पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 656, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १७. सू - ४१. ] दीपिकासहितम्. ६०९ यथा तक्षणः कारयितृनियतत्वं कर्तृत्वं च विद्यते एवं जीवस्यापि ॥ ४० ॥ ( १२ ) सू—ॐ ॥ परात्तु तच्छ्रुतेः ॥ ॐ ॥ ४१ ॥ सा च कर्तृत्वशक्तिः परादेव । ( १३ ) कर्तृत्वं करणत्वं च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥ स्यापीत्यनेन चशब्दस्य दार्ष्टान्तिकसमुच्चयार्थत्वमभिप्रेति । केचित्तु- सूत्रे उभयथा चेति चशब्दसम्बन्धमभिप्रेत्य भाष्ये कर्तृत्वं चेत्युक्तमि त्याहुः । तन्न, तद्भाष्यस्योभयथेत्युक्तप्रकारद्वयसमुच्चयपरत्वेन चश ब्दार्थप्रदर्शकत्वाभावात् । तथा चेश्वराधीनेऽपि जीवे दृष्टान्तबलात्का रकाप्रयोज्यत्वरूपामुख्यस्वातन्त्र्यगर्भितकर्तृत्वव्यपदेशो युज्यत ए वेति भावः ॥ ( १२ ) ननु किं तक्षण इव जीवस्य कर्तृत्वशक्तिर्जीवाधीनैव, ईश्व राधीनत्वं तु वचनवेतनदानादिवत् । उत कर्तृत्वशक्तिरपीश्वराधी ना । यद्याद्यः तर्हीश्वरस्यैव कर्तृत्वमिति गतः पक्षः । द्वितीये न जीव स्य कर्तृत्वशक्तिरित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—परादि ति ॥ सेति प्रकृतत्वोपपादकं, या शक्तिसूत्रे प्रकृता, या च तक्षकदृष्टा न्तेन उपपादिता सेत्यर्थः । चोऽप्यर्थः । कर्तृत्वेत्यतः प्राक् जीवस्येत्यु पस्कार्यम् । शक्तिरित्यनेन तदिति भिन्नपदस्यार्थ उक्तः । सामर्थ्यमि ति वक्तव्ये शक्तिरिति तच्छब्दपर्यायशब्देनार्थकथनम् । शक्तिसूत्र गतशक्तिशब्दविवक्षयेति ध्येयम् । केचित्तु—सूत्रे शक्तिरिति शेषः । तच्छ्रुतेरित्येकं पदं, तथा च ईशाधीनत्वेन श्रुतेरिति तदर्थ इत्याहुः । ‘परादेव’ परमात्मनः सकाशादागतैव तदधीनैव न जीवाधीनेत्यर्थः । अनेन सौत्रतुशब्दोऽवधारणार्थतया व्याख्यातः । तस्मान्नापसिद्धान्त इति वाक्यशेषः ॥ ( १३ ) कुत इत्यतस्तत्र हेतुत्वेन श्रुतेरित्येतद्योजयति—कर्तृत्वमि ति ॥ कर्तृत्वकरणत्वपदाभ्यां तच्छक्तिरुपलक्ष्यते । तत्राद्यं जीवस्य द्वितीयमिन्द्रियादेः । ‘स्वभावः’ प्रकृत्यादीनां परिणामादिः । अल्पज्ञ त्वाल्पशक्तित्वादिरूपो वा । ‘चेतना’ चेतसो व्याप्तिः ‘बहुस्मरणशक्ति स्तु चेतनेत्यभिधीयते’ इत्युक्तेश्चैतन्यं वा । ‘धृतिः’ देहादिधारण ७७