पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 685, कुल 1267 में से
संदर्भ में पढ़ें६३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] १०. अधिकरणम् ॥ ( १ ) युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन। 'प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे भूतेभ्यो ऽण्डमण्डस्यान्तस्त्विमे लोका अथ प्राणा एवानादयः प्राणा नित्याः' इति काषायणश्रुतौ प्राणानामनुत्प- त्तिश्श्रूयते । ( २ ) नोपादानं हीन्द्रियाणां अतोऽनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृश्यते ॥ इति भविष्यत्पर्वणि । 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' (मु.२-१-३.) इति च । १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति-युक्तीति॥ सिद्धान्त्यभिहितानां श्रुतीनां युक्तिसहिताभिः श्रुतिभिर्विरोधं 'अनेन' चतुर्थपादेन निराकरोति सूत्रकार इत्यर्थः । अत्राधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधः परिह्रियते । तत्र किमिन्द्रियाण्युत्पत्तिमन्ति न वेति संशयबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—प्राणा इति ॥ 'इदं' अस्य जगतः 'अग्रे' प्रलये 'प्राणाः' इन्द्रियाण्येव 'आसुः' बभूवुरित्यर्थः । 'तेभ्यः' इन्द्रियेभ्यः पञ्च 'भूतानि' आकाशादीनि जज्ञिरे । भूतेभ्यो ब्रह्माण्डं, अण्डस्यान्तः 'इमे' चतुर्दश लोका आसुः । यतएवं 'अथ' तस्मात्सर्वकारणत्वेन प्रलयेऽवस्थानात् प्राणाः 'अनादयः, उत्पत्तिशून्या एव' अतएव नित्या इत्यर्थः । अत्रा- नादित्वोपपादनाय पूर्वांशोदाहरणम् ॥ ( २ ) एव मिन्द्रियाणामनुत्पत्तिश्रुतिमुपन्यस्य तस्याः प्राबल्या- यानुत्पत्तावुपादानशून्यत्वादिति युक्तिमभिप्रेत्य तस्या असिद्ध्यादि परिहाराय स्मृति माह—नेति ॥ 'हि' यतः 'उपादानं' परिणामि कारणं, 'अतो' निरुपादानत्वात् । ब्रह्मवदित्यन्वयदृष्टान्तसम्भवे ऽपि व्यभिचारशङ्कानिरासायोक्तहेतोर्व्यतिरेकव्याप्तिं दर्शयति— उपादानकृतेति । तन्निमित्तेत्यर्थः । 'सर्वलोकेषु' घटादिकार्येषु । इतीति । युक्तिरुक्तेति शेषः । इतीति । प्राणानामुत्पत्तिश्च श्रूयत इति सम्बन्धः । श्रुतिस्त्वन्यत्रे व्याख्याता ॥