पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 681, कुल 1267 में से
संदर्भ में पढ़ें६३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] जीव ईशस्यानुपाधिरिन्द्रचापो यथा रवेः ॥ इति पैङ्गिश्रुतिः ॥ ( ३३ ) 'यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्' (प्र.३-३.) इति च श्रुतिः ॥ ५० ॥ —————:*::————— पातिरिक्तप्रतिबिम्बोपाध्यभावादित्यत आह—सोपाधिरिति ॥ इति शब्दोऽध्याहार्यः । 'ईयते' ज्ञायते । 'इन्द्रचापः' तत्संज्ञका वृष्टिसूचक धनुरकृतिः 'रवेः' सूर्यस्य तत्तेजसो यथा निरुपाधिप्रतिबिम्बः बिम्बा तिरिक्तोपादानोपाध्यभावात्, अत एव न तस्य सूर्यात्यन्तसादृश्यम्, त था जीवः परस्य हरेः 'अनुपाधिः' स्वरूपातिरिक्तोपाधिरहितप्रतिबिम्ब इत्यर्थः । अत्र दृष्टान्ते बिम्बातिरिक्तोपाध्यभावः । दार्ष्टान्तिके तु प्रति बिम्बातिरिक्तोपाध्यभावः । अतिरिक्तोपाध्यभावस्तु उभयत्र सम इति द्रष्टव्यम् । सोपाधिप्रतिबिम्बस्य दर्पणादिप्रतिबिम्बितत्वं प्रसिद्धमेवे ति नोदाहृतम् । केचित्तु—सोपाधिप्रतिबिम्बस्य इन्द्रचाप उदाहरणं, तस्य च मेघमण्डलं वा सूर्यतेजो वोपाधिः । उपादानं च तदेव । निरुपा धिप्रतिबिम्बस्य तु जीव उदाहरणमिति यथाशब्दावृत्त्या वाक्यद्वयम पि दृष्टान्तपरतया योजयन्ति । तन्नु चन्द्रिकाननुगुणत्वान्मूलाभावा च्चोपेक्ष्यम् । अनेन सूत्रपञ्चकेन जीवस्य मत्स्यादिवत्स्वरूपांशत्वाभा वोक्त्याऽनंशत्वश्रुतेः स्वरूपांशत्वाभावाविषयत्वेन गतिरुक्ता भवति । श्रुतिरित्त्यस्य जीवस्य प्रतिबिम्बत्वमुक्तवाऽतिरिक्तोपाध्यभावमपि वक्ती ति शेषः । अतो नातिरिक्तोपाध्यभावेऽपि प्रतिबिम्बत्वहानिरिति भावः॥ ( ३३ ) जीवस्य निरुपाधिप्रतिबिम्बत्वे छायारूपदृष्टान्तान्तरप्रतिपा दकं षट्प्रश्नवाक्यं पठति—यथेति ॥ यथा पुरुषस्य देहस्य छाया 'पु रुषे' देहे 'आतता' तदधीना तत्प्रतिरूपा भवतीति यावत् । तद्वत् 'एतस्मिन्' पुरुषोत्तमे विष्णौ 'एतत्' प्रतिबिम्बरूपं विश्वं जीवजा तं वा 'आततं' आयत्तं तदधीनतया वर्तते तत्प्रतिबिम्बभूतमित्य र्थः तत्त्वप्रदीपोक्तो ध्येयः । अत्र सर्वस्यापि शरीरस्य छायया ग्रस्त त्वात् उपहितानुपहितांशद्वयाभावाच्छायाया इन्द्रचापवन्निरुपाधिप्र तिबिम्बत्वोक्तिः । छायोपादानं तु नीरूपि द्रव्यानन्तरमिति चन्द्रिका काराः । इति चेति । इति श्रुतिश्चोक्तार्थमाहेत्यर्थः । चस्समुच्चये ॥१८॥ ॥ इति अंशाधिकरणम् ॥