पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 687, कुल 1267 में से
संदर्भ में पढ़ें६४० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ] तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥ परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता ॥ न च सृष्टिवाक्यविरोधः । 'हि' यतः 'तेषां' इन्द्रियाणां सृष्टिकाले 'भूतैः' पञ्चमहाभूतैः 'उपचयो' वृद्धिः स्थूलभावो 'विधीयते' परेण क्रियते । तर्ह्युपचयात्पूर्वमसमर्थानीन्द्रियाणि न संसारकारणानि स्यु रित्याशङ्क्य तत्परिहाराय-सृष्टिकाल इत्याह । प्रलये वियुक्तांशानां ते षां प्रतिसृष्टिकालं उपचयो विधीयत इत्यर्थः । तथा च यस्मिन् लय कालेऽनुपचयः तदा न समर्थान्येव । यस्मिंस्तु सृष्टिकाले समर्था नि तदाऽस्त्येवोपचयः । स च न कादाचित्कः, किन्तु प्रतिसृष्टिकाले भावीति नोक्तदोष इति भावः । मुख्यानादित्वासम्भवे हेतुमाह--'प रेण' परमात्मनेति । साम्यं स्वातन्त्र्याविभक्तत्वादिधर्मेण । कस्य स्यात्, न कस्यापि भवेदित्यर्थः । मुख्यनित्येति । देहस्वरूपविशेषैः अविकृतत्वरूपेत्यर्थः । उपलक्षणमेतत् । मुख्यानादिता चेत्यपि द्रष्टव्य म् । अनेन सूक्ष्मरूपेण अनादित्वमेव गौणानादित्वम् । अनादित्वश्रुति रपि तत्परैव । जन्मश्रुतिस्तूपचितस्थूलेन्द्रियपरा । भूतान्येवोपादाना नीति न तदभावोऽपि । स्वातन्त्र्याद्यापत्तेः न मुख्यानादित्वादिसम्भ वोऽपीति सर्वस्योत्तरमुक्तं भवति । परेण साम्येत्यनेन यावद्विकारमि त्यादियुक्तयो गृहीता भवन्ति । भविष्यपर्वणीयस्य उक्तत्वादित्य ध्याहारेणानादीति पूर्ववाक्येनान्वयः । नन्विन्द्रियाणां भूतैरुपचया भ्युपगमे तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् । तैजसानीन्द्रियाण्याहुः ॥ इत्यादितैजसाहङ्कारकार्यत्ववाचिभागवतादिवाक्यविरोध इति चेत्- न, भूतैरुपचयोक्तावप्यत्र अहङ्कारकारणत्वस्यानिषेधात् । तथाऽपि तथा विशिष्टकार्यत्वाद्देवा वैकारिकाः स्मृताः । अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥ तामसानि तु भूतानि ततस्तावद्भूतत्रयम् ॥ इति पाद्मस्मृतौ भूतानां तामसाहङ्कारकार्यत्वोक्तेः । 'तेभ्यो भूतानि जज्ञि रे' (काषायण.) इति श्रुतौ च तेषां प्राणशब्दितेन्द्रियकार्यत्वोक्तेर्विरोध इति चेत्-न, अहङ्कारोत्पन्नभूतानामपि सूक्ष्मप्राणैरुपचयाभ्युपगमात् ।