भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 653, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 653

६०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] 'आत्मानमेव लोकमुपासीत' (बृ. ३-४-१५०) इति क्रियायां व्यपदेशाच्च। (६) अन्यथाऽऽत्मैव लोकमिति निर्देशः स्यात् ॥ ३६ ॥ (७) तर्हि कथमीश्वरस्यैव कर्तृत्वमित्यतो वक्ति- सू-ॐ ॥ उपलब्धिवदनियमः ॥ ॐ ॥ ३७ ॥ -र्तृत्वोक्तेरित्यर्थः । अस्य हेतोर्जीवोऽपि कर्तेति पूर्वसाध्येनान्वयः । न केवलं युक्तिप्रत्यक्षाभ्यां, किन्तु श्रुतेश्चेति चशब्दार्थः । तथा चोक्तं भा रततात्पर्यनिर्णये- प्रत्यक्षैषा कर्तृता जीवसंस्था । तथाऽऽगमादनुमानाच्च सर्वम् ॥ इत्यादि ॥ 'लोकं' सर्वाश्रयं प्रकाशमानं वा 'आत्मानं' विष्णुमुपासीत जीव इ ति बृहदारण्यकच्छन्दोगश्रुत्यर्थः ॥ (६) ननु अत्र जीव उपासीतेत्युक्त्यभावात् कथमयं जीवस्य कर्तृत्वव्यपदेशस्स्यादित्यतस्तदुपपादनाय विपक्षे बाधकोक्तिपरं न चे द्वित्यंशं व्याचष्टे-अन्यथेति ॥ जीवस्य उपासनाक्रियायां कर्तृत्वेन श्रुत्यनभिमतत्वे क्रियाया अकर्तृकत्वजडकर्तृकत्वयोरसम्भवाच्छ्रुति वैयर्थ्यापत्या तत्परिहाराय परमात्मन एव क्रियाकर्तृत्वेन तदभिमत त्वे चेत्यर्थः । आत्मैवेत्यनेन निर्देशविपर्ययपदं तद्विन्यासव्यत्यासपर मिति सूचितम् । अस्मिन् पक्षे आत्मा परमात्मैव स्वात्मानमन्यं वा लोकमुपासीतेति श्रुत्यर्थप्राप्तेरिति भावः । अत्रात्मानमिति पक्षे टीकायां कर्तृत्वेनेत्यस्य कर्तृत्वेनापीत्यर्थः । कर्मत्वेनेत्यस्य केवलकर्म त्वेनेत्यर्थोऽवगन्तव्यः। अन्यमिति पक्षे तु यथा श्रुतैव व्याख्या। अन्यथे त्यनेन न चेदित्यस्यार्थ उक्तः । स्यादिति शेषोक्तिः । तथाचास्य कर्तृ त्वाञ्जास्ति चासौ विपरीतनिर्देशः तस्मान्न जीवोऽकर्ता किं तु कत्र्तैवे ति विपर्ययपर्यवसाने जीवस्यापि कर्तृतासिद्धिरिति भावः । न च जीवपरयोरुभयोरपि कर्तृत्वे गौरवं दोषः, प्रामाणिकत्वात् ॥ (७) नन्वेवं जीवस्यापि कर्तृत्वे कथमितरव्यपदेशादित्यादौ ईश्वरस्यैव कर्तृत्वं समर्थितम् । कथं च 'नान्यः कर्ता' इति श्रुतिरु पपद्यते। अतस्तद्विरोधोऽस्त्येवेत्याशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे-तर्हीति॥ जीवस्यापि कर्तृत्व इत्यर्थः। उक्तमिति 'नान्यः कर्ता' इति श्रुताविति शेषः। यद्वा-इतरव्यपदेशादित्यादौ कथं समर्थितमित्य