भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 631, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 631

५८४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] इति वाक्यशेषे आत्मशब्दोन्मानाभ्यां च । ( ११ ) आत्माऽमेयः परंब्रह्म परानन्दादिकाभिधाः । वदन्ति विष्णुमेवैकं नान्यत्रासाङ्गतिः काचित्॥ इति च कौर्मे ॥ २३ ॥ ( १२ ) सू— ॐ ॥ अविरोधश्चन्दनवत् ॥ ॐ ॥ २४ ॥ क्तः सर्वाधीशः सर्वज्ञः सर्वकर्ता च, अतो 'मानशक्तेः' पुरुषगतपरि- माणशक्तेः अध्युद्गतः परिमाणातीतः पूर्ण इत्यर्थः । अत एव तत्त्वप्रदी- पे मानशक्तेः अधिकत्वेनोद्गतः सर्वेभ्यो गुणाधिकत्वेन मानशक्तिमति- लङ्घ्य वर्तते कैश्चिदपि न मानशक्त्या मीयत इत्युक्तम् । यद्वा—'मा- नशक्तेः' वेदगतयथार्थज्ञानजननशक्तेरुद्गतः तद्विषय इत्यर्थः । यद्य- प्येवं, तथाऽपि 'असौ' परमात्मा विषयतया 'वेदैः प्रमिति याति' वे- दजन्यज्ञानविषयो भवतीत्यर्थः । अपरिमितस्यापि विभोः वेदैः एकदे- शप्रमितिः तत्प्रसादात् भवतीति भावः । यद्वा—वेदानां स्वशक्त्यवि- षयस्यापि विष्णोः तत्प्रसादात् ज्ञानकरणत्वं भवतीति भावः । अथ वा—द्रष्टुश्चक्षुः इतिवत् विष्णुः प्रमिति स्वप्रमिति याति यापयति स्वातन्त्र्यादित्यर्थः ॥ ( ११ ) आत्मश्रुतेरुन्मानत्वलिङ्गस्य च कुतो वैष्णवत्वमित्यत आ- ह—आत्मेति ॥ 'अमेयः' अपरिमितः । स्मृतेः विष्णुविषयत्वोपपादनाय परंब्रह्मेत्याद्युपन्यासः । एकपदमिदं, परानन्देत्यनन्तरं विसर्गलोपः आ- र्षो बोध्यः । इतिशब्दोऽत्राध्याहार्यः । इत्यादिका एवमाद्या अभिधा अ- भिधायकाः शब्दाः विष्णुमेवैकं मुख्यतो वदन्ति । 'आसां' अभिधा- नां 'अन्यत्र' जीवादौ काचिदपि 'गतिः' वृत्तिः मुख्यतो नास्तीत्य- र्थः । इति च कौर्मे इति । न केवलं वाक्यशेषे श्रुतमात्राभ्यां, किन्तु कौर्मे वचने विष्ण्वेकनिष्ठत्वेन निश्चिताभ्यामप्यात्मशब्दोन्मानाभ्यामि- त्यन्वयः । यद्यपि 'व्याप्ता ह्यात्मानः' इति श्रुतावात्मशब्दानन्त्ययोः श्र- वणात् पृथग्वाक्यशेषग्रहणं व्यर्थम् । तथाऽपि 'व्याप्ता ह्यात्मानः' इ- ति वाक्ये बहुवचनसमभिव्याहारात् अन्यार्थताया एव झडिति प्रति- भासाद्वाक्यशेषे च तदभावेनास्य स्मृतिगतामेयपदव्याख्येयोद्गतोमा- नशकेरितिपदयुक्तत्वेन च निश्चितार्थत्वात्तदर्थं पृथगुपन्यासो युक्तः॥ ( १२ ) नन्वथापि न जीवस्याणुत्वं युक्तम्, अणोस्तस्य शरीरे