पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 648, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १६. - सू - ३२. ] दीपिकासहितम्. ६०१ मसुराणां नित्यानुपलब्धिर्मनुष्याणां च नित्योपलब्ध्य नुपलब्धी प्रसञ्ज्येते ॥ ( ५ ) 'नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा नैवमसु आपादिता भवति । एवं च मध्यममनुष्याणां मिश्ररूपत्वात्स्वरूपभूत स्य सुखस्य दुःखस्य चोपलब्धिः समैव स्यात्, न तु कदाचिद्विषय सुखदुःखोपलब्धिः, आवरणाभावे अनुभवाभावायोगादिति भावः । अनेन असुरपक्षे अनुपलब्ध्यापादनमयुक्तम्, तेषां स्वरूपानन्दादेरभा वादेव अनुपलब्ध्युपपत्तेः । अनावरणस्य अविद्यमानानन्दानुपलब्धिं प्रत्यप्रयोजकत्वादिति शङ्का, एवं मध्यममनुष्यपक्षेऽप्यनुपलब्ध्यापा दनमयुक्तम् , आवरणाभावस्योपलब्ध्यभावं प्रत्यप्रयोजकत्वादिति शङ्का च निरस्ता । असुरपक्षे सूत्रे अनुपलब्धिपदेन आसुराविद्येत्या दाविव प्रकृतसुखाद्युपलब्धिविरुद्धदुःखोपलब्धेरेव विवक्षितत्वात् । मध्यममनुष्यपक्षेऽप्यनुपलब्धिपदेन निरवधारणाया दुःखानुपलब्धेरेव विवक्षितत्वात् । अत एव टीकायामेतच्च सर्व्वजीवविषयम्, केषां चिद्दुः खादिरूपत्वं मिश्रत्वं च ज्ञातव्यमित्युक्तम् । अत्र केचित्—'नित्यान न्दः' इत्यादिप्रमाणानुसारेण अन्यतरशब्दस्वारस्याच्च देवानामित्या दिभाष्यं सौत्रक्रममुल्लङ्घ्य 'अन्यतरनियमः' इत्यस्य व्याख्यानरूपं 'नित्योपलब्ध्यनुपलब्धी' इत्येतन्नित्योपलब्ध्यनुपलब्धिप्रसङ्ग इत्य स्य व्याख्यानरूपं, सूत्रे उक्तिलाघवाय मध्यमजीवानां प्रथममापाद नम् । एवमसुरपक्षे अनुपलब्धिरुपलब्ध्यभाव एव, न तु दुःखोपल ब्धिः, सा तु साक्षादापाद्या, परम्परया तु सुखोपलब्धेरभाव इति व्या चक्षते । तन्न—'नित्यानन्दः' इति प्रमाणस्योक्तपक्ष एवानुगुणत्वात्, वक्ष्यमाणरीत्या अन्यतरशब्दस्योभयपरत्व एव स्वारस्याच्च, भाष्यटी कातत्त्वप्रदीपाननुगुणत्वाच्च । भाष्यटीकयोर्देवदानवमिश्रक्रमेणापाद नात् । तत्त्वप्रदीपेऽपि व्यक्तमङ्गीकारे मुक्तियोग्या विनैव साधनसम्प त्त्या नित्यव्यक्तानन्दा भवेयुः, तमोयोग्याः संसृतावपि सुखलेशहीनाः नित्यदुःखिनः स्युरित्यादिना देवादिक्रमेणैवासुरपक्षे दुःखोपलब्धेरेव च आपादनात् ॥ ( ५ ) द्वितीयपक्षं प्रमाणविरोधेन निराचष्टे— (ननु यदि जीवानां आनन्दादिरूपत्वं स्यात्तदा तस्य संसृतौ अनभिव्यक्त्यर्थे ज्ञानाभावा तिरिक्ताविद्यावरणं भगवत्प्रसादेन तन्निवृत्तिश्च अङ्गीकार्या स्यात्तदेव ७६