पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 683, कुल 1267 में से
संदर्भ में पढ़ेंइच्छाद्वेषसुखदुःखादिवैचित्र्यं चादृष्टादेव । चशब्देन प्रतिक्षणवैचित्र्यं च ॥ ५२ ॥ ( ३ ) सू—ॐ ॥ प्रदेशादिति चेन्नान्तर्भावात् ॥ ॐ ॥ ५३ ॥ न स्वर्गनरकभूम्यादिप्रदेशविशेषाद्वैचित्र्यम्, तत्प्रा वैचित्र्यं चेति चशब्दार्थः । ‘इच्छा’ रागः । आदिशब्देन मोहो गृह्यते । वैचित्र्यमिति अनुवृत्तानियमपदव्याख्यानम् । एवमित्युक्तं व्यनक्ति- अदृष्टादिति । अदृष्टवैचित्र्यादित्यर्थः । भवतीति शेषः । न कारणान्त रादित्येवार्थः । नन्वस्माभिरपि सिद्धान्तिवत्पूर्वपूर्वदोषवैचित्र्यमेव उत्तरोत्तरदोषवैचित्र्ये कारणमित्यङ्गीकारान्न काऽप्यदृष्टवैचित्र्यापेक्षे त्यतः प्रवृत्तं चशब्दं व्याचष्टे—चशब्देनेति । प्रतिक्षणेति । पुरुषविशेष निष्ठप्रतिक्षणवैचित्र्यमित्यर्थः । सङ्गृहीतमिति शेषः । चः समुच्चये । अ नेन—यतो न केवलमाभासे देवदानवाद्यनियमोऽदृष्टानियमात्, किं न्तु अभिसन्धिपदोक्तरागादिष्वनियमोऽपि तत एव भवति, न रागा द्यनियमात् । अतो न तस्मात्सुरासुरादिवैचित्र्यं वाच्यम् । न केवल मभिसन्ध्यादिषु वैचित्र्यमदृष्टानियमात्, किन्त्वेकपुन्निष्ठप्रतिक्षणवैचि त्र्यं च ‘एवं’ अदृष्टानियमादेव भवति, न कारणान्तरादिति सूत्रार्थ उक्तो भवति । दोषवैचित्र्याभावेऽपि एकस्मिन् पुंसि प्रतिक्षणवैचि त्र्यदर्शनेन कारणान्वेषणे तत्कारणतयाऽदृष्टवैचित्र्यस्यैवाङ्गीकार्य त्वावश्यकत्वात् जीववैचित्र्येऽपि तदेव कारणमिति भावः ॥ ( ३ ) ननु स्वर्गस्थाः सुराः, भूमिस्थाः नराः, इत्यादिरूपेण स्थान वैचित्र्यादेव सुरनरादिवैचित्र्योपपत्तेः किमदृष्टवैचित्र्येणेत्याशङ्कां प रिहरत्सूत्रमुपन्यस्य व्याचष्टे—प्रदेशादिति ॥ अत्र प्रदेशपदं तद्वैचि त्र्यपरमित्याह--स्वर्गेति । ‘प्रदेशः’ स्थानं ‘वैचित्र्यं’ सुरनरादि भेदः । प्रतिबिम्बानामिति वाच्यमिति शेषः । कुतो न वाच्यमित्यतः प्रवृत्तमन्तर्भावादित्येतत्तात्पर्यतो व्याचष्टे—तत्प्राप्तेरिति । विचित्रप्रदे शप्राप्तेरप्यदृष्टसापेक्षत्वादित्यर्थः । अदृष्टस्यापेक्षा यस्यामिति विग्रहः । न केवलमाभासवैचित्र्यस्येत्यपिशब्दार्थः । निष्कारणस्थानवैचित्र्य स्यैवानुपपत्त्या तत्कारणान्वेषणे अन्ततोऽदृष्टस्यैव तत्कारणतयाऽङ्गी कार्यत्वादिति भावः । अनेन प्रदेशवैचित्र्यकारणस्यादृष्ट एवान्तर्भा वात्तस्यैतद्रूपत्वादिति सूत्रखण्डार्थ उक्तो भवति । युक्त्यन्तरमाह—