पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 630, कुल 1267 में से
संदर्भ में पढ़ें(१०) सू—ॐ ॥ स्वशब्दोन्मानाभ्यां च ॥ ॐ ॥ २३ ॥ एषो ह्यात्माऽप्युद्गतो मानंशकेस्तथाऽप्यसौ प्रमितिं याति वेदैः । पूर्णोऽचिन्त्यः सर्ववेदैकयोनिः सर्वाधीशः सर्ववित्स र्वकर्ता ॥ ति । भागवततात्पर्ये तु—'यत्रोभयोस्सशब्दस्स्यात् तत्र द्विवचनेऽप्यु भे' इत्युक्तम् । 'सशब्दः' समानशब्दः । केचित्तु—यस्य मनोवाक्कर्म भिः योगे भगवत्सम्बन्धादिति व्याचख्युः । तन्नु ऐतरेयभाष्यटीका विरुद्धम् । निमिषश्चिज्जवीयसा रथेनायातमश्विना । अन्तिषद्भूतु वामवः ॥ (ऋ.८-६२-२. ) इति द्वितीयमन्त्रस्यायमर्थः—हे अश्विनौ 'निमिषश्चित्' चक्षुर्निमेषा दपि 'जवीयसा' अत्यन्तं वेगवता देहाख्यरथेनायातम् । 'वां' युव योस्सकाशात् यत् 'अवः' अद्यनं तत् 'अन्तिषत्' समीपे विद्यमानं अस्मदन्तिके स्थितं 'भूतु' भवत्विति ॥ (१०) यदुक्तं व्याप्तिश्रुतिरीश्वरविषया तत्प्रकरणादिति, तद्यु क्तं, श्रुत्यपेक्षया प्रकरणस्य दुर्बलत्वात्, तन्मात्रेण बहुवचनश्रुतेः ई श्वरविषयत्वेन सङ्कोचरूपबाधायोगात् इत्याशङ्कां परिहरत्सूत्रमुपन्य स्य व्याचष्टे—स्वेति ॥ इति वाक्यशेष इति । इत्येवं रूपे काषायणवा क्यशेष इत्यर्थः । श्रुताभ्यामिति शेषः । आत्मशब्दोन्मानाभ्यामिति । आत्मशब्दोन्मानत्वलिङ्गाभ्यामित्यर्थः । अस्य व्याप्तत्वश्रुतेः ईश्वरविष यत्वेन सावकाशत्वादिति पूर्वाध्याहृतवाक्येनान्वयः । न केवलं 'इत राधिकारात्' इत्युक्तप्रकरणात्, किन्तु आत्मश्रुत्युन्मानत्वलिङ्गाभ्यां चेति चशब्दार्थः । तथा च श्रुतिलिङ्गसहितप्रकरणेन केवलाया बहुव चनश्रुतेः बाधो युक्त एवेति भावः । आत्मशब्दोन्मानाभ्यामित्यनेन सू त्रे स्वेतिशब्दः स्वशब्दः , स्वस्य ब्रह्मणः शब्द इति वा विग्रहः । तेन च तत्पर्यायात्मशब्दो गृह्यते । उन्मानशब्दश्च भावप्रधानः । तेन च अपरिमितत्वलिङ्गमुच्यते । 'परमतस्सेतून्मान' इतिवत् इत्यभिप्रे ति । 'एषः' इति श्रुतौ उत्तरार्धेन पूर्वार्धोदितमुपपाद्यते । तथा च— 'एषः' हरिः 'हि' यतः गुणैः पूर्णः अचिन्त्यश्च, तथा 'स सर्ववेदैक योनिः' सर्वे वेदाः एकं केवलं योनयो व्यक्तिकारणानि यस्य स तथो