 'यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि' (कठ. ३ - १३.) इति लिङ्गाद्विज्ञानमनसी अन्तरा विपरीतक्रम इति चेत्— थः । वचनादित्यत्राप्यनुषज्यते । न सामर्थ्यात्क्रियासिद्धिरित्यध्याहृ- तेनान्वयः ॥ ८ ॥ इति विपर्ययाधिकरणम् ॥ —: ۞ :— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तव्युत्क्रमेण लये विज्ञानादौ काँचिदप- वादशङ्का निराक्रियते । पूर्वपक्षस्य सूत्र एवोक्तत्वात् तत्पाठित्वा पूर्व- पक्षांशं तावद्व्याचष्टे—अन्तरेति ॥ तल्लिङ्गादित्येतच्छ्रुत्युक्तक्रमादुप- त्तिक्रमाल्लयाख्यलिङ्गादित्यर्थः । यद्वा— इत्येतद्रूपालिङ्गदर्शनादित्यर्थः । मनसः पूर्वोत्पन्नत्वं 'प्राणान्मनः' इति श्रुत्युदाहरणेन तस्य पूर्वमेव लये 'यच्छेत्' इति श्रुत्युदाहरणेन चोभयोरसिद्धिः परिहृता । पूर्व- पक्षे प्राणात् 'मनो' मनस्तत्त्वं जातं ततो विज्ञानतत्त्वं जातमित्यर्थः । सिद्धान्ते तु—मुख्यप्राणान्मनोरूपेन्द्रियं, तस्माद्वृत्तिरूपं विज्ञानं उत्प- न्नमित्यर्थः । यच्छेद्दिति काठकवाक्ये पूर्वपक्षे मनश्शब्दस्तत्त्वपरः । सिद्धान्तेऽर्थस्तु—'प्राज्ञो' ज्ञानी 'वाक्' वाक्तत्त्वं तदभिमानिनी उ- मा 'मनसि' मनस्तत्त्वे तदभिमानिनि रुद्रे 'यच्छेत्' उपरेमेत्तद्वश- त्वात्तत्र लीयत इति स्मरेदिति यावत् । 'तत्' मनः 'ज्ञान आत्मनि' विज्ञानतत्त्वाभिमानिन्यां वाण्यां लीयत इति ध्यायेदिति । प्रमेयदीपे तु—'यच्छेत्' नियच्छेदिति काठकभाष्यानुरोधात् 'वाक्' वाचं म- नसि 'यच्छेत्' तन्नियतां ध्यायेत् वाग्देवतां मनोदेवताधीनतया चि- न्तयेदिति विपरिणामाश्रयेण अध्याहारं लयपरत्वं च विना व्याख्यात- म् । अत एव तत्त्वप्रदीपकारोऽपि वाचं मनसि यच्छेत इत्येवाह । मन

[अधि - ९. - सू- १६.] दीपिकासहितम्. ५६९ (२) न, विशेषप्रमाणाभावात् ॥ १५ ॥ (३) ॥ सू-ॐ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भा क्तस्तद्भावभावित्वात् ॥ ॐ ॥ १६ ॥ 'मनसश्च विज्ञानम्' इति व्यपदेशश्चराचरेष्वालोच सीति दीर्घश्छान्दसः। वाङ्मनसी परस्परं 'यच्छेत्' एकैकञ्चैकैके यच्छेत् इति व्याख्यानं त्वाहृतग्रन्थविरुद्धम् । हेत्वंशं व्याख्याय पूर्व पक्षप्रतिज्ञांशं व्याचष्टे—विज्ञानमनसी इति । तत्त्वे इति शेषः । द्विती याद्विवचनमेतत्। 'अन्तरा' विना। विपरीतक्रम इत्यनेन क्रमेणेत्येतदुक्ता र्थं, अन्येषां लय इत्यादौ ग्राह्यम् । तेन सूत्रे लय इति शेषो दर्शितः ॥ (२) सिद्धान्तांशे व्याचष्टे—नेति ॥ विज्ञानमनस्तत्त्वे विना विप रीतक्रमेण लय इत्युक्तं नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं अविशेषादित्येत द्विशेषधर्मरहितत्वादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे—विशेषेति । सङ्कोचकप्रमाणाभावादित्यर्थः । यद्वा-विज्ञानमनस्तत्त्वयोर्यथोत्पत्ति लय इति विशेषप्रमाणाभावादित्यर्थः । ननु सर्वेषामपि विपरीतक्रमेणै व लय इत्यत्रापि प्रमाणं नास्ति । तथा च साम्यमेवेत्यतोऽप्याह—वि शेषेति । अभावादिति विच्छेदः । तथा च सर्वे वा एतत्क्रमादुत्पद्यते क्रमाद्विलीयते इति विशेषप्रमाणाभावादित्यर्थः । अनेन नाविशेषादि त्येकपदं सूचितम् । अथ वा—अभावादित्येव छेदः । तथात्वे सर्वं वे त्यविशेषप्रमाणाभावादित्यर्थः ॥ (३) नन्वस्त्येवोक्तं लिङ्गदर्शनं केषां चित्क्रमाल्लयः, केषां चिद्युत्क्रम मादित्यत्र विशेषप्रमाणरूपमतः कथं विशेषप्रमाणाभाव इत्याशङ्कां परि हरत्सूत्रमुपन्यस्य व्याचष्टे—चराचरेति ॥ मनसश्च विज्ञानमिति व्यप देश इत्यनेन तद्व्यपदेश इत्येतत् स चासौ व्यपदेशश्च तद्व्यपदेशो मनो विज्ञानमिति शब्द इति व्याख्यातम् । 'चराचरेषु' जङ्गमस्थाव रेषु । विषयसप्तमीयम् । इदं चराचरेषु व्यपदेशश्चञ्चलान्तःकरणाव बोधरूपचरतत्त्वरूपांचरविषयको व्यपदेश इति चराचरेष्वालोचना दिति चोभयान्वयि । पूर्वत्रान्वयेन चराचरव्यपाश्रयो व्यपदेश इत्येत द्व्याख्यातम् । चराचरेष्वालोचनाद्विज्ञानं भवतीत्यनेन च तद्भावभा वित्वादित्यंशः तस्मिन् चराचरविषये तस्य मनसो भावेनालोचनेन त स्यावबोधस्य वृत्तिज्ञानस्य भावित्वात् उत्पद्यमानत्वादिति व्याख्या तः। यद्वा—चराचरेष्वालोचनादित्यनेन चन्द्रिकारीत्या चराचरव्य ७२

` Wait! "भागापेक्षया स्यात्" इति वदता सूत्रस्थः "तु" शब्दः, अथवा "भाक्त" शब्दः? Wait, does the sutra have "भाक्तः"? Wait, let's look at BS 2.3 in Madhva: Wait! BS 2.3.17: Let's list the sutras in Madhva 2.3: 1. न वियदश्रुतेः 2. अस्ति तु 3. गौण्यसम्भवात् 4. शब्दाच्च 5. स्याच्चैकस्य ब्रह्मशब्दवत् 6. प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः 7. यावद्विकारं तु प्रभागो लोकवत् 8. एतेन मातरिश्वा व्याख्यातः 9. असम्भवस्तु सतोऽनुपपत्तेः 10. तेजोऽतस्तथा ह्याह 11. आपः 12. पृथिव्यधिकाररूपशब्दान्तरेभ्यः 13. तदभिध्यानादेव तु तल्लिङ्गात्सः 14. विपर्ययेण तु क्रमोऽत उपपद्यते च 15. अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् 16. चरा

[ अधि - १०. सू - १७. ] दीपिकासहितम्. ५७१ विज्ञानतत्त्वात्तु मनो मनस्तत्त्वाच्च खादिकम् । एवं बाह्या परा सृष्टिरन्तस्तद्व्यक्त्यपेक्षया ॥ विपरीतक्रमो ज्ञेयो यस्मादन्ते हरेर्दृशिः ॥ इति ॥ १६ ॥ १०. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः ॥ ॐ ॥ १७ ॥ का च । अथ यत्र क्वचित्त्तत्त्वानामेव अवरस्य पूर्वत्वमित्येवंरूपो विप- रीतक्रमः श्रूयते, तत्र कथमित्यतस्तस्या विषयमाह—अन्तरिति । 'वि- परीतक्रमः' परादित्युक्तापेक्षया विपरीतक्रमोत्पत्तिश्रुतिः 'प्राणान्मनोम- नसश्च विज्ञानम्'इत्येवमादिरूपा अन्तः ब्रह्माण्डस्य देहस्य चान्तस्तत्त्वा- भिव्यक्तौ ज्ञानिनां तदापरोक्ष्ये च क्रमापेक्षया च प्रवृत्तेत्यर्थः । यथो- क्तं तत्त्वप्रदीपे—यस्मादवरेषा

५७२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] ' स इदं सर्वं विलाप्यान्तस्तमसि निलीनस्तद्विलाप्य व्युत्तिष्ठते स इदं सर्वं विसृजति विलापयति विस्था पयति प्रस्थापयत्याच्छादयति प्रकाशयति विमोचय त्येक एव' ( ) इति श्रुतेः परमात्माऽपि न लीयते अश्रुतत्वाद्ब्रह्मलयस्य । ( २ ) निलीनशब्देनापिहितत्वमुच्यते । तुच्छ्येनाभ्वपि हितं यदासीत् , ( ऋ.१०-१२९-३. ) इति श्रुतेः । ते। तत्र सूत्रमुपन्यस्य पूर्वपक्षं सूचयन् व्याचष्टे—नेति ॥ श्रुतेरित्यनेन सूत्रे श्रुतेरित्यपिपदच्छेदः सूचितः। परमात्माऽपि लीयते इति नेत्यर्थः। न केवलं पृथिव्यादिरित्यपिशब्दार्थः। अनेन 'आत्मा चेत्यन्वितश्चशब्दो ऽप्यर्थतयाऽपि व्याख्यातः । तथा 'तमसि निलीनः' इति श्रुतेः चेतनत्वयुक्तेश्च परमात्माऽपि लीयत इति सयुक्तिकपूर्वपक्ष श्च सूचितः । सृष्ट्याद्यनेककर्तृत्वरूपब्रह्मलिङ्गप्रतिपादक 'स इदम्' इ त्यादिवाक्यशेषोदाहरणं तु निलीनश्रुतेरीश्वरैकविषयत्वेन निरवकाश त्वोपपादनाय । 'सः' एक एव परमात्मा 'इदं सर्वं' जगद्विलाप्य चित्प्रकृतिरूपोदकात्मकेन तमसाऽऽच्छाद्य संहृत्य स्वयं तमस्यन्तर्नि लीनः प्रकृतावाच्छन्नोऽथ तत्प्रकृतिरूपं तमो विलाप्याऽच्छाद्य स्वयं 'व्युत्तिष्ठते' प्रादुर्भवति । अथ स इदं जगत्सृजति। सृष्ट्वा च विविधं 'स्थापयति' स्थितिं प्रापयति। अथ 'विलापयति' संहारयति 'प्र स्थापयति' प्रेरयति 'आच्छादयति' अज्ञानेनावृतं करोति 'प्रकाश यति' जीवकर्तृकानुभवेन जीवं संयोजयति 'विमोचयति' स्वप्राप्ति तबन्धादित्यर्थः । सर्वत्रान्वयार्थं स इति द्विरुक्तिः । नेत्यनेन सिद्धान्त प्रतिज्ञाया उक्तत्वात् तत्राश्रुतेरिति पदच्छेदेनोक्तं हेतुं योजयति—अ श्रुतत्वादिति । 'तद्विलाप्य व्युत्तिष्ठते' इत्याद्युक्तयोदाहृतश्रुतितोऽपि ब्रह्मलयो नेति ज्ञायते । न चान्यतो ब्रह्मलयः श्रुतः । अतः कस्यामपि श्रुतौ ब्रह्मलयस्याश्रुतत्वादित्यर्थः । परमात्मनः प्रकृतत्वात्तल्लयस्येत्ये तावता पूतौ ब्रह्मेत्युक्तिः कालापरिच्छिन्नत्वरूपयुक्तिसूचनाथौ ॥ ( २ ) नन्वन्तस्तमसि निलीन इति ब्रह्मलयस्य श्रुतत्वात्कथमुच्य ते अश्रुतत्वमित्यत आह—निलीनेति ॥ अपिहितत्वमाच्छादितत्वम् । उपलक्षणमेतत् । इतरादृश्यत्वमित्यपि द्रष्टव्यम् । अतएव पैङ्गिश्रुता वदृश्यत्वमुच्यते । यथोक्तं बृहद्भाष्ये—

[ अधि - १०. - सू - १७. ] दीपिकासहितम्. ५७३

' स एतस्मिम् स्तमासि निलीनः प्रकृतिं पुरुषं कालं चानुपश्यति कश्चन ' इति पैङ्गिश्रुतिः । (४) ' नित्यो नित्यानां चेतनश्चेतनानाम् ' ( कठ. ५-१३. ) ' स नित्यो निर्गुणो विभुः परः परमात्मा ' ' नित्यो वि लौकिकव्यवहारो यो भूभारक्षपणादिकः । तद्दृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥ इति ॥ लौकिको लोकविषयकः। कुतो निलीनशब्दोऽपिहितार्थकः, येनाश्रुत त्वं सिद्ध्येत् इत्यतस्तदुत्तरत्वेनापि श्रुतेरिति छेदेनोक्तां श्रुतिं दर्शय ति—तुरुच्छ्येनेति । श्रुतेरिति । समाख्यारूपश्रुतेरित्यर्थः । ' स इदं स र्वे विलाप्य ' इत्यादेः ' व्युत्तिष्ठते ' इत्यन्तस्य ' नासदासीत् ' इत्यादेः ' महिना जायतैकम् ' इत्यन्तस्य च समर्थनार्थत्वादिति भावः । श्रुते रित्यस्य पूर्वेणान्वयः । व्याख्यैतेयं श्रुतिः आनुमानिकनये। निलीनत्व मिहापिहितत्वमेव न त्वन्यदिति ॥ ( ३ ) अत्र न केवलं समाख्यानं, किन्तु वाक्यमपीत्याशयेन श्रुते रित्यनेनोक्तं श्रुतिवाक्यं चाह—स इति ॥ अत्र पूर्वोत्तरवाक्यार्थप र्यालोचनया वाक्यलक्षणप्रमाणेनार्थात् निलीनशब्दोऽपिहितार्थे प्र युक्त इति ज्ञायते । केचिदियमपि प्रयोगरूपश्रुतित्वात्समात्र्यैव, समा ख्यादीनामिति टीका तु वस्तुस्थितिकथनपरेत्याहुः। ' सः ' परमात्मा ' एतस्मिन् ' प्रकृतिरूपे तमसि ' निलीनः ' छन्नः स्वयं प्रकृतिजीवका लाननुपश्यति एनं तु न कोऽपि पश्यतीत्यर्थः । ' पैङ्गिश्रुतेः ' पैङ्गीनां वा क्यात् । अस्यापि निलीनशब्देनेति पूर्ववाक्येनान्वयः ॥ ( ४ ) ननु किमर्थमेवं निलीनश्रुतेरर्थान्तरं परिकल्प्यते अस्याः ल य एवार्थः किं न स्यात् । न च समाख्यादिविरोधः । तस्य श्रुतितो दुर्बलत्वात् । न च ' नित्यो नित्यानाम् ' इति श्रुत्यन्तरबलात् । तस्या प्रामाण्योपपत्तेरित्यतः प्रवृत्तं नित्यत्वाच्च ताभ्य इत्यंशं व्याचष्टे— नित्य इति ॥ नित्यो नित्यानां चेतनश्चेतनानां एको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां शान्तिः शाश्वती नेतरेषाम् ॥ इति कठश्रुतेरयमर्थः—' नित्यानां ' स्वरूपतः अविनाशिनां सकाशा

५७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] भुः कारणो लोकसाक्षी परो गुणैस्सर्वदृक् शाश्वतश्च' ( ) इत्यादिश्रुतिभ्यो नित्यत्वाच्च ॥ १७ ॥ -- ११. अधिकरणम् ॥ (१) 'नित्यो नित्यानाम्' (कठ. ५-१३.) इति जीवस्यापि नित्यत्वमुक्तम् । 'सर्व एते चिदात्मानो व्युच्चरन्ति' इत्युत्पत्तिरुच्यते। त 'नित्यो' देहतोऽपि नित्यः परमनित्य इति यावत् । नित्यानां नित्य- त्वप्रद इति वा । एवं 'चेतनानां' ज्ञातॄणामपि 'चेतनः' परमचेत- नः, तेषां चैतन्यप्रद इति वा । यश्च स्वयमेक एव 'बहूनां' पुरुषाणां 'कामान्' काम्यान् 'विदधाति' करोति तं हृदयस्थं ये धीराः अनु- पश्यन्ति तेषां 'शाश्वती' पुनरावृत्तिशून्या 'शान्तिः' मोक्षो भवेन्नेत- रेषामिति । 'स नित्यः' इत्यन्यश्रुतिवाक्यम् । स परमात्मा देहतोऽपि नित्यः, यतो 'निर्गुणः' सत्त्वादिगुणाबद्धो विभुः परो विलक्षणोऽत इ- त्यर्थः । 'नित्यो विभुः' इत्यन्या श्रुतिः । नित्यत्वे हेतुर्विभुरित्यादिकं । 'कारणः' कारणं जगत इति शेषः । 'गुणैः' गुणेभ्यस्सत्त्वादिभ्यः 'परो' मुक्तः गुणमयदेहादिवर्जितः 'सर्वदृक्' सर्वज्ञः 'शाश्वतो' निर्विकार इत्यर्थः । आदिशब्देन नित्यत्वबोधकवाक्यान्तरं गृह्यते । ता- भ्य इत्यस्य व्याख्या श्रुतिभ्य इति । नित्यत्वादिति। देहतोऽपि नित्यत्वा- वगमादित्यर्थः । ब्रह्मण इत्यनुषज्यते । अस्यापि निर्लीनशब्देनापिहित- त्वमुच्यत इति पूर्वेणान्वयः । चशब्दो हेतुसमुच्चये । तथा च बाहुल्ये- न 'नित्यः' इत्यादिश्रुतीनां प्राबल्यान्नेतरश्रुतिविरोधेन अप्रामाण्यं शङ्क्य- मिति तच्छ्रुतिविरोधान्निर्लीनश्रुतेरर्थान्तरकल्पनं युक्तमिति भावः॥१०॥ ॥ इति आत्माधिकरणम् ॥ -:--:- ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवजन्मविषयश्रुतिविरोधः परिह्रियते । स- न्देहबीजं श्रुतिविरोधं दर्शयति—नित्य इति ॥ न केवलं परस्येत्यपि शब्दार्थः । नित्यत्वमिति । अविनाशित्वमित्यर्थः । उक्तमिति । पूर्वाधि- करणोदाहृतवाक्येनेति शेषः । न चोत्पत्तिश्रुतिप्रतियोग्यनादित्वश्रुतेरे- वोदाहर्तव्यतया नित्यत्वश्रुत्युदाहरणमसङ्गतमेवेति वाच्यम् । भावस्य

[header] [ अधि - ११. सू - १८. ] दीपिकासहितम् ५७५

अतो विरोध इति । ( २ ) अत आह— सू—ॐ ॥ ज्ञोऽत एव ॥ ॐ ॥ १८ ॥ जीवोऽप्यत एव परमेश्वरादुत्पद्यते, शब्दादेव । ‘ ते वा एते चिदात्मानो विनष्टाः परं ज्योतिर्निविशन्त्यवि नष्टा एवोत्पद्यन्ते न विनश्यन्ति कदाचन ’ इति का षायणश्रुतिः ॥ १८ ॥ सतः नित्यत्वोक्त्यनुपपत्तित एव प्रागभावाप्रतियोगित्वरूपानादित्व स्याप्युक्तप्रायत्वात् । इतीति । इति श्रुत्यन्तरेणेत्यर्थः । ‘ आत्मानो ’ जीवाः ‘ व्युच्चरन्ति ’ मातृदेहात् निस्सरन्ति जायन्त इत्यर्थः । ततः किमित्यत आह—अत इति । यत एवं श्रुतिद्वयेन विरुद्धार्थद्वयमुक्तं, अतः श्रुत्योर्विरोध इत्यर्थः ॥ ( २ ) अनुत्पत्तिज्ञापकनित्यत्वश्रुत्युपन्यासेनैव जीवोऽनुत्पत्तिमान् प्रागभावाप्रतियोगित्वरूपानादित्वात् ईश्वरवदिति सयुक्तिकपूर्वप क्षो लब्धो भवतीत्याशयवान् सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अ त इति ॥ जीव इत्यनेन जानातीति व्युत्पत्त्या ज्ञो जीव इति ज्ञशब्दो व्याख्यातः । पूर्वसूत्रादनुवृत्तस्य चशब्दस्यार्थोऽपीति । न केवलं विय दादिः किन्तु जीवोऽपीति तस्यार्थः । यद्वा—नित्यत्वेनोक्तोऽपीत्यर्थः । अत इत्यनुवादेन परमेश्वरादिति व्याख्यानम् । परमेश्वरादेवेत्येवका रान्वयः । सर्वसूत्रेषु तस्यैव प्रकृतत्वादिति भावः । उत्पद्यत इति सू त्रे शेषोक्तिः । एवकारस्यात्राप्यन्वयः । उत्पद्यत इत्यावर्तते । अनेन जीवोऽपि उत्पद्यत एव, उत्पद्यमानश्चेश्वरादेव उत्पद्यत इति प्रतिज्ञाद्व यं सूचितं भवति । उभयत्र हेतुमाह—शब्दादेवेति । अनेनातश्शब्द स्यावृत्तिस्सूचिता । न तत्र प्रमाणान्तरं गवेषणीयमिति एवशब्दार्थः । तमेव शब्दमुदाहरति—त इति । वैशब्दोऽवधारणे । ‘ ते ’ प्रसिद्धाः ‘ एते ’ जीवाः यतः ‘ चिदात्मानो ’ ज्ञानस्वरूपाः अतस्स्वरूपतोऽविन ष्टास्सन्तो ‘ज्योतिः’ प्रकाशरूपं ‘परं ’ ब्रह्म निविशन्ति प्रलये मुक्तौ च। तर्हि अनादिनित्यत्वश्रुतिविरोध इत्यत आह—अविनष्टा इति । स्वरूप तः अनादिनित्या एवेत्यर्थः । कादाचित्कनाशोऽपि नेत्याह—नेति । स्व रूपत इति शेषः। ‘कदाचन’ महाप्रलयेऽन्यदा वेत्यर्थः। इति श्रुतिरित्या नन्तरं अस्ति हीति शेषः ॥

१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २। पा - ३। ] ( ३ ) सू—ॐ ॥ युक्तेश्च ॥ ॐ ॥ १९ ॥ नित्यस्यापि हि जीवस्योपाध्यपेक्षयोत्पत्तिर्युज्यते । ( ४ ) उत्पद्यन्ते चिदात्मानो नित्या नित्यात्परात्मनः । उपाध्यपेक्षया तेषां उत्पत्तिरपि गीयते ॥ इति च व्योमसंहितायाम् ॥ १९ ॥ —::— ( ३ ) नन्वनादिनित्यस्य जीवस्योत्पत्तिः श्रुताऽपि कथं युज्यते व- न्ध्यात्वमभ्युपगम्य मातृत्ववचनवत् नित्यत्वमभ्युपगम्य पुनरुत्पत्तिव- चनस्य व्याहतत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे-युक्तेश्चे- ति ॥ 'नित्यस्यापि' अनादिनित्यस्यापि । अपिः यद्यपितथापीत्यर्थे । अनेन सूत्रे ज्ञस्येति विपरिणतमनुषज्यते । चोऽप्यर्थः । स च विशेष- णसमुच्चयार्थोऽपीत्युक्तं भवति । 'उपाध्यपेक्षया' बाह्यशरीराख्योपा- ध्युत्पत्त्यपेक्षया तद्विषयकतया उत्पत्तिवचनं युज्यत इत्यर्थः । शरीरा- देरुपाधित्वं न प्रतिफलनाधिकरणत्वम्, किन्तु उत्पत्त्यादिरूपविकार- विशेषापादकत्वम्, अत एवाह—उत्पत्तिरिति । युज्यत इति । अनेन नायं युक्तिशब्दो लिङ्गार्थः, किन्तु योगार्थको विवक्षार्थकश्चेति सूचित- म् । सावधारणं चैतत् । तेन सौत्रचशब्दो व्याख्यातः । अवधारणेन नै- वमुपचारमात्रम्, किन्तु मुख्यमेव । पराधीनविशेषावाप्तिरूपोत्पत्तेरेवा- त्र विवक्षितत्वादिति सूचितम् । अनेन—अनादिनित्यस्यापि ज्ञस्य पराधीनविशेषावाप्तिरूपोत्पत्तेः योगान्न तदुक्ति व्याघात इति सूत्रार्थ उक्तो भवति ॥ ( ४ ) अत्र स्मृतिसम्मतिमाह—उत्पद्यन्त इति ॥ चिदात्मत्वमना- दिनित्यत्वे हेतुः । तथा च यद्यपि यतश्चिदात्मानो जीवा अतोऽनादिनि- त्याः, तथाऽपि देहतोऽपि नित्यात्परात्मन उत्पद्यन्ते । व्याहतिमाश- ङ्कयाह—उपाधीति । बाह्योपाध्युत्पत्त्यपेक्षयेत्यर्थः । 'तेषां' जीवानां, न केवलमनादिनित्यत्वमित्यपिशब्दार्थः । व्योमसंहितायामित्यनन्तरं नित्यस्यापीत्यादिशब्देनोक्तं युक्तमिति वाक्यशेषः ॥ १९ ॥ ॥ इति ज्ञाधिकरणम् ॥ —::—

[ अधि - १२. सू - २०. ] दीपिका सहितम्. ५७७ १२. अधिकरणम् ॥ ( १ ) 'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च सर्वात्मानः सर्व- रूपा अनन्ताः' इति काषायणश्रुतौ व्याप्तत्वं प्रती- यते । 'अणुर्ह्येष आत्मा यं वा एते सिनीतः । पुण्यं च पापं च' इति गौपवनश्रुतावणुत्वमाम्नायतो विरोध इति ॥ ( २ ) अतो ब्रवीति— १२. अधिकरणम् ॥ ( १ ) धर्मिणि जीवे उत्पत्त्यनुत्पत्तिश्रुतिविरोधपरिहारानन्तरं अ- त्राधिकरणे जीवधर्मे परिमाणेऽणुत्वश्रुतिविरोधः परिह्रियते । तत्र श्रु- तिविरोधरूपं संशयबीजं दर्शयति—व्याप्ता हीति ॥ हिशब्दः प्रसिद्धौ। 'आत्मानः' परमात्मरूपविशेषाः 'व्याप्ताः' परममहत्परिमाणाः 'चेत- नाः' ज्ञानरूपाः 'निर्गुणाः' सत्त्वादिगुणशून्याः 'सर्वात्मानः' सर्वस्या- दानादिकर्तारः 'सर्वरूपाः' पूर्णस्वरूपाः । 'सर्वः पूर्णगुणत्वतः' इ- त्युक्तेः । 'अनन्ताः' कालतो गुणतश्चापरिच्छिन्ना इति सिद्धान्तरीत्या श्रुत्यर्थः । पूर्वपक्षे त्वात्मशब्दो जीवपरः । विशेषणानि च तस्यैवेत्या- ह—व्याप्ता ह्यात्मान इति । समग्रोदाहरणं तु सिद्धान्तानुकूलतया ब्र- ह्मलिङ्गानि सूचयितुम् । व्याप्तत्वं देशतो महत्त्वमिति यावत् । प्रती- यते। जीवस्येत्यनुषज्यते। 'एषः' इति श्रुतौ हिशब्दः प्रसिद्धौ । चावन्त्यो- न्यसमुच्चये । तथा च 'एष आत्मा' जीवोऽणुः यं जीवं एते 'सिनी- तो' बध्नीतः । एते इत्येतदेव विवृणोति—पुण्यं च पापं चेति । अत्रा- प्यणुर्ह्येष आत्मेत्येतावदेवोदाहर्तव्ये वाक्यशेषोद्धारो जीवत्वज्ञापना- र्थः। अणुत्वमित्यत्रापि प्रतीयते इत्यनुषज्यते । जीवस्येति चास्ति। ततः किमित्यत आह—अत इति । विरुद्धार्थद्वयप्रतीतिरत एवेत्यर्थः। 'विरोधः' श्रुत्योः प्रतीयत इत्यनुवर्तते ॥ ( २ ) युक्तिसहितव्याप्तत्वश्रुतिबलात् व्याप्त एव जीव इति पूर्वप- क्षे सिद्धान्तयत्सूत्रमवतार्य तच्छेषमेव पूरयति—अत इति ॥ हेतूना- मित्युक्तिकान्त्यादेः लिङ्गताबोधनाय । तथाऽपि विभक्तिं विना हेतु- ताऽनवगमात्तदर्थं सकाशादिति शेषः कृतः । हेतूनामिति तु अनुवादो न दोषः । अणुरेवेति तु प्रकरणलब्धसाध्योक्तिः । जीव इति वर्तते । तेन सूत्रे ज्ञ इत्यस्यानुषङ्गस्सिध्यति। अनेन जीवः अणुरेव न व्याप्तः। ७३

५७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] सू—ॐ ॥ उत्क्रान्तिगत्यागतीनाम् ॥ ॐ ॥ २० ॥ हेतूनां सकाशादणुरेव । ( ३ ) ‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मा द्दिमं लोकमागच्छति स गर्भीभवति स प्रसूयते स कर्म कुरुते’ इति पौष्यायणश्रुतेः ॥ २० ॥ ( ४ ) तत्र स्वातन्त्र्यप्रतीतेः , एकः प्रसूयते जन्तुरेक एव प्रमीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ इत्यादेश्च स्वयमेवेति । कुतः ? उत्क्रान्तिगत्यागतिमत्त्वात् , पतत्रिशरीरवदित्यनुमानप्रयोग स्सूचितः । न च मध्यमपरिमाणत्वेनान्यथासिद्धिस्यात् । तस्यानि त्यत्वप्रसङ्गेन निराकृतत्वात् इति भावेनाप्येवकारः प्रायोजि ॥ ( ३ ) विभुत्वबाधकानामणुत्वसाधकानां हेतूनामसिद्धिमाशङ्क्य तत्र तत्सद्भावे श्रुतिमाह—स इति ॥ स जीवो बाह्यशरीरबन्धादुत्क्र म्यामुं लोकं ‘अभिगच्छति’ प्राप्नोति । ‘अमुष्मादिमं लोकं’ भूलोकं प्रत्यागच्छति । अनन्तरं ‘स गर्भी भवति’ पूर्वमगर्भः, अधुना गर्भस्स म्पद्यते मातुरुदरं प्रविशतीति यावत् । अथ ‘प्रसूयते’ उत्पद्यते । अ थ पुण्यपापसाधनं कर्म करोतीति श्रुत्यर्थः । श्रुतेरित्यनन्तरं सिद्धाना मिति शेषः । अस्य हेतूनामित्यनेनान्वयः ॥ ( ४ ) एवमुत्क्रान्त्यादिहेतुभ्यो जीवस्याव्याप्तत्वे सिद्धे अणुत्वसा धकाधिकरणमध्ये अन्तर्भेदाधिकरणत्वेन किञ्चित्प्रसङ्गात् चिन्त्यते । किमिदमुत्क्रान्त्यादिकं जीवस्य परमेश्वरेण? स्वयमेवेति। तत्र पूर्वपक्ष माह—तत्रेति ॥ ‘सोऽस्मात्’ इत्युदाहृतश्रुतावित्यर्थः । तत्रेत्यावर्तते। तस्योत्क्रान्त्यादावित्यर्थः । जीवस्येत्यनुवर्तते । प्रतीतेरित्यस्य स्वयमे वेत्यनेनान्वयः । स्वयमेवेत्यनन्तरं तस्योत्क्रान्त्यादीति साध्यमध्याहार्य म् । नेश्वरेणेत्येवशब्दार्थः। नन्वस्यां श्रुतौ जीवस्योत्क्रान्त्याद्येव श्रूयते, न त्वन्याधीनताविधिः निषेधो वाऽस्ति । अतो नानया दृढनिर्णय इत्य त आह—एक इति । ‘एकः’ स्वतन्त्रो ‘जन्तुः’ जीवः ‘प्रसूयते’ उ त्पद्यते ‘प्रमीयते’ नश्यति । एवशब्दस्य द्विर्ग्रहणं सर्वत्रान्वयज्ञापक म् । दुष्कृतं चेत्यन्वितः चशब्दः समुच्चये । अनुभुङ्क्त इत्यत्रापि सम्ब ध्यते । ‘इत्यादेः’ एवमादिस्मृतिवचनाच्चेत्यर्थः । न केवलं प्रतीतेरि

[ अधि - १२. सू - २१. ] दीपिका सहितम्. ५७९ ( ५ ) अतो वक्ति— सू— ॐ ॥ स्वात्मना चोत्तरयोः ॥ ॐ ॥ २१ ॥ 'स एतेनैव स्वात्मना परेणेमं गर्भमनुप्रविशति परेण जायते परेण कर्म कुरुते परेण नीयते परेणोन्नी यते। तं वा एतमभिवदन्ति स्वात्मा' इति, 'एष ह्यानन्दमादत्ते एष ह्येनं जीवमभिजीवयत्येष उद्गम यत्येष आगमयति' (पौष्यायण) इत्युत्तरयोर्वाक्ययोः ति चार्थः । तथा च स्मृत्यनुसारेण श्रुतेरपि जीवस्योत्क्रान्त्यादेः परा धीनतानिषेधोऽर्थ इति भावः ॥ ( ५ ) एवं पूर्वपक्षे तन्निराकरणाय सूत्रमवतार्य व्याचष्टे—अत इ ति ॥ 'स एतेन' इत्याद्येकं श्रुतिवाक्यम् । 'एष ह्यानन्दम्' इत्यन्यत् । अनेनोत्तरयोरित्यनेन ज्ञापितं वाक्यद्वयमुदाहृतं भवति । 'सः' जीवः 'एतेन' स्वस्थितेन 'स्वात्मना' स्वरूपभूतमानन्दमादत्ते इति व्युत्प त्त्या स्वात्मशब्दवाच्येन परमात्मनाऽनुगृहीतः इमं मातृदेहस्थं गर्भं प्रवि शति । परेणैव तत्प्रेरित एव जायते । तेनैव लोकान्तरं 'नीयते' म्रिय ते 'उन्नीयते' मोक्षायोर्ध्वं नीयते । तमेतं विष्णुं स्वात्मेत्यभिवदन्ति विद्वांस इत्यर्थः । अनेन स्वात्मशब्दस्य विद्वद्रूढिर्दर्शिता । 'एषः' पर मात्मा आनन्दं जीवकृतशुभकर्मफलं 'आदत्ते' गृह्णाति स्वरूपानन्द मनुभवतीति वा । 'अभि जीवयति' धृतप्राणं करोति संस्थापयति । 'उद्गमयति' देहान्निर्गमयति ऊर्ध्वं परलोकं गमयतीति वा । 'आग मयति' देहं प्रावेशयति । इमां भूमिमागमयतीति वेत्यर्थः । यद्यप्येष ह्येनं जीवमित्यारभ्यैव द्वितीयवाक्यमुदाहर्तव्यम् । तस्यैव प्रकृतोपयु क्तत्वात् । तथाऽपि द्वितीयवाक्ये स्वात्मशब्दाभावात् कथमुत्तरयोरि त्यनेन द्वितीयवाक्यं गृह्यत इत्याशङ्क्य मैवं द्वितीयवाक्ये स्वात्मशब्दा भावेऽपि तद्व्याख्यानरूपैष ह्यानन्दमादत्त इति वाक्यसद्भावादिति भावेन तत्पूर्ववाक्यमप्युदाहृतम् । अत एव सूत्रे उभयोदाहरणम् । इ त्युत्तरयोरिति । पौष्यायणश्रुतौ सोऽस्मादिति वाक्यापेक्षयोत्तरयो रित्यर्थः । सकाशादिति शेषः । यद्वा—सप्तमीयं न षष्ठी । तथात्वे सू त्रे वचनादिति शेषः। भाष्ये तूच्यन्त यत इति शेषः। आद्ये तु भवन्ती ति । एवं हेतुं व्याख्याय इदानीं स्वात्मना चेति प्रतिज्ञांशं व्याचष्टे— परमात्मनैवेति ॥ स्वात्मनेत्यनुक्त्वा परमात्मनेत्युक्त्या परं पूर्णं स्वरूप

५८० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] परमात्मनैवोत्क्रान्त्यादयः ॥ २१ ॥ ( ६ ) ॐ ॥ नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥ ॐ ॥ २२ ॥ 'व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्च' इति व्याप्तिश्रुतेर्ना णुर्जीव इति चेत्— ( ७ ) न, 'स आत्मेदं सृजति स द्विधेदं बिभर्ति अन्तर्बहिश्च । स बहुधेदमनुप्रविश्यात्मानोऽभिनयति । स आत्मा प्रभूतमानन्दं आदत्त इति व्युत्पत्त्या स्वात्मशब्दो व्याख्यातः । उत्क्रा- न्त्यादय इत्यनेन सूत्रे उत्क्रान्तिगत्यागतय इति पूर्वसूत्राद्विपरिणतप- दस्यानुवृत्तिः सूचिता । अल्पाक्षरत्वायादिशब्दप्रयोगः । तथा च सो- ऽस्मादिति पूर्ववाक्यमप्येतदर्थकमेव । स्मृतिस्तु प्रसवादिदुःखानुभ- वं परमात्मदत्तस्वातन्त्र्यमाहेति न त

[ अधि - १२. सू - २२. ] दीपिकासहितम्. ५८१ स आत्मानः स ईशः स विष्णुः स परः परोवरी- यान्' इति परमात्माधिकारात्वात् । ( ८) एकशब्दैर्द्विशब्दैश्च बहुशब्दैश्च केशवः । एक एवोच्यते वेदैस्तावता नास्य भिन्नता ॥ इति भविष्यत्पुराणे । ( ९ ) 'तदयं प्राणोऽधितिष्ठति । तदुक्तमृषिणा-आ तेन या स्यापि तस्मिन्नेव सावकाशत्वात् । निर्गुणा इति गुणबन्धरहित्योक्ते- श्च । अत एव नोत्क्रान्त्यादीनां औपचारिकत्वं कल्प्यमेतच्छ्रुतेर्बाधक- त्वादिति भावः । 'सः' परमात्मा 'इदं' जगत् सृजति । सोऽन्तर्गतो बहिर्गतश्चेति द्विधा भूत्वाऽन्तर्बहिश्चेदं जगद्विभर्ति । बहुधा भूत्वा इद- मनुप्रविश्य 'आत्मनः' स्वस्य स्वत एवाभितः आभिमुख्येन 'नयति' स्व- क्रियानुकूलक्रियं करोति । यद्वा—'आत्मनः' आत्मरूपानभितो नय- ति। 'स आत्मा स आत्मानः' तादृशैकवचनबहुवचनान्तशब्दबोध्यः 'प- रोवरीयान्' सर्वोत्तम इति श्रुत्यर्थः । न चैवं विरोधः पौनरुक्त्यं वा, बहुरूपत्वात्तात्पर्यज्ञापकत्वाच्च । सृष्ट्यादिकर्तृत्वाभिधायिपूर्वांशस्य 'स ईशः' इत्याद्युत्तरांशस्य चोदाहरणमेतच्छ्रुतिस्थतच्छब्दानां वि- ष्ण्वेकविषयत्वसाधनार्थम् । तदेतत्सर्वमभिप्रेत्योक्तं तत्त्वप्रदीपे—बहु- रूपैरिदं जगत्प्रविश्य स्वत एवाभितो नयति । स आत्मा स आत्मानः इत्येकस्यैव बहुरूपत्वं पुनः पुनस्तात्पर्यादुपदिशति । विष्णुश्रुतिः सृ- ष्ट्यादिकर्तृत्वरूपतल्लिङ्गोक्त्या स इति तच्छब्दानां विष्णुविषयत्वमेवे- ति साधयति । परोवरीयस्त्वोक्त्या चात्मशब्दितस्य विष्णोरवरत्वं दूरीकरोतीति ॥ (८) ईश्वरस्य बहुवचनवाच्यत्वे भेदः स्यादित्यत आह—एकश- ब्दैरिति ॥ 'केशवः' सृष्टिसंहारयोर्ब्रह्मरुद्रनियोजको विष्णुरेक एवाभि- न्न एवानेकरूपत्वात् 'वेदैः' वेदगतैः 'एकशब्दैः' एकवचनान्तशब्दैर्द्विव- चनान्तशब्दैर्बहुवचनान्तशब्दैश्चोच्यते । तावताऽस्य विष्णोर्भिन्नता ना- शङ्क्येत्यर्थः । भविष्यत्पुराणे इत्यनन्तरमुक्तं अतो न भेदप्रसक्तिदोष इति वाक्यशेषः ॥ (९) एकस्मिन्नेकशब्दप्रयोगं सम्प्रतिपन्नस्थले दर्शयति—तदि- ति ॥ व्याख्यातमेतद्वाक्यं प्राणनये ऐतरेयश्रुतिः । तदयमिति वाक्येन

५८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] तम्’ (ऐ.आ.२-३-८.) इत्यादि च ॥ २२ ॥ परमात्मनः एकस्यैव शरीररथाधिष्ठातृत्वमुक्त्वा तत्र द्विवचनयुक्तौ म- न्त्रौ प्रमाणयति-तदित्यनेन। तत्तन्मन्त्रार्थे मन्त्रद्रष्टृऋषिणा हयग्रीवेण प्रमाणमुक्तमित्यर्थः । तन्मन्त्रद्वयं पठति-आतेनेति । इत्यादीति । इ- त्याद्युदाहरणं च निर्भेदेऽपि हरौ बहुरूपत्वापेक्षया बहुवचनं युक्तमि- त्येतमर्थं गमयतीति । तृतीयान्तपाठे इत्यादिना करणेनैतमर्थं गमयती- -त्यध्याहारेणान्वयो द्रष्टव्यः । न केवलं भविष्यत्पुराणोक्तिमात्रमिति चशब्दार्थः । आदिशब्देन समग्रो मन्त्रः ‘निमिषश्चित्’ इति मन्त्रान्त- रं च गृह्यते । तत्र— आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना । [

(१०) सू—ॐ ॥ स्वशब्दोन्मानाभ्यां च ॥ ॐ ॥ २३ ॥ एषो ह्यात्माऽप्युद्गतो मानंशकेस्तथाऽप्यसौ प्रमितिं याति वेदैः । पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित्स र्वकर्ता ॥ ति । भागवततात्पर्ये तु—'यत्रोभयोस्सशब्दस्स्यात् तत्र द्विवचनेऽप्यु भे' इत्युक्तम् । 'सशब्दः' समानशब्दः । केचित्तु—यस्य मनोवाक्कर्म भिः योगे भगवत्सम्बन्धादिति व्याचख्युः । तन्नु ऐतरेयभाष्यटीका विरुद्धम् । निमिषश्चिज्जवीयसा रथेनायातमश्विना । अन्तिषद्भूतु वामवः ॥ (ऋ.८-६२-२. ) इति द्वितीयमन्त्रस्यायमर्थः—हे अश्विनौ 'निमिषश्चित्' चक्षुर्निमेषा दपि 'जवीयसा' अत्यन्तं वेगवता देहाख्यरथेनायातम् । 'वां' युव योस्सकाशात् यत् 'अवः' अद्यनं तत् 'अन्तिषत्' समीपे विद्यमानं अस्मदन्तिके स्थितं 'भूतु' भवत्विति ॥ (१०) यदुक्तं व्याप्तिश्रुतिरीश्वरविषया तत्प्रकरणादिति, तद्यु क्तं, श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वात्, तन्मात्रेण बहुवचनश्रुतेः ई श्वरविषयत्वेन सङ्कोचरूपबाधायोगात् इत्याशङ्कां परिहरत्सूत्रमुपन्य स्य व्याचष्टे—स्वेति ॥ इति वाक्यशेष इति । इत्येवं रूपे काषायणवा क्यशेष इत्यर्थः । श्रुताभ्यामिति शेषः । आत्मशब्दोन्मानाभ्यामिति । आत्मशब्दोन्मानत्वलिङ्गाभ्यामित्यर्थः । अस्य व्याप्तत्वश्रुतेः ईश्वरविष यत्वेन सावकाशत्वादिति पूर्वाध्याहृतवाक्येनान्वयः । न केवलं 'इत राधिकारात्' इत्युक्तप्रकरणात्, किन्तु आत्मश्रुत्युन्मानत्वलिङ्गाभ्यां चेति चशब्दार्थः । तथा च श्रुतिलिङ्गसहितप्रकरणेन केवलाया बहुव चनश्रुतेः बाधो युक्त एवेति भावः । आत्मशब्दोन्मानाभ्यामित्यनेन सू त्रे स्वेतिशब्दः स्वशब्दः , स्वस्य ब्रह्मणः शब्द इति वा विग्रहः । तेन च तत्पर्यायात्मशब्दो गृह्यते । उन्मानशब्दश्च भावप्रधानः । तेन च अपरिमितत्वलिङ्गमुच्यते । 'परमतस्सेतून्मान' इतिवत् इत्यभिप्रे ति । 'एषः' इति श्रुतौ उत्तरार्धेन पूर्वार्धोदितमुपपाद्यते । तथा च— 'एषः' हरिः 'हि' यतः गुणैः पूर्णः अचिन्त्यश्च, तथा 'स सर्ववेदैक योनिः' सर्वे वेदाः एकं केवलं योनयो व्यक्तिकारणानि यस्य स तथो