पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 686, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - २. ] दीपिकासहितम्. ६३९ ( ३ ) अत उच्यते-- सू--ॐ ॥ तथा प्राणाः ॥ ॐ ॥ १ ॥ यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ १ ॥ ( ४ ) सू--ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ २ ॥ अनादित्वश्रुतिर्गौणानदित्वापेक्षया, मुख्यासम्भवात् । ( ५ ) नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः। ( ३ ) सिद्धान्तयत्सूत्रमवतारयति--अत इति ॥ यतः श्रुतिवि- रोधः संशयकारणमस्ति अतस्तत्परिहाराय सिद्धान्त उच्यते सूत्र- कृतेत्यर्थः । सूत्रे तथाशब्दः पूर्वोक्तयुक्तीनां साध्यस्य च परामर्श- क इत्यभिप्रेत्य सूत्रं व्याचष्टे--यथेति । यैर्हेतुभिरित्यर्थः । 'उत्पद्यन्ते' उत्पत्तिमत्त्वेन सिध्यन्ति 'तथा' तैरेव हेतुभिः 'उत्पद्यन्ते' पराधीनवि- शेषावाप्तिरूपोत्पत्तिमन्त एव सिध्यन्तीत्यर्थः । हेतवस्तु वियदधि- करण एवोक्ताः । तेजआदेर्ब्रह्मान्यकार्यत्वे घर्मात्स्वेददृष्टिवत् अत्र पुनः प्राणानां तदन्यकार्यत्वे प्रापकहेत्वभावेन विप्रतिपत्त्यभावात् अत एव प्राणानां कारणस्याविवादात् सिद्धवत्कृत्य परमात्मन इत्यु- क्तम् ॥ ( ४ ) नन्वाकाशोत्पत्तिसिद्ध्यर्थमनुत्पत्तौ श्रुत्यभावाख्यो हेतुरु- क्तः । न चासाविह सम्भवति । 'प्राणाः' एवेत्यनुत्पत्तिश्रुतेर्विद्यमा- नत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति--गौणीति ॥ प्रतिज्ञांशं व्या- चष्टे--अनादीति । 'प्राणा अनादयः' ( काषायण. ) इति अनादित्वप्र- तिपादक श्रुतिरित्यर्थः । गौणानदित्वापेक्षयेति । अमुख्यानादित्वविव- क्षयेत्यर्थः । प्रवृत्ता यत इति शेषः । अतो मुख्यानुत्पत्तौ श्रुत्यभाव इति प्रतिज्ञावाक्यशेषश्च कर्तव्यः । कुत इत्यतः प्रवृत्तमसम्भवादिति हेतुसाधकहेतुं व्याचष्टे--मुख्येति । श्रुतेर्मुख्यानुत्पत्तिवाचित्वासम्भ- वात् । सोऽपि कुतः ? इन्द्रियाणां मुख्यानुत्पत्तेरसम्भवात् 'एतस्मा- त्' इत्यादिश्रुत्यन्तरासम्भवाच्च, अकारवाच्याद्विष्णोः सम्भवाच्चेत्यर्थः॥ ( ५ ) ननु प्राणानां गौणानादित्वं किं नाम, यत्परा श्रुतिर्भवेत् । कथं च गौणार्थग्रहणहेतुर्मुख्यासम्भवः। प्रत्युत उत्पत्तिरेव न सम्भव- त्युपादानाभावादित्यत आह--नित्यानीति ॥ 'सर्वशः' सर्वाणीन्द्रि- याणि 'सौक्ष्म्येण' सूक्ष्मेण रूपेण 'नित्यानि' चकारादनादीनि च ।