भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 654, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 654

[ अधि - १७. - सू - ३७. ] दीपिकासहितम्. ६०७ ज्ञाने इदं ज्ञास्यामीत्यनियमः प्रतीयते एवं कर्मण्यपि जीवस्य । ( ८ ) 'य आत्मानमन्तरोऽयमयति' ( माध्यन्दिनपाठः ) इति च श्रुतिः ॥ ३७ ॥ ( ९ ) कुतः— र्थः। यथा ज्ञाने इत्यनेन सूत्रे सप्तम्यन्ताद्वतिरिति सूचितम्। ज्ञास्यामीत्य नन्तरं इच्छत इति शेषः । कर्मणीत्यनेन क्रियायामित्यस्य जीवस्येत्य नेन ज्ञस्येति विपरिणतपदस्य च अनुवृत्तिस्सूचिता । जीवस्येत्यनन्त रं अनुषक्तानियमपदं नियमस्याप्युपलक्षकम् । दृष्टान्तसमुच्चये विशे षणसमुच्चये वाऽपिशब्दः । तथा चाहमिदं सुरूपं सुगन्धं सुस्वरं वा ज्ञास्यामि, विपरीतं न पश्यामि न जिघ्रामि न शृण्वानीत्येवं स्पृहय तो जीवस्य यथोपलब्धौ ज्ञाने 'अनियमः' स्वेच्छानुसारेण न ज्ञान लाभः प्रतीयते । एवं तथा क्रियायां 'कर्मण्यपि' करिष्यामीति सङ्क ल्पितेऽपि व्यापारे अनियमः प्रत्येत्तव्यः । तद्दृष्टान्तेनात्रानियमः साध्य इति यावत् । ईश्वरस्य तु ज्ञाने कर्मणि च नियम इति योजना । तथा च यत एवं जीवस्य कर्मणि नियमाभावः, ईश्वरस्य तु तद्भावस्सिद्धो ऽतोऽनन्याधीनकर्तृत्वविवक्षया ईश्वरस्यैव कर्तृत्वं न जीवस्येत्युक्तं प्राक् । न तु सर्वथा कर्तृत्वाभावेनेति न पूर्वोक्तविरोध इति भावः । ज्ञास्यामीति इच्छत इत्यनेन च दृष्टान्तः साध्यविकल इति शङ्का परि हृता । कथमिति चेत्—न हि जिज्ञासुर्ज्ञाने साक्षाद्व्याप्रियते, येन नि यमेन ज्ञानप्राप्तिः, किं तु ज्ञानक्रियासाधन एव, न तु फलेच्छया साध नानुष्ठाने फलाव्यभिचारोऽदृष्ट इति टीकोक्तरीत्येति गृहाण ॥ ( ८ ) ईश्वरस्यैव नियमनकर्तृत्वं, न जीवस्येत्यत्र प्रमाणमाह—य इति ॥ इति च श्रुतिरिति । इति श्रुतिरप्येवमेवाह, न केवलं सूत्रमि ति चार्थः । यः चतुर्मुखादिजीवं तत्तदन्तर्गतो नियमयति एष परमा त्मा त्वान्तर्यामीति वाजसनेयश्रुत्यर्थः । अत्रेश्वरस्य जीवनियामक त्वोक्त्या तत्प्रेरणां विना जीवानां नियमेन कर्तृत्वाभावः स्वेच्छानुसा रिकर्तृत्वाभावः, ईश्वरस्य तु नियामकत्वात् तद्भावोऽवगम्यते ॥ ( ९ ) ननूभयोः कर्तृत्वाविशेषेऽपि ईश्वरस्यैव नियमेन कर्तृत्वं, न जीवस्येत्येतद्वैलक्षण्यं किंनिमित्तमिति पृच्छति—कुत इति ॥ निय