पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 652, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १७. सू - ३६. ] दीपिकासहितम्. ३०५ ( ४ ) सू— ॐ ॥ उपादानात् ॥ ॐ ॥ ३५ ॥ साधनाद्युपादानप्रतीतेश्च ॥ ३५ ॥ ( ५ ) सू— ॐ ॥ व्यपदेशाच्चक्रियायां न चेन्निर्देशविप र्ययः ॥ ॐ ॥ ३६ ॥ डाकाम्यप्राप्त्यादिकर्तृत्वोक्तेः 'तत्त्वतः' परमार्थत एव जीवः कर्ता न कल्पनयेति योजना । अस्य मोक्षप्रकरणत्वं तु छान्दोग्ये तैत्तिरीये च 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छा.८-३-४.) 'ब्रह्म विदाप्नोति परम्' (तै. २-१०) इति च मोक्षं प्रस्तुत्याम्नातत्वात् ज्ञा यते । श्रुतिस्तु दहरनये व्याख्याता ॥ (४) नन्वस्तु मोक्षे जीवस्य स्वाभाविकं कर्तृत्वं प्रामाणिकत्वा त् । संसारे तु काल्पनिकमेव किं न स्यात् । तावता शास्त्रसार्थक्या दित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—उपादानादिति ॥ साधने ति । मोक्षस्वर्गाद्यर्थे वेदविचारयागादिरूपेत्यर्थः । आदिशब्देन तदिति कर्तव्यता गृह्यते । यद्वा—तत्त्वप्रदीपरीत्या छेद्याद्यर्थकुठारादिकं साध नपदोक्तं आदिपदेन काष्ठादिरूपविषय उक्त इति ध्येयम् । उपादा नं अनुष्ठानं सम्पादनमिति यावत् । तस्य प्रतीतेः प्रत्यक्षसिद्धत्वाज्जी वस्येत्यर्थः । ततश्च फलदर्शनादिति चशब्दार्थः । अस्यापि जीवोऽपि कर्तेति पूर्वसाध्येनान्वयः । यद्वा—तत्त्वप्रदीपे न केवलं शास्त्रार्थवत्त्वा जीवस्य कर्तृत्वं प्रतिपद्यामहे, अपि तु प्रत्यक्षत एव तत्सिद्धमित्याहेत्य वतार्य चशब्दान्न च तद्धार्थो दृश्यत इत्युक्तहेतुसमुच्चयार्थत्वस्योक्तत्वात् टीकाकारस्याप्ययमेव चशब्दार्थोऽभिप्रेतः । अत एवोत्तरटीकायामेव मुपपत्त्या प्रत्यक्षेण चेत्युक्तम् । चशब्दप्रयोगेन सूत्रेऽपि चशब्दोऽनुष ङ्कनीय इति सूचितम् । केचित्तु—अत्र सूत्रे पूर्वसूत्रे च क्रमेण शङ्का द्वयपरिहारात् न चशब्दः, मौक्ताकाल्पनिकत्वसांसारिकाकाल्पनिकत्व रूपविषयभेदात् । तथापि अवान्तरसाध्यभेदेऽपि अकाल्पनिकत्वसा मान्यस्य पूर्वसूत्रे युक्त्या अत्र तु प्रत्यक्षेण चोपादानात् भाष्ये चश ब्दः प्रयुक्त इत्याहुः । तत्तु उत्तरटीकातत्त्वप्रदीपविरुद्धम् । तत्र कर्तृ त्वस्यैवैक साध्यत्वेनोक्तेः ॥ (५) एवं संसारे शास्त्रार्थवत्त्वरूपयुक्त्या साधनाद्युपादानप्रत्यक्षे ण च साधितं जीवकर्तृत्वं श्रुत्याऽपि समर्थयत्सूत्रमुपन्यस्य व्याचष्टे— व्यपदेशाच्चेति ॥ इतीति । उपासनाख्यक्रियायां उपासीतेत्यात्मनः क