पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 688, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २. सू - ४. ] दीपिकासहितम्. ६४१ इति हि भविष्यत्पर्वणि ॥ २ ॥ ( ६ ) सू—ॐ ॥ प्रतिज्ञानुपरोधाच्च ॥ ॐ ॥ ३ ॥ ' स इदं सर्वमसृजत ' ( तै. २-६. ) इति ॥ ३॥ —::- २. अधिकरणम् ॥ ( १ ) 'त्रिधा हैवेन्द्रियाणि नित्यान्यनित्यानि च । तत्र नित्ये ननु तथाऽपि 'तेषां भूतैरुपचयः' इतीन्द्रियाणां भूतकार्यत्वोक्तेः 'तेभ्यो भूतानि' इति भूतानामिन्द्रियकार्यत्वोक्तेः विरोध इति चेत्—न, यतः 'तेभ्यो भूतानि' इति वाक्यं भूतेभ्योऽपि पूर्वमुत्पन्नानां महदादितत्त्वा भिमानिनां देवानां इन्द्रियादिव्यापारैः भूतोत्पत्तिपरम्, न तु तत्त्वरूपे न्द्रियैः। यथोक्तं तत्त्वप्रदीपे—तात्त्विकदेवोत्तमानां प्राकृते देहाधिष्ठिते न्द्रियव्यापारपूर्वकत्वाद्भूतसृष्टेः भूतकारणत्वव्यपदेशोपपत्तिरिति । य द्वा—सूक्ष्मप्राणैरिति टीकोक्तेः तत्त्वरूपेन्द्रियैरेव सूक्ष्मभूतानामुपचयः। 'तेषां भूतैरुपचयः' इत्यनेन तु सूक्ष्मसृष्टिकाले जीवेन्द्रियाणां भूतसू क्ष्मैरेवोपचयः कथ्यते इति न तत्त्वरूपेन्द्रियाणां, तेषां पूर्वोत्पन्नत्वेन प श्चादुत्पन्नभूतैरुपचयायोगात् । न च जीवेन्द्रियाणामपि कथं भूतैरुप चयः, तद्कार्यत्वादिति वाच्यम् । जीवानां सूक्ष्मसृष्ट्युक्तेरेव तज्ज्ञाप कत्वात् । यद्वा—तत्त्वरूपाणां अहङ्कारोत्पन्नानां भूतानां सूक्ष्मप्राणैरुप चयवत् तत्त्वरूपेन्द्रियाणामपि भूतसूक्ष्मैरुपचयोऽस्तु, अन्योन्यसूक्ष्मै रुपचये बाधकाभावात् ॥ ( ६ ) वियदधिकरणोक्तप्रतिज्ञाहानियुक्त्या इन्द्रियाणां उत्पत्तिं स मर्थयत्सूत्रं पठित्वा व्याचष्टे—प्रतिज्ञेति ॥ इतीत्यन्तस्य सूत्रेणान्वयः। चशब्दोऽनेन स्मारितप्रतिज्ञाहान्याख्यपूर्वोक्तयुक्तिसमुच्चये, विभक्त शक्तत्वादियुक्तिसमुच्चये वा । हेतोः पूर्वेणान्वयः । तथा च प्राणानां उत्पत्त्यङ्गीकारे 'स इदम्' इति प्रतिज्ञानुपरोधात् अनुपहतेस्तदनु साराद्योत्पत्तिमन्तः प्राणा इति सूत्रार्थः । 'स इदम्' इति श्रुतिस्तु वियदधिकरणे व्याख्याता ॥ १ ॥ ॥ इति प्राणोत्पत्त्यधिकरणम् ॥ —::— २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मनोजन्मविषयश्रुतिविरोधः परिह्रियते । पूर्व ८१