पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 657, कुल 1267 में से
संदर्भ में पढ़ें६१० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] इति हि पैङ्गिश्रुतिः ॥ ४१ ॥ ( १४ ) सू—ॐ ॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषेधावैयर्थ्या दिभ्यः ॥ ॐ ॥ ४२ ॥ ततोऽप्रयोजकत्वं शास्त्रस्य नापद्यते कृतप्रयत्नापेक्ष सामर्थ्यम् । आहत्य ' इमे' भावाः 'यत्प्रसादात्' यस्य परमात्मनोऽ नुग्रहादिच्छया सन्ति 'यदुपेक्षया' यत्कटाक्षाभावे न सन्ति इत्यर्थः। अनेनेश्वरस्य कर्तुमकर्तुमन्यथा कर्तुं चास्ति सामर्थ्यम्, सङ्कल्पाभावा त् तथा न करोतीत्युक्तं भवति । अस्य यच्छब्दस्य तत्र प्रकृतेन त च्छब्देनान्वयः । 'हि' यतः श्रुतिरित्यस्य परादेवेति साध्येनान्वयः ॥ ( १४ ) नन्वस्मिन् पक्षेऽपि दोष उक्तः, यदि कर्तृत्वशक्तिरीश्वरा धीना तर्हि तस्यैव कर्तृत्वम्, न जीवस्य दारुप्रतिमावदन्याधीनस्येति पुनश्शास्त्रवैयर्थ्यमित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—कृते ति ॥ 'ततः' कर्तृत्वशक्तेरीश्वराधीनत्वादपि 'शास्त्रस्य' विधिनि षेधात्मकस्य 'अप्रयोजकत्वं' न विद्यते प्रयोजकं प्रयोजनं यस्य तस्य भावो वैयर्थ्य 'नापद्यते' न प्रसज्यते । कुतः ? 'ततः' तद्वैयर्थ्या चैव 'तत्प्रेरकत्वस्य' तस्येश्वरस्य जीवप्रेरकत्वस्य 'कृतप्रयत्नापेक्ष त्वात्' पूर्वकर्मप्रयत्नयोग्यतासापेक्षत्वादिति योजना । तत इत्यनेन विहितेति चतुर्थ्यन्तं पदं व्याख्यातम् । कृतेत्यादिना कृतेति हेतुसमर्प कशब्दो व्याख्यातः । तत्प्रेरकत्वस्येत्यनेन सूत्रे पूर्वसूत्रात्पर इति वि परिणतपदस्य द्वितीयान्तज्ञशब्दस्य चानुवृत्तिः प्रेरयतीत्यध्याहारः सू चितः । सूत्रे तुशब्दोऽवधारणेऽप्यर्थे चेत्यभिप्रेत्यादिशब्दार्थमाह—आ दिशब्देनेति । 'अवैषम्यादि' सङ्गृहीतमिति शेषः । अत्रादिशब्देनानैर्घृ ण्यं गृह्यते । अनेन—न ततोऽपि जीवशक्तेरीश्वराधीनत्वादपि शास्त्र स्य वैयर्थ्यमापद्यते । कुतो ? यतोऽयं परमात्मा 'विहितप्रतिषेधावैय र्थ्यादिभ्यस्तु' विधिनिषेधशास्त्रावैयर्थ्यायैव, न तु स्वस्य सहायार्थं, त था स्वस्य वैषम्यनैर्घृण्यपरिहाराय च 'कृतप्रयत्नापेक्षस्तु' जीवस्या नादिकर्मप्रयत्नसापेक्ष एव जीवं भोगे प्रेरयति, तद्योग्यतामपेक्ष्य तु क र्मणि, न तु तदनपेक्ष इति सूत्रार्थ उक्तो भवति । अत एवोक्तं भार ततात्पर्यनिर्णये— एतानपेक्ष्यैव फलं ददामि.