पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
६३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] १०. अधिकरणम् ॥ ( १ ) युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन। 'प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे भूतेभ्यो ऽण्डमण्डस्यान्तस्त्विमे लोका अथ प्राणा एवानादयः प्राणा नित्याः' इति काषायणश्रुतौ प्राणानामनुत्प- त्तिश्श्रूयते । ( २ ) नोपादानं हीन्द्रियाणां अतोऽनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृश्यते ॥ इति भविष्यत्पर्वणि । 'एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च' (मु.२-१-३.) इति च । १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति-युक्तीति॥ सिद्धान्त्यभिहितानां श्रुतीनां युक्तिसहिताभिः श्रुतिभिर्विरोधं 'अनेन' चतुर्थपादेन निराकरोति सूत्रकार इत्यर्थः । अत्राधिकरणे इन्द्रियोत्पत्तिविषयश्रुतिविरोधः परिह्रियते । तत्र किमिन्द्रियाण्युत्पत्तिमन्ति न वेति संशयबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—प्राणा इति ॥ 'इदं' अस्य जगतः 'अग्रे' प्रलये 'प्राणाः' इन्द्रियाण्येव 'आसुः' बभूवुरित्यर्थः । 'तेभ्यः' इन्द्रियेभ्यः पञ्च 'भूतानि' आकाशादीनि जज्ञिरे । भूतेभ्यो ब्रह्माण्डं, अण्डस्यान्तः 'इमे' चतुर्दश लोका आसुः । यतएवं 'अथ' तस्मात्सर्वकारणत्वेन प्रलयेऽवस्थानात् प्राणाः 'अनादयः, उत्पत्तिशून्या एव' अतएव नित्या इत्यर्थः । अत्रा- नादित्वोपपादनाय पूर्वांशोदाहरणम् ॥ ( २ ) एव मिन्द्रियाणामनुत्पत्तिश्रुतिमुपन्यस्य तस्याः प्राबल्या- यानुत्पत्तावुपादानशून्यत्वादिति युक्तिमभिप्रेत्य तस्या असिद्ध्यादि परिहाराय स्मृति माह—नेति ॥ 'हि' यतः 'उपादानं' परिणामि कारणं, 'अतो' निरुपादानत्वात् । ब्रह्मवदित्यन्वयदृष्टान्तसम्भवे ऽपि व्यभिचारशङ्कानिरासायोक्तहेतोर्व्यतिरेकव्याप्तिं दर्शयति— उपादानकृतेति । तन्निमित्तेत्यर्थः । 'सर्वलोकेषु' घटादिकार्येषु । इतीति । युक्तिरुक्तेति शेषः । इतीति । प्राणानामुत्पत्तिश्च श्रूयत इति सम्बन्धः । श्रुतिस्त्वन्यत्रे व्याख्याता ॥
[ अधि - १०. सू - २. ] दीपिकासहितम्. ६३९ ( ३ ) अत उच्यते-- सू--ॐ ॥ तथा प्राणाः ॥ ॐ ॥ १ ॥ यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ १ ॥ ( ४ ) सू--ॐ ॥ गौण्यसम्भवात् ॥ ॐ ॥ २ ॥ अनादित्वश्रुतिर्गौणानदित्वापेक्षया, मुख्यासम्भवात् । ( ५ ) नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः। ( ३ ) सिद्धान्तयत्सूत्रमवतारयति--अत इति ॥ यतः श्रुतिवि- रोधः संशयकारणमस्ति अतस्तत्परिहाराय सिद्धान्त उच्यते सूत्र- कृतेत्यर्थः । सूत्रे तथाशब्दः पूर्वोक्तयुक्तीनां साध्यस्य च परामर्श- क इत्यभिप्रेत्य सूत्रं व्याचष्टे--यथेति । यैर्हेतुभिरित्यर्थः । 'उत्पद्यन्ते' उत्पत्तिमत्त्वेन सिध्यन्ति 'तथा' तैरेव हेतुभिः 'उत्पद्यन्ते' पराधीनवि- शेषावाप्तिरूपोत्पत्तिमन्त एव सिध्यन्तीत्यर्थः । हेतवस्तु वियदधि- करण एवोक्ताः । तेजआदेर्ब्रह्मान्यकार्यत्वे घर्मात्स्वेददृष्टिवत् अत्र पुनः प्राणानां तदन्यकार्यत्वे प्रापकहेत्वभावेन विप्रतिपत्त्यभावात् अत एव प्राणानां कारणस्याविवादात् सिद्धवत्कृत्य परमात्मन इत्यु- क्तम् ॥ ( ४ ) नन्वाकाशोत्पत्तिसिद्ध्यर्थमनुत्पत्तौ श्रुत्यभावाख्यो हेतुरु- क्तः । न चासाविह सम्भवति । 'प्राणाः' एवेत्यनुत्पत्तिश्रुतेर्विद्यमा- नत्वादित्याशङ्कां परिहरत्सूत्रमुपन्यस्यति--गौणीति ॥ प्रतिज्ञांशं व्या- चष्टे--अनादीति । 'प्राणा अनादयः' ( काषायण. ) इति अनादित्वप्र- तिपादक श्रुतिरित्यर्थः । गौणानदित्वापेक्षयेति । अमुख्यानादित्वविव- क्षयेत्यर्थः । प्रवृत्ता यत इति शेषः । अतो मुख्यानुत्पत्तौ श्रुत्यभाव इति प्रतिज्ञावाक्यशेषश्च कर्तव्यः । कुत इत्यतः प्रवृत्तमसम्भवादिति हेतुसाधकहेतुं व्याचष्टे--मुख्येति । श्रुतेर्मुख्यानुत्पत्तिवाचित्वासम्भ- वात् । सोऽपि कुतः ? इन्द्रियाणां मुख्यानुत्पत्तेरसम्भवात् 'एतस्मा- त्' इत्यादिश्रुत्यन्तरासम्भवाच्च, अकारवाच्याद्विष्णोः सम्भवाच्चेत्यर्थः॥ ( ५ ) ननु प्राणानां गौणानादित्वं किं नाम, यत्परा श्रुतिर्भवेत् । कथं च गौणार्थग्रहणहेतुर्मुख्यासम्भवः। प्रत्युत उत्पत्तिरेव न सम्भव- त्युपादानाभावादित्यत आह--नित्यानीति ॥ 'सर्वशः' सर्वाणीन्द्रि- याणि 'सौक्ष्म्येण' सूक्ष्मेण रूपेण 'नित्यानि' चकारादनादीनि च ।
६४० ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ] तेषां भूतैरुपचयः सृष्टिकाले विधीयते ॥ परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता ॥ न च सृष्टिवाक्यविरोधः । 'हि' यतः 'तेषां' इन्द्रियाणां सृष्टिकाले 'भूतैः' पञ्चमहाभूतैः 'उपचयो' वृद्धिः स्थूलभावो 'विधीयते' परेण क्रियते । तर्ह्युपचयात्पूर्वमसमर्थानीन्द्रियाणि न संसारकारणानि स्यु रित्याशङ्क्य तत्परिहाराय-सृष्टिकाल इत्याह । प्रलये वियुक्तांशानां ते षां प्रतिसृष्टिकालं उपचयो विधीयत इत्यर्थः । तथा च यस्मिन् लय कालेऽनुपचयः तदा न समर्थान्येव । यस्मिंस्तु सृष्टिकाले समर्था नि तदाऽस्त्येवोपचयः । स च न कादाचित्कः, किन्तु प्रतिसृष्टिकाले भावीति नोक्तदोष इति भावः । मुख्यानादित्वासम्भवे हेतुमाह--'प रेण' परमात्मनेति । साम्यं स्वातन्त्र्याविभक्तत्वादिधर्मेण । कस्य स्यात्, न कस्यापि भवेदित्यर्थः । मुख्यनित्येति । देहस्वरूपविशेषैः अविकृतत्वरूपेत्यर्थः । उपलक्षणमेतत् । मुख्यानादिता चेत्यपि द्रष्टव्य म् । अनेन सूक्ष्मरूपेण अनादित्वमेव गौणानादित्वम् । अनादित्वश्रुति रपि तत्परैव । जन्मश्रुतिस्तूपचितस्थूलेन्द्रियपरा । भूतान्येवोपादाना नीति न तदभावोऽपि । स्वातन्त्र्याद्यापत्तेः न मुख्यानादित्वादिसम्भ वोऽपीति सर्वस्योत्तरमुक्तं भवति । परेण साम्येत्यनेन यावद्विकारमि त्यादियुक्तयो गृहीता भवन्ति । भविष्यपर्वणीयस्य उक्तत्वादित्य ध्याहारेणानादीति पूर्ववाक्येनान्वयः । नन्विन्द्रियाणां भूतैरुपचया भ्युपगमे तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् । तैजसानीन्द्रियाण्याहुः ॥ इत्यादितैजसाहङ्कारकार्यत्ववाचिभागवतादिवाक्यविरोध इति चेत्- न, भूतैरुपचयोक्तावप्यत्र अहङ्कारकारणत्वस्यानिषेधात् । तथाऽपि तथा विशिष्टकार्यत्वाद्देवा वैकारिकाः स्मृताः । अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि ॥ तामसानि तु भूतानि ततस्तावद्भूतत्रयम् ॥ इति पाद्मस्मृतौ भूतानां तामसाहङ्कारकार्यत्वोक्तेः । 'तेभ्यो भूतानि जज्ञि रे' (काषायण.) इति श्रुतौ च तेषां प्राणशब्दितेन्द्रियकार्यत्वोक्तेर्विरोध इति चेत्-न, अहङ्कारोत्पन्नभूतानामपि सूक्ष्मप्राणैरुपचयाभ्युपगमात् ।
[ अधि - २. सू - ४. ] दीपिकासहितम्. ६४१ इति हि भविष्यत्पर्वणि ॥ २ ॥ ( ६ ) सू—ॐ ॥ प्रतिज्ञानुपरोधाच्च ॥ ॐ ॥ ३ ॥ ' स इदं सर्वमसृजत ' ( तै. २-६. ) इति ॥ ३॥ —::- २. अधिकरणम् ॥ ( १ ) 'त्रिधा हैवेन्द्रियाणि नित्यान्यनित्यानि च । तत्र नित्ये ननु तथाऽपि 'तेषां भूतैरुपचयः' इतीन्द्रियाणां भूतकार्यत्वोक्तेः 'तेभ्यो भूतानि' इति भूतानामिन्द्रियकार्यत्वोक्तेः विरोध इति चेत्—न, यतः 'तेभ्यो भूतानि' इति वाक्यं भूतेभ्योऽपि पूर्वमुत्पन्नानां महदादितत्त्वा भिमानिनां देवानां इन्द्रियादिव्यापारैः भूतोत्पत्तिपरम्, न तु तत्त्वरूपे न्द्रियैः। यथोक्तं तत्त्वप्रदीपे—तात्त्विकदेवोत्तमानां प्राकृते देहाधिष्ठिते न्द्रियव्यापारपूर्वकत्वाद्भूतसृष्टेः भूतकारणत्वव्यपदेशोपपत्तिरिति । य द्वा—सूक्ष्मप्राणैरिति टीकोक्तेः तत्त्वरूपेन्द्रियैरेव सूक्ष्मभूतानामुपचयः। 'तेषां भूतैरुपचयः' इत्यनेन तु सूक्ष्मसृष्टिकाले जीवेन्द्रियाणां भूतसू क्ष्मैरेवोपचयः कथ्यते इति न तत्त्वरूपेन्द्रियाणां, तेषां पूर्वोत्पन्नत्वेन प श्चादुत्पन्नभूतैरुपचयायोगात् । न च जीवेन्द्रियाणामपि कथं भूतैरुप चयः, तद्कार्यत्वादिति वाच्यम् । जीवानां सूक्ष्मसृष्ट्युक्तेरेव तज्ज्ञाप कत्वात् । यद्वा—तत्त्वरूपाणां अहङ्कारोत्पन्नानां भूतानां सूक्ष्मप्राणैरुप चयवत् तत्त्वरूपेन्द्रियाणामपि भूतसूक्ष्मैरुपचयोऽस्तु, अन्योन्यसूक्ष्मै रुपचये बाधकाभावात् ॥ ( ६ ) वियदधिकरणोक्तप्रतिज्ञाहानियुक्त्या इन्द्रियाणां उत्पत्तिं स मर्थयत्सूत्रं पठित्वा व्याचष्टे—प्रतिज्ञेति ॥ इतीत्यन्तस्य सूत्रेणान्वयः। चशब्दोऽनेन स्मारितप्रतिज्ञाहान्याख्यपूर्वोक्तयुक्तिसमुच्चये, विभक्त शक्तत्वादियुक्तिसमुच्चये वा । हेतोः पूर्वेणान्वयः । तथा च प्राणानां उत्पत्त्यङ्गीकारे 'स इदम्' इति प्रतिज्ञानुपरोधात् अनुपहतेस्तदनु साराद्योत्पत्तिमन्तः प्राणा इति सूत्रार्थः । 'स इदम्' इति श्रुतिस्तु वियदधिकरणे व्याख्याता ॥ १ ॥ ॥ इति प्राणोत्पत्त्यधिकरणम् ॥ —::— २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मनोजन्मविषयश्रुतिविरोधः परिह्रियते । पूर्व ८१
६४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] मनोऽनादित्वात् । न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्य- न्यानि' इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्ति- का श्रूयते । ( २ ) अत आह— सू—ॐ ॥ तत्प्राक् श्रुतेश्च ॥ ॐ ॥ ४ ॥ 'मनस्सर्वेन्द्रियाणि च' (मु. २-१-३.) इति पूर्वोक्त- त्वान्नानुत्पत्तिर्मनसो युज्यते । पक्ष्यति—द्विधेति ॥ अत्र मनसोऽनुत्पत्तिरिति पूर्वपक्षप्रतिज्ञा । कुत इत्यतः तत्र हेतुत्वेन द्विधेत्यादिकं योजनीयम् । यत इति शेषः । तथा च यतो गौपवनश्रुतौ मनसोऽनुत्पत्तिः 'श्रूयते' प्रतिपाद्यते अत इ- ति योजना । न चात्र नित्यत्वमेवोच्यते, नानुत्पत्तिरिति वाच्यम् । नि- त्यमित्यस्यानुत्पत्तिमदित्यर्थाश्रयणात् । न च साध्याविशेषः, अनादि- त्वादित्यस्य अनादिपुरुषसम्बन्धित्वादित्यर्थाश्रयणात् । यद्वा—अना- दित्वादित्यस्यैव अनुत्पत्तिमत्त्वादित्यर्थाश्रयणादत एवानुत्पत्तिसिद्धिः। तत एव टीकायां 'नित्यं मनोऽनादित्वात्' इति श्रुतेरिति हेतुवाक्यम- पि गृहीतम् । ननु 'एतस्मात्' इति श्रुत्यनुसारेणेन्द्रियानुत्पत्तिश्रुति- वदनादित्वश्रुतेः गौणार्थत्वं किं न स्यादित्यत आह--सयुक्तिकेति । युक्त्यभिधानसहितेत्यर्थः । अनुत्पत्तिश्रुतेः विशेषणमेतत् । द्विधैवेति सम्बन्धः । हिशब्दः प्रसिद्धौ । 'तत्र' नित्यानित्ययोर्मध्ये । तथा च 'द्विधा' इति वाक्ये मनोभिन्नेन्द्रियाणामनित्यत्वमुक्त्वा विशिष्य म- नसो नित्यत्वाभिधानात् अनादित्वहेतोः असिद्धिशङ्कायां 'न ह्यमनाः' इति विपर्ययपर्यवसानसूचितात्कदाचिन्मनोहीनेन अनादिपुरुषेण अ- वस्थातव्यं स्यात्, तथात्वे च तदा संसाराभावप्रसङ्गादित्यनिष्टप्रसङ्गा- भिधानाच्च युक्तिरुक्तेति भावः । अनेन युक्तियुक्तानादित्वश्रुतेः प्रा- बल्यात्तद्विरोधेनोत्पत्तिश्रुतेरप्रामाण्यात् न श्रुतिसमन्वयेनेश्वरस्य जग- त्कारणत्वसिद्धिरिति पूर्वपक्षो दर्शितः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीति । इ- ति श्रुतावन्येन्द्रियेभ्यः पूर्वोत्पन्नतयोक्तत्वान्नानुत्पत्तिर्मनसो युज्यत इ- त्यन्वयः । नेत्यादिना प्रतिज्ञाध्याहारो दर्शितः । अत्रोत्पन्नतवेनोक्तत्वमे- व लिङ्गम् । पूर्वोत्पन्नत्वं तु पृथगभिधानस्य वैयर्थ्यशङ्कापरिहारक- मिति ध्येयम् ॥
[अधि - २. - सू - ४.] दीपिकासाहितम्. ६४३ (३) पूर्वं मनस्समुत्पन्नं ततोऽन्येषां समुद्भवः । तदनुत्पत्तिवचनमल्पोपचयकारणात् ॥ (३) ननु कुतो मनसः पूर्वोत्पत्तिस्सिध्यति । न च श्रुतौ पूर्वनि र्देशात्तत्सिद्धिः, तस्याप्रयोजकत्वात् । कथं चोत्पत्त्यङ्गीकारे श्रुतियु क्तिविरोधपरिहार इत्यतः तदुत्तरत्वेन चशब्दं व्याचष्टे - पूर्वमिति ॥ अन्येन्द्रियेभ्यः पूर्वमित्यर्थः । 'समुत्पन्नं' उपचितरूपेणेति शेषः । 'ततो' मनउत्पत्त्यनन्तरं 'अन्येषां' मनोभिन्नेन्द्रियाणां 'समुद्भवः' समुत्पत्तिः । तर्हि श्रुत्यादिविरोध इत्यत आह- तदिति । यतस्तस्य मनसोऽनुत्पत्तिवचनं नित्यत्ववचनं अनादित्ववचनं वा 'अल्पोपचय कारणात्' इतरेन्द्रियवन्मनसो भूतादिबहुभागैरुपचयाभावात्रिचित्ता दृनेन ज्ञापितादितरेन्द्रियवत्प्रलयेऽपि सूक्ष्मरूपेण सत्त्वाद्धेतोरुपपद्य ते । एवं 'तदनुत्पत्तिवचनं' विशिष्य मनसो नित्यत्वाभिधानरूपा यु क्तिः 'अल्पोपचयकारणात्' अन्येन्द्रियेभ्योऽल्पोपचयान्निमित्तादुपप द्यते । अतो न तद्विरोध इत्यर्थः । अनेनानादिनित्यत्ववचनस्य सूक्ष्मरू पविषयत्वमुक्तं भवति । न च सूक्ष्मरूपेणानादिपुरुषसम्बन्धिनोऽपि मनसः कदाचिदेवोपचयरूपोत्पत्त्यङ्गीकारे उपचयात्पूर्वं संसाराभाव प्रसङ्गः, उपचितमनस एव संसारबीजत्वादिति वाच्यम् । प्रतिसृ ष्टिकाले उपचयसत्त्वात् तदैव हि संसारो, न प्रलये, तदा उपचया भावेऽपि दोषाभावादित्युक्त एव परिहारः । 'वायुप्रोक्तवचनम्' वा युप्रोक्ताख्यग्रन्थवचनं सौत्रचशब्देन सूचितमित्यर्थः । अनेन - नानुत्पं त्तिर्मनसो युज्यते । कुतः ? 'तच्छ्रुतेः' 'मनस्सर्वेन्द्रियाणि च' इ त्युत्पत्तिश्रुतिसद्भावात् । न च छत्रिन्यायेन इयमुपचरितेति वाच्यम्। 'तत्प्राक्छुतेः' तस्य मनसः पृथग्जन्मश्रुतेः । अस्याः राजा छत्री या ति, अन्ये छत्रणो यान्तीतिवद्विशेषश्रुतित्वेनेन्द्रियाणि जायन्ते इत्येता वन्मात्रोक्तिरूपसामान्यौक्तित्वाभावादिति भावः । न चेतरेन्द्रियवन्म नसोऽप्युत्पत्तिमत्त्वे पृथगुत्पत्तिश्रुतिर्व्यर्धेति वाच्यम् । 'तत्प्राक्छुतेश्च' तच्छ्रुतेश्च मनसः पृथगुत्पत्तिश्रुतेरपि तेभ्योऽन्येभ्यः प्रागुत्पन्नतत्वाभि प्रायेणोपपन्नत्वात् । ननु कुतो मनसः पूर्वोत्पत्तिः ज्ञायते, श्रुतौ प्राङ्कि र्देशमात्रस्य नियामकविशेषप्रमाणं विना प्रागुत्पन्नतत्वानिश्चायकत्वा
[६४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]]
इति वायुप्रोक्तवचनं चशब्देन सङ्गृहीतम् ॥ ४ ॥ —— ३. अधिकरणम् ॥ ( १ ) ‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युतम् । इति । वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिःप्रतिष्ठते’ इत्याशङ्कापरिहारकवायुप्रोक्तवचनसङ्ग्रहाय चशब्द इति सूत्रार्थ उ- क्तो भवति ॥ २ ॥ ॥ इति तत्प्रागधिकरणम् ॥ —··— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे वागुत्पत्तिश्रुतेरनुत्पत्तिश्रुत्या विरोधः परिह्रिय- ते । पूर्वपक्षयति—नित्ययेति ॥ वाचोऽनुत्पत्तिरेव भवेत् । कुतः ? यतो ‘नित्यया’ इति पौष्यायणीश्रुतौ ‘वाग्वाव नित्या न ह्येषोत्पद्यते’ इति वाक्येन वाचोऽनुत्पत्तिरुच्यते इत्यन्वयः । अत्र नित्यत्वमविनाशित्वं, तत्र हेतुः—न हीति । नन्वनुत्पत्तिवदुत्पत्तेरपि ‘सर्वेन्द्रियाणि च’ इ- ति श्रुत्युक्तत्वात् सत्प्रतिपक्षितेयं श्रुतिर्न निर्णयकरीत्यत आह—स- युक्तिकमिति । ‘अस्यां हि’ इति वाक्यबोध्यनित्यवेदाश्रयस्यानित्य- त्वासम्भवद्रूपतर्कसहितश्रुत्याश्रयत्वरूपयुक्तिसाहित्येनेत्यर्थः । उच्य- त इति क्रियाविशेषणमेतत् । तथा चानुत्पत्तिश्रुतेः अधिकबलत्वात् न सत्प्रतिपक्षित्वमिति भावः । ननु नित्ययाऽनित्यया स्तौमि ब्रह्म तत्परमं पदम् । इति ॥ श्रुतिर्वाव नित्या अनित्या वाव स्मृतयः ॥ इति पैङ्गिब्राह्मणे ‘नित्यया’ इति मन्त्रमुदाहृत्य तद्गतनित्यानित्यशब्द- योः श्रुतिस्मृतिविषयत्वेन व्याख्यातत्वात् तत्समाख्यानात् सामान्य- वाक्शब्दस्य विशेषार्थकल्पनोपपत्तेरुत्पत्तिश्रुत्यनुकूल्याच्चात्रत्यवाक्श- ब्दो वेदपर एव, न वागिन्द्रियपरः । तथा च नेयं वागनुत्पत्तिसाधके- त्यतोऽप्याह—सयुक्तिकमिति । श्रुतिविशेषणमेतत् । तथा च विशेषश्रु- तित्वाख्ययुक्तिसहितश्रुतित्वादित्यर्थः । तथा च ‘अस्यां हि श्रुतिःप्रतिष्ठ- ते’ इति वाक्यशेषे वेदे असम्भाव्यमानवेदाश्रयत्वोक्त्या तद्बलात् ‘वाग्वाव’ इति श्रुतेः विशेषश्रुतित्वात् अत्रत्यवाक्शब्दो वागिन्द्रिय- पर एव, न वेदपर इति भवत्येवेयं श्रुतिः अनुत्पत्तिसाधकेति भावः ।
[ अधि - ३. सू - ५. ] दीपिकासहितम्. ६४५
इति सयुक्तिकं पैङ्गायणिश्रुतौ वाचोऽनुत्पत्तिरुच्यते । ( २ ) अतो ब्रवीति — सू— ॐ ॥ तत्पूर्वकत्वाद्वाचः ॥ ॐ ॥ ५ ॥ नन्वियं श्रुतिः इतरेन्द्रियवत् वाचस्सूक्ष्मरूपानादित्वपरा किं न स्यात् । न च नित्याश्रयत्वयुक्तिविरोधः । तस्या अपि सूक्ष्मरूप- नित्यत्वेनोपपत्तेः । एवमुत्पत्तिश्रुत्यानुकूल्यादुपचयोऽप्यस्तीत्यतो वा ऽऽह—सयुक्तिकमिति । यतः 'सयुक्तिकं' श्रुत्याश्रयत्वयुक्तिस- हितं यथा भवति तथा अनुत्पत्तिरुच्यते अत इत्यर्थः । अयं भावः—अ- स्यां हीति वाक्यशेषे तावच्छ्रुत्याश्रयत्वमुच्यते । श्रुत्याश्रयत्वं ना- म नित्यं श्रुत्युच्चारणसामर्थ्यमेव, न तु श्रुत्याधारत्वमात्रम् । अ- न्यथा श्रुतेर्वर्णात्मकत्वात् वर्णानां च नित्यसर्वगतत्वात् विशिष्य वागाश्रयत्वोक्तिर्व्यर्था स्यात् । नित्यं वेदोच्चारणसामर्थ्ये च सूक्ष्म- रूपानादित्वे न घटते । तथा सत्युपचयदशायामेव वाचः श्रुत्युच्चा- रणसामर्थ्यं नान्यदेति स्यात्, किन्तु स्वरूपानादित्वे । एवं चेन्नोपच- यः कल्प्यः व्यर्थत्वात् । तथा च अत्र श्रुतश्रुत्याश्रयत्वान्यथाऽनुपप- त्त्या स्वरूपानादित्वपरैव अनुत्पत्तिश्रुतिः, न सूक्ष्मरूपानादित्वपरा, अ- तस्तद्विरोधादुत्पत्तिश्रुतिः अप्रमाणमेवेति । श्रुतौ नित्या अनित्ययेति पदच्छेदः । स्तौमीति मन्त्रद्रष्ट्रऋषिणा उच्यते । परमात्मानमित्यनेन पैङ्गिश्रुतिव्याख्येयमन्त्रादयमन्यो मन्त्रः तद्गतब्रह्मपदविवरणरूप इ- ति सूचितम् । अच्युतमित्यनेन तद्गतं परमं पदं इत्येतद्विवृतम् । ना- शरहितस्यैव मुख्यतो गम्यत्वात् । इतिशब्दो मन्त्रप्रतीकग्रहणार्थः । एवं मन्त्रमुदाहृत्य तद्गतनित्यशब्दविशेष्यं दर्शयति—वाग्वावेति । नि- पातसमुदायः प्रसिद्धौ । नित्यत्वे हेतुमाह—नेति । हिः हेतौ । 'एषा' वागित्यर्थः । केचित्तु—इह नित्यत्वमनुत्पत्तिमत्त्वं, तत्र अनुत्पन्नत्वेन प्रसिद्धत्वं हेतुः । प्रसिद्धिर्हिशब्दार्थः । अवधारणार्थो निपात इत्याहुः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ इतीत्यनन्त- रं श्रुताविति शेषः । मनःपूर्वकत्वादिति । मनःकारणकत्वोक्तेरित्यर्थः । 'वाचो' वागिन्द्रियस्य 'नानुत्पत्तिः' नाकार्यत्वमित्यर्थः । कारणव- तः कार्यत्वनियमादिति भावः । अनेन सूत्रे नेत्यध्याहार्यम् । तथा च वाचः 'तत्पूर्वकत्वात्' प्रकृतमनःकारणत्वोक्तेर्नानुत्पत्तिरिति सूत्रार्थ उक्तो भवति । यद्यपि 'तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ' इति
६४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ‘ तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ’ ( ऐ.आ. ३- १-१०.) इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः । ( ३ ) वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता । उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन ॥ भाष्योदाहृतैतरेयश्रुतेः तद्भाष्ये मनोवाङ्नामकतदन्तर्गतरूपयोर्विष्णु- नामगतपूर्वोत्तरवर्णदेवतात्परत्वमुक्तमिति नास्याः प्रकृतोपयोगिता । तथाऽपि ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति प्रतिज्ञावाक्योपपादके ‘मन सा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ ( ऐ.आ.३-१-१.) इति वा क्ये भाष्यस्थेनेतिशब्देन गृहीते वाक्शब्दस्य साधारणतापरिहाराय टी काकृतोदाहृते वाक्ये स्थितयोः पूर्वोत्तरशब्दयोः कार्यकारणपरत्वात्प्र कृतोपयोगितोपपत्तिः । यद्वा—भगवद्रूपाधिष्ठानयोरपि मनोवागिन्द्रि ययोः इह वाच्यत्वात्तद्विवक्षया कार्यकारणभाव इहोक्त इति प्रकृतस ङ्गतिः । अत एव टीकायां अत्र पूर्वोत्तरशब्दावित्युक्तम् । उपपादकवा क्ये वा प्रतिज्ञावाक्ये वेति तदर्थः । अस्मिन्नधिकरण इत्यप्यर्थः ॥ ( ३ ) वागिन्द्रियस्योत्पत्त्यङ्गीकारे ‘न ह्येषोत्पद्यते’ ( पौष्यायण. ) इति श्रुतिविरोधः, ‘ अस्यां हि ’ ( पौष्यायण. ) इत्युक्तयुक्तिविरोधश्चे त्यत आह—वागिन्द्रियस्येति ॥ यतो नित्यश्रुतिसन्निधियोग्यता ( नित्यं श्रुत्युच्चारणहेतुता योग्यत्वम् ) वागिन्द्रियस्य नित्यत्वं नित्यत्वा नादित्वोक्तेरुपचरितत्वे बीजमस्ति, अतो वागिन्द्रियस्य नित्यत्ववचनं प्रवृत्तम्, न तु मुख्यनित्यत्वं तदर्थः । तथा च श्रुतेरुपचरितार्थत्वान्न त द्विरोध इति भावः । ननु कादाचित्कं श्रुतिसन्निधानं कथं सार्वकालिक कनित्यत्वोक्तेरुपचारबीजं भवतीत्यतो योग्यतेत्युक्तम् । तथा च श्रुति सन्निधेः कादाचित्कत्वेनोपचारबीजत्वानुपपत्तावपि तद्योग्यत्वस्य सार्वकालिकत्वाद्युक्तमुपचारबीजत्वम् । अत एव श्रुत्याश्रयत्वमपि न नित्यदा, किन्तु तद्योग्यतैव । अतो न नित्याश्रयत्वमात्रेणाश्रयनित्य त्वाक्षेपः, अनित्यस्यापि तत्सम्भवात्, अपि तु नित्यदा नित्याश्रयत्वं, तच्च वाचि नास्त्येवेति न तेन नित्यत्वाक्षेपो युक्तः । अत एव नोपच यवैयर्थ्यम् । उपचयदशायामेव श्रुत्याश्रयत्वात् श्रुत्युच्चारणसमर्थत्वा दन्यदा सामर्थ्याभावादिति भावः । अनेन नित्यं श्रुत्युच्चारणसामर्थ्य स्योपपत्तिरुक्ता भवति । कुत एवं कल्प्यते ? स्वरूपनित्यत्वमेव किं
[ अधि - ४. - सू - ६. ] दीपिकासहितम्. ६४७ इति वायुप्रोक्ते ॥ ५ ॥ —: ❖ :— ४. अधिकरणम् ॥ ( १६) 'सप्त प्राणाः प्रभवन्ति तस्मात्' ( मु. २ - १ - ८. ) इति श्रुतिः । सप्तैष मारुता बाह्ये प्राणास्सप्त तथाऽऽत्मनि । नेष्यत इत्यत आह—उत्पत्तिरिति । मनस इति न षष्ठी, किन्तु पञ्च- मी । वागिन्द्रियस्येत्यस्ति । ज्ञायत इति शेषः । 'कुतश्चन' 'न हि' इति विशेषश्रुत्या श्रुत्याश्रयत्वयुक्त्या चेत्यर्थः । सिध्यतीति शेषः । यद्वा—यस्माद्वागिन्द्रियस्य मनस उत्पत्तिरवगम्यते तस्मादेवम- भ्युपगम एव 'नित्यत्वं' 'वाग्वाव' इति नित्यत्वश्रुतिरुपचरितनि- त्यत्वार्थतयोपपन्ना भवति, न मुख्यनित्यत्वे 'कुतश्चन' कथमप्युपप- द्येत्यर्थः । न चोत्पत्तिमत्त्वेनानुत्पत्त्यभाव एव साध्यो नानुत्पत्तिरिति तस्यैव प्रतिज्ञातत्वात्, नानित्यत्वं ध्वंसे व्यभिचारादिति वाच्यम् । अत्र सर्वत्र नित्यानित्यशब्दयोरनुत्पत्त्युत्पत्तिमदर्थकत्वात् । इतीति । इ- त्येवं वायुप्रोक्ताख्यग्रन्थे उक्तत्वान्न विरोध इत्यर्थः । अनेन सिद्धान्ते वाङ्नित्यत्वोक्तेरुपचारबीजोपपादकं 'अस्यां हि' इति भाष्यं 'अस्यां हि स्मृतिरवतष्ठिते' इत्यनित्यत्वोपचारबीजकथनवाक्यस्याप्युपलक्षक- म् । तथा च अहं नित्यवेदाश्रयत्वान्नित्यया अनित्यपुराणाद्याश्रयत्वा- दनित्यया वाचा परमात्मानं स्तौमीति श्रुत्यर्थ उक्तः । एतेन ब्रह्मशब्द- घटितसमाख्याश्रुत्यनुरोधोऽपि दर्शितः । नित्यानित्यशब्दयोर्वेदपुरा- णार्थत्वत्वाविघातेनैवास्या व्याख्यानात् ॥ ३ ॥ ॥ इति तत्पूर्वकत्वाधिकरणम् ॥ —-:-:-— ४. अधिकरणम् ॥ ( १ ) अत्र प्राणसङ्ख्याविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति—सप्तेति ॥ आथर्वणीयं श्रुतिः । 'प्राणाः' इन्द्रियाणि 'तस्मात्' परमात्मनः । श्रुतिरित्यनन्तरं प्राणा- नां सप्तत्वं वक्तीति शेषः । न केवलमिन्द्रियाणां सप्तत्वं श्रुतिसिद्धं, किन्तु युक्तिसिद्धं चेत्याशयेन प्रमाणोक्त्या तां दर्शयति—सप्तैवेति । यस्मात् 'बाह्ये' देहाद्बहिः स्थिताः 'मारुताः' मरुत्संज्ञिकाः इन्द्रिया-
अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः ॥ इति च स्कान्दे । (२) ‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादश राशयो द्वादश ग्रहाः ' इति कौण्डिन्यश्रुतौ द्वा दश प्राणा दृश्यन्ते । भिमानिनो देवाः सप्तैव । तथा तस्य 'आत्मनि' देहे स्थिता अपि प्रा- णास्सप्तैवेत्यर्थः । नन्वप्रयोजकोऽयं हेतुरित्यत आह--अधिदैव इति । तथाशब्दः समुच्चये । तथा च यस्मात् 'अधिदैवे' देहाद्बहिर्गतेष्वभि- मानिदेवेषु 'अध्यात्मे' देहान्तर्गतेष्वभिमन्यमानेषु च 'सङ्ख्यासाम्यं' समसङ्ख्याकत्वं 'विदो' ज्ञानिनो 'विदुः' जानन्ति तस्मादित्यर्थः । स्कान्द इत्यनन्तरं उक्तिश्चेति शेषः ॥ (२) 'द्वादश वा' इति श्रुतौ वैशब्दः प्रसिद्धौ । प्राणशब्दितेन्द्रि- याणां द्वादशत्वं कुत इत्यतस्तत्र हेतुमाह-द्वादशेति ॥ इदं च यतो मासादयो द्वादशैव, अतः प्राणा अपि द्वादशैवेति हेतुहेतुमद्भावेन यो- ज्यम् । अत्राप्रयोजकताशङ्कायां 'द्वादश मासाः' इति श्रुतेर्मासादीनां प्राणानां चादित्याख्यसमसङ्ख्यदेवताकत्वाभिप्रायेण प्रवृत्ततया प्राणा- भिमानिनां द्वादशत्वावगतेस्तेषां च द्वादशत्वे तदभिमन्यमानानां प्रा- णानामपि द्वादशत्वसिद्धेरिति हेतुरभिप्रेतो बोध्यः । अत एव 'द्वाद- श मासाः' इत्यादिवाक्यशेषोपन्यासः । 'ग्रहाः' सोमस्य द्वादशऋ- तुयाजग्रहाः मध्वादिद्वादशमासोद्देश्या इति तत्त्वप्रदीपोक्तेः । तस्याः षडृतुप्रविष्टत्वेन ऋतुशब्दवाच्यमध्वादिप्रसिद्धितश्चैत्रादिद्वादशमासदेव- तोद्देश्यकयागार्थाः सोमरसग्रहणार्थपात्रविशेषा इत्यर्थः । 'ऋत्वधिपो विष्णुः केशवादिस্বরূপतः । ग्रहाश् सोमस्य' इति ऋग्भाष्योक्तेः । ए- कैकस्य ऋतोर्मासभेदेन द्विरूपत्वाद्देवतानां केशवादीनां तदुद्देश्यानां ग्रहाणामपि द्वादशत्वमिति भावः । चन्द्रिकायां तु ज्योतिष्टोमे सोमर- सग्रहणार्थाः सूक्ष्मोलूखलाकाराः पात्रविशेषाः द्वादश सन्ति । अत ए- व ग्रहणक्रिया अपि द्वादशसङ्ख्याकाः । तेचोपांश्वन्तर्यामैन्द्रवायवमै- त्रावरुणाश्विनाः पञ्च, शुक्रामन्थिनौ द्वौ, ऋतुपात्रे द्वे, अतिग्राह्या ना- म त्रयः इत्येवंरूपाः । यद्यप्यंश्वदाभ्यावपि तत्र ग्रहौ स्तः । तथाऽपि तयोः अनित्यत्वात् सदनोपस्थानाद्यभावाच्च नित्यसदनादियुक्तग्रहवि- वक्षया द्वादशत्वोक्तिरित्युक्तम् । अत्र तत्त्वप्रदीपे 'षडृतुनेति यजन्ति
[ अधि - ४. सू - ६. ] दीपिकासहितम्. ६४९ ( ३ ) अतो वक्ति— सू—ॐ ॥ सप्त गतेर्विशेषितत्वाच्च ॥ ॐ ॥ ६ ॥ ज्ञानेन्द्रियापेक्षया सप्तत्वम् 'गुहाशयां निहिताः सप्त सप्त' (मु. २-१-८.) इति विशेषणात् ॥ प्राणमेव तद्यजमाने दधति । चत्वारि ऋतुभिरित्यपानमेव तद्य- जमाने दधति। द्वयर्तुनेत्युपरीष्टात्' ( ) इति श्रुत्युदाहरणा- च्च ज्योतिष्टोमयागादन्ययागार्थाः पात्रविशेषाः इहोपात्ता इति प्रती- यते । अत्र विशेषो नावबुद्धः । दृश्यन्त इत्यनन्तरं अतो विरोध इति वाक्यशेषः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ज्ञानेन्द्रिया- पेक्षयेत्यनेन सूत्रे सप्तेति श्रुतिप्रतीकग्रहणम् । गतेरिति ल्यब्लोपनिमि- त्ता पञ्चमी । गतिशब्दश्च ज्ञानसाधनेन्द्रियपरः । तथा च गतिमपेक्ष्य ज्ञानकरणेन्द्रियाण्यपेक्ष्य 'सप्तत्वम्' सप्तेतिश्रुतिः प्रवृत्तेति सौत्रप्रतिज्ञां- शो व्याख्यातः । 'गतेः' ज्ञानस्य सम्बन्धिनः प्राणास्सप्तेति व्याख्या तु न भाष्यटीकानुसारिणी। सप्तत्वमित्यनन्तरं अतो न विरोध इति वाक्यशे- षः। श्रुत्युक्तानां सप्तानां ज्ञानेन्द्रियत्वं कुतः इत्यतः प्रवृत्तं विशेषित- त्वादित्यंशं व्याख्याति—गुहाशयामिति । आथर्वणे 'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्यनन्तरं श्रुते सप्तार्चिषः सप्तसमिधः सप्त होमाः । सप्तेमे लोका येषु चरन्ति प्राणाः गुहाशयां निहितास्सप्तसप्त ॥ (मु. २-१-८.) इति वाक्यशेषे श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां सप्तानामिन्द्रि- याणां ज्ञानार्थत्वविशेषणेन विशेषितत्वादित्यर्थः । श्रुतौ गुहाशयामि- ति पदं 'गुहाशयां' गुहाशयायां बुद्धौ तदर्थे निहिताः 'समाने लो- पः' इति एकयकारलोप इत्याथर्वणभाष्योक्तरीत्या तादर्थ्यसम्बन्ध- तया व्याख्येयम् । यद्वा—गुहाशयामित्युद्देश्यद्वितीया । तां बुद्धिं प्रती- ति तत्त्वप्रदीपोक्तेः। अथवा-गुहाशयेति प्रथमा द्वितीयार्थे, सप्तम्यर्थे वा । सप्तम्यर्थे प्रथमेति तत्त्वप्रदीपोक्तेः । प्राणानां प्रतिपुरुषं भेदात् सप्त सप्तेति वीप्सा । तथा च 'तस्मात्' पुमान् रेतस्सिञ्चति योषितायाम्' (मु.२-१-५०) इति पूर्ववाक्ये प्रकृतात् रमाख्ययोषिति गर्भाधानकर्तुः ८२
६५० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ४ ) सप्तप्राणास्त्ववगतेः पञ्च प्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम् । इति भविष्यत्पर्ववचनं चशब्दात् ॥ ६ ॥ ( ५ ) सू— ॐ ॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ ॐ ॥ ७ ॥ हस्तादीनां कर्मविषयत्वाच्च सहपाठः ॥ परमपुरुषात् 'सप्त' सप्तसङ्ख्याकाः 'प्राणाः' इन्द्रियाणि 'प्रभवन्ति' प्रजज्ञिरे । एवं 'सप्ताचिषः' सप्तेन्द्रियवृत्तयः 'समिधो' विषयाः 'स- प्तहोमाः' सप्त विषयेन्द्रियसम्बन्धाः प्रजज्ञिरे । 'गुहाशयां' गुहा हृ- दयं आशयः स्थानं यस्याः बुद्धेः सा तथोक्ता, तस्यां तदर्थं तां प्रति त- दर्थमिति वा । तथा च प्रतिशरीरं बुद्धयर्थं ये परमपुरुषात् 'निहिताः' स्थापिताः 'सप्तसप्त' प्राणाः ते 'यत्र' येषु लोकेषु गोलकेषु सञ्चर- न्ति, त इमे लोकाः सप्तेति श्रुत्यर्थः ॥ ( ४ ) मन्वस्तु सप्तानामिन्द्रियाणां ज्ञानविशेषणबलेन ज्ञानार्थत्वं, तथाऽपि ते प्राणाः सप्तसङ्ख्याका एव किं नस्युः । किमिति तेषां द्वाद- दशत्वमङ्गीकृत्य सप्तश्रुतेः सावकाशत्वकल्पनमित्याशङ्कां चशब्दोपात्त- स्मृत्या निराह—सप्तेति ॥ चशब्दादिति । सौत्रचशब्दादित्यर्थः । सङ्गृ- हीतमिति शेषः । 'अवगतेः' ज्ञानस्य सम्बन्धिनः प्राणाः सप्त । एवं क्रियारूपकर्मणः सम्बन्धिनस्तज्जनकाः प्राणाः पञ्च । एवं प्राणद्वादश- कं प्रतिशरीरं नियमेन संस्थितमित्यर्थः । तुशब्दो विशेषद्योतकः । च- शब्दस्समुच्चयार्थः । यद्यपीयं स्मृतिः ज्ञानेन्द्रियत्वकर्मेन्द्रियत्वरूपाव- च्छेदकप्रदर्शनेन सप्तत्वपञ्चत्वोक्तयोः सावकाशत्वं कथयन्ती बाधक- परिहाररूपैव, न तु द्वादशत्वसाधिका । तथाऽप्यनया सप्तश्रुतौ साव- काशायां 'द्वादश वा एते प्राणाः' (कौण्डिन्य ) इति पूर्वोदाहृतश्रुत्यै- व द्वादशत्वं सिध्यतीति साऽपि चशब्दसङ्गृहीताऽत्रोदाहर्तव्या ॥ ( ५ ) ननु सप्तभ्योऽन्येषां प्राणानां सद्भावेऽप्याथर्वणश्रुतौ तेषां पर- मात्मजन्यत्वेनोच्यमानैः सप्तभिः 'सह सप्त पञ्च प्राणाः' इति पाठस्स्या- त्। अत्र सहपाठाभावो द्वेधा भवेत् अनादित्वेन वा? परमात्मनस्तदका- रणत्वेन वा ? तदुभयमपि 'तथा प्राणाः' (सू.२-४-१०) इत्युक्तिविरुद्ध- म्। न च सहपाठे कारणान्तरं पश्यामः, न वा परमात्मनः तदकारणत्वे कारणान्तरं पश्यामः । अकारणकार्योत्पत्तिश्चायुक्ता । तस्मात्सहपा-
[ अधि - ४. सू - ७. ] दीपिकासहितम्. ६५१ ( ६ ) संसारस्थितिहेतुत्वात्स्थितं कर्म विदो विदुः । तस्मादुद्धृतिहेतुत्वात् ज्ञानं गतिरिहोच्यते ॥ इति च वायुप्रोक्ते ॥ ७ ॥ ष्ठाभावात् न सप्तभ्योऽन्ये प्राणाः सन्तीत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—हस्तादय इति ॥ आदिशब्देन पादपायुगुह्यवाचो गृह्यन्ते । ‘कर्मविषयत्वात्’ कर्मार्थत्वादिति अतःशब्दव्याख्यानम् । विषयेत्यनेन सप्तम्यर्थः कर्मेत्यनेन स्थितशब्दार्थश्च दर्शितः । सहपाठ इत्यनेनैवंश- ब्दार्थ उक्तः । हस्तादीनां सप्तभिरिति शेषः । अनेन सूत्रे तुशब्दो वैल- क्षण्यार्थः । यत इति शेष इति सूचितम् ॥ ( ६ ) ननु पूर्वसूत्रगतो गतिशब्दो ज्ञानार्थस्सन् तद्द्वारा तत्करण- बोधकः । द्वितीयसूत्रगतश्च स्थितशब्दः कर्मवाचीत्येतत्कुत इत्यत आ- ह—संसारेति ॥ पुरुषस्य संसारस्थितौ हेतुत्वादित्यर्थः । ‘तस्मात्’ संसारात् उद्धृतिरुत्थितिर्मोक्षः तत्कारणत्वादित्यर्थः । ननु मुक्तानां प- रमा गतिर्हरिरेव । सतां गतिरित्यादौ गतिशब्दस्य गम्यार्थत्वात्कथं ज्ञानार्थत्वमित्यत आह—इहेति । एतत्सूत्रे तदनुकूलप्रमाणे चेत्यर्थः । कर्म मानुषमिहाभिप्रेतं, ज्ञानं च तत्त्वविषयमिति तत्त्वप्रदीपोक्तेश्च क- र्मशब्देन मानुषकर्तृकं प्रवृत्तिकर्मोच्यते । तस्यैव बन्धकत्वात् । ज्ञान- शब्देन ब्रह्मज्ञानम् । न च निवृत्तिकर्मणि अब्रह्मज्ञाने च कथं स्थितग- तिशब्दौ, उक्तनिमित्ताभावादिति वाच्यम् । यथा ‘तं प्रपदाभ्यां प्राप- द्यत ब्रह्मेमं पुरुषं .... तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते’ (२-१-४.) इत्यैतरेयश्रुत्युक्तस्य परमात्मकर्तृकतच्छब्दोक्तचतुर्मुखप्राप्तिकरनख- रूपस्य प्रपदशब्दप्रवृत्तिनिमित्तस्य चतुर्मुखपादतलोपरिगतत्वेऽपि त- त्सजातीये पुरुषान्तरसम्बन्धिन्यपि पादतलोपरिभागे प्रपदशब्दः प्रयु- ज्यते । तथेहापि संसारस्थितिहेतुप्रवृत्तिसजातीये निवृत्तिकर्मण्यपि स्थितशब्दः प्रयुज्यते । एवं संसारोद्धृतिहेतुब्रह्मज्ञानसजातीये घटादि- ज्ञानेऽपि गतिशब्दप्रयोगोपपत्तिः । वायुप्रोक्ते ग्रन्थे स्थितगतिशब्दौ कर्मज्ञानार्थावित्युक्तमिति वाक्यशेषः ॥ ४ ॥ ॥ इति सप्तगत्यधिकरणम् ॥ —:*:—
६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ५. अधिकरणम् ॥ ( १ ) ‘दिवीव चक्षुराततम्’ (ऋ. १-२२-२०.) इति व्या- प्तिः प्रतीयते । दूरश्रवणदर्शनादियुक्तिश्च । ( २ ) ‘अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्रा- ५. अधिकरणम् ॥ ( १ ) पूर्वाधिकरणे प्राणसङ्ख्याविषयश्रुतिविरोधः परिहृतः । अ- त्राधिकरणे तत्परिमाणविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं श्रु- तिविगानं दर्शयन् पूर्वपक्षं सूचयति—दिवीवेति ॥ इति श्रुताविति शे- षः । ‘व्याप्तिः’ प्राणानामिति शेषः । चक्षुःपदेन इन्द्रियमात्रोपलक्षणं वा समानन्यायविषयत्वेन वेति भावः । नन्वणुत्वश्रुत्या सत्प्रतिपक्षिते- यं श्रुतिरिति शङ्कापरिहाराय दिवीवेत्यंश उदाहृतः । अनेनास्यां श्रुतौ विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुःपदोपलक्षितेन्द्रियव्याप्तेरुक्तत्वात् सा सिद्धेति प्राणानां व्याप्तौ युक्तिरुक्ता भवति । तथा च व्याप्तत्वश्रु- तेर्युक्तियुक्तत्वान्न सत्प्रतिपक्षितत्वमिति भावः । व्याप्तिश्रुतेः प्राबल्यो- पपादनायैवेन्द्रियव्याप्तौ युक्त्यन्तरमाह—दूरेति । चस्समुच्चये । तथा च किञ्चिद्दूरस्थवस्तुदर्शनं तथा दूरस्थशब्दश्रवणं, आदिशब्दाद् दू- रस्थवस्तुस्मरणं गृह्यते । एतद्रूपा युक्तिः प्राणानां व्याप्तिं साधयती- त्यर्थः । इन्द्रियाणां प्राप्यकारित्वेन व्याप्तिं विना चक्षुश्श्रोत्रमनसासु- क्तकार्याजनकत्वादिति भावः । यथा चक्षुः ‘दिवि’ आकाशे ‘आत- तं’ व्याप्तमपि न दृश्यते, किन्तु विषयोपलब्धिलक्षणेन फलेनानुमीय- ते, तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यं, किन्त्वस्वतन्त्राणां पदा- र्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इति श्रुतितात्पर्यार्थो ऋग्भाष्यटी- कायामुक्तः । अनेनैव व्याप्ता एष प्राणास्तथा श्रुतेर्युक्तेश्चेति सयुक्तिक पूर्वपक्षः सूचितो भवति ॥ ( २ ) एवं व्याप्तिश्रुतिमुदाहृत्याणुत्वेऽपि श्रुतिमुदाहरति—अणुभि- रिति ॥ चः समुच्चये । श्रुतिः प्राणानामणुत्वं वक्तीति शेषः । पुरुषः ‘अणुभिः’ ज्ञानेन्द्रियैः ‘पश्यति’ तत्तदिन्द्रिययोग्यं वस्तु जानाति । एवं ‘अणुभिः’ कर्मेन्द्रियैः तत्तद्योग्यं कार्यं ‘कृणोति’ करोतीत्यर्थः । भावबोधे तु अणुभिः शृणोतीतिपाठमभिप्रेत्य ज्ञानकर्मकरणत्वलिङ्गा- दिति टीकावाक्येन ‘अणुभिः शृणोति’ इत्येतत्सर्वेन्द्रियोपलक्षणमि-
[ अधि - ६. सू - ९. ] दीपिकासहितम्. ६५३ णैर्हेतद्भवति' इति च कौण्डिन्यश्रुतिः । ( ३ ) अतो वक्ति— सू—ॐ ॥ अणवश्च ॥ ॐ ॥ ८ ॥ 'तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्हैवैष पुरुषो भवति' इति शाण्डिल्यश्रुतिः ॥ ८ ॥ —::— ६. अधिकरणम् ॥ ( १ ) 'नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता त्युक्तं भवतीत्युक्तम् । के तेऽणव इत्यतोऽणून् दर्शयति—प्राणा वा अ णव इति । ते चाणवः 'प्राणाः' इन्द्रियाणीत्यर्थः । कुतोऽणवः प्राणा इत्यत आह—प्राणैरिति ॥ 'हि' यस्मात् 'एतत्' पश्यतिकृणोतीत्या भ्यामुक्तं ज्ञानकर्माख्यकार्यं 'प्राणैः' इन्द्रियैरेव भवति तस्मादित्यर्थः॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चोऽवधार णे, समुच्चये च । प्राणा इत्यस्ति । तथा च प्राणाः स्वरूपतोऽणव एव । न चोक्तश्रुतियुक्तिविरोधः । यतो न केवलमणवः, किन्तु प्रकाशतो व्याप्ताश्चेति सूत्रार्थः । अतिसुदृढार्थश्रुतिसिद्धे व्याप्तत्वे सति कुतोऽ णुत्वं प्राणानां, तेजसा व्याप्तिश्चेत्यत आह—तद्यथेति । 'तत्' वक्ष्य माणं निदर्शनं यथेत्यर्थः । 'अणुः' स्वरूपेण 'चक्षसः' चक्षुषः 'प्र काशः' तेजो 'व्याततः' व्याप्तं एवं 'पुरुषस्य' जीवस्य प्रकाशो व्या प्तः । मन्वस्तु अणुत्वात् चक्षुषः प्रकाशव्याप्तिः । जीवस्य कुत इत्यतो ऽस्याप्यणुत्वादित्याह—अणुरिति । 'हि' यस्मात् इति श्रुतिः चक्षुषःप दोपलक्षितानां प्राणानामणुत्वं प्रकाशव्याप्तिं च वक्तीति शेषः । अतो न सूत्रकृदुक्तस्याभावः शङ्कय इति वाक्यशेषः । यद्यप्यत्र श्रुतौ प्रका शव्याप्तावेव चक्षुषः दृष्टान्तत्वं प्रतीयते, न तु जीवस्याणुत्वेऽपि । त थाऽपि प्रकाशव्याप्तिसाधकाणुत्वस्य जीवेऽपि 'अणुर्ह्येषः' इत्यनेनो क्तत्वात्तदंशेऽपि दृष्टान्तत्वमभिप्रेतमिति भावः ॥ ५ ॥ ॥ इति अण्वधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यप्राणजन्मविषयश्रुतिविरोधः परिह्रियते ।
६५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] अथैनमाहुर्मध्यमः' इति मुख्यप्राणस्यानुत्पत्ति इभूयते । ( २ ) यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥ इति च युक्तिर्वायुप्रोक्ते । 'आत्मत एष प्राणो जायते' ( प्र. ३-३० ) इति च । 'एतेन' इत्यधिकरणे बाह्यमुख्यवायुरुत्पत्तिविचारः कृतः । इह तु आ- ध्यात्मिकमुख्यवायुरुत्पत्तिविचार इति वा तत्र भूतप्रकरणत्वात् भूतमु- ख्यवायोः सम्मुग्धो विचारः । अत्र पुनः केवलो मुख्यविषय इति वा पूर्वस्मादस्य भेद इत्युक्तं तत्त्वप्रदीपे । मुख्यप्राण उत्पत्तिमान्न वेति सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—नेति ॥ 'एषः' मुख्यप्राणो 'नोदेति' नोत्पद्यते 'अस्तं' नाशं च '
[ अधि - ६. सू - १०. ] दीपिकासहितम्. ६५५ ( ३ ) अत आह— सू—ॐ ॥ श्रेष्ठश्च ॥ ॐ ॥ ९ ॥ ‘ सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सू- क्ष्मश्चाथो स्थूलश्च । प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽ- थैनमाहुः सादिरनादिरिति ’ गौपवनश्रुतेः ॥ ९ ॥ ( ४ ) सू—ॐ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ॐ ॥ १० ॥ चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते । ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चः समुच्च- ये । तथा च यथेतेरे प्राणाः परमात्मन उत्पद्यन्ते तथा प्राणेषु ‘श्रेष्ठो’ मुख्यप्राणोऽपि परमात्मन उत्पद्यत इत्यर्थः । तत्त्वप्रदीपे तु उत्पद्यतेऽनु- त्पद्यते चेति चशब्दार्थ उक्तः । ननु कुतो मुख्यप्राणस्योत्पत्तिः । तद- ङ्गीकारे अनादित्वश्रुतिविरोधः इत्यत आह—सौक्ष्म्येणेति । सूक्ष्मरूपे- णैत्यर्थः । हेत्यास्वादने, प्रमाणप्रसिद्धौ वा । वैशब्दोऽवधारणे । ‘एषः’ मुख्यप्राणः ‘ अवतिष्ठते ’ सर्वदा तिष्ठति । ‘ स्थूलत्वेन ’ स्थूलभावेन तद्रूपेण ‘ उदेति ’ कदाचिदुत्पद्यते ‘ अथो ’ तस्मात् सूक्ष्मत्वेन सर्व- दा स्थितत्वात् स्थूलरूपेण कदाचित् उदितत्वाच्चासौ प्राणः सूक्ष्मः स्थूलश्चेत्युच्यते । परस्परसमुच्चये चौ । ननु स्थूलादिभावस्य स्वरूप- त्वात्कथं तस्योत्पत्त्यादीत्यत उक्तम्—प्रकृतित इति । स्वभावत इत्य- र्थः । ‘ अन्यतः ’ शरीरादितः । तथा च स्थौल्यादिकं न स्वरूपमिति भावः । यद्यप्यस्येतरजीवसाधारणत्वान्न विशेषत्वम् । तथाऽपि शरी- रादिष्वेवायं स्थूलो, न त्वितरजीवानामिव चैतन्ये । तदभिमानकृत- विक्रियाविशेषषानिति भवति विशेषः । ‘ अथ ’ तस्मात्स्वरूपेणानुत्प- त्तिमत्त्वात्स्थूलरूपेणोत्पत्तिमत्त्वाच्च ‘ एनं ’ मुख्यं सादिरनादिरित्याहु- र्विद्वांस इत्यर्थः । श्रुतेरित्यस्य श्रेष्ठश्चोत्पद्यते अनुत्पद्यते चेति गम्यत इति सूत्रेणान्वयः ॥ ( ४ ) ननु प्राणानुत्पत्तिश्रुतिः सयुक्तिकत्वेन प्रबला, अतः कथमु- त्पत्तिश्रुतिमात्रानुसारणान्यथा व्याख्यायते । अपि तु उत्पत्तिश्रुतिरेव चेष्टाबाह्यवायुविषयतया व्याख्यातव्या । तयोरपि ‘ चेष्टायाम् ’ इति वाक्ये प्राणशब्दवाच्यत्वोक्तेरेतयोरनुत्पत्तिवचनाभावेन उत्पत्त्यङ्गीका- रे विरोधाभावात् इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—नेति ॥ चे- ष्टा स्पन्दनम् । बाह्यो भूतवायुः । चौ परस्परसमुच्चये । ‘ गीयते ’ प्रयु
६५६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ] प्राणशब्दस्त्रिषु ह्येषु मुख्ये मुख्यः प्रकीर्तितः । इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । (५) ‘स प्राणमसृजत ....खं वायुर्ज्योतिरापः....तपो म- न्त्राः कर्म’ (प्र.६-४.) इति पृथगुपदेशात् । • ज्यते एषु त्रिषु मध्ये ‘मुख्ये’ मुख्यप्राणे ‘मणिर्मुख्यं प्रधानञ्चेत्युभय- स्य वचो भवेत्’ इत्यभिधानात् ‘मुख्यः’ मुख्यवृत्तिमान् प्रकीर्तितो वृद्धैरित्यर्थः । इति व्यपदेशादित्यन्वयः । प्राणशब्दस्येति शेषः । तथा च प्राणशब्दस्य ‘चेष्टायाम्’ इति वाक्ये वायुक्रिययोरपि ‘व्यपदेशा- त्’ इत्युक्तेः ‘उत्पत्तिश्रुतिः’ ‘प्राणोजायत’ इत्युत्पत्तिवाक्यं ‘तयो- रुत्पत्तिश्रुतिः स्यात्’ तयोरुत्पत्तिवादिनी स्यादिति नोपपद्यते इति योजना । अनेन वायुक्रिये इति साध्यांशो व्याख्यातः ॥ (५) कुतो नेत्यतस्तत्र हेतुतया पृथगुपदेशादित्येतद्योजयति— स इति ॥ अत्र ‘उपदेशात्’ ‘आत्मनः’ इति वाक्यापेक्षया अन्यस्मा- त् ‘स प्राणमसृजत’ इति स्पष्टवाक्यादिति प्रथमं योज्यम् । अत्रा- पि चेष्टादिकं वाच्यं किं न स्यादित्याशङ्कायां तन्न हेतुत्वेन पृथगुपदे- शादिति समग्रं योजनीयम, तथा च इति षट्प्रश्नश्रुतौ स प्राणमित्युक्त्वा- त् प्राणाद्वायुकर्मणोः पृथगभिधानादित्यन्वयः । तथा च ‘सः’ इति श्रुतेरपिवायुक्रियोत्पत्तिपरत्वे पुनः वायुः कर्म चेति वायुचेष्टयोः पृथ- गुप्त्यभिधानं पुनरुक्तं स्यात्, अतो न तस्यास्तद्विषयत्वमितिभावः । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियम् । मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ इति मन्त्रस्यायमर्थः—‘सः’ प्रकृतः परमपुरुषो भगवान् पुरुष ‘प्राणं’ जीवकलाभिमानिनमसृजत् । ‘प्राणाच्छ्रद्धां’ प्राणं निमित्तीकृत्य जीव- स्यास्तिक्यनिष्ठां भारतीमसृजत । ततश्च ‘खं’ आकाशं वायुः ‘ज्यो- तिः’ तेज आपः पृथिवी इत्येतानि शरीरोपादानभूतानि पञ्चभूतान्यसृ- जत् । ततः ‘इन्द्रियं’ जीवस्य प्रवृत्त्युपकरणानि चक्षुरादीन्द्रियाणि प्रधानकरणं मनः तत्स्थितिकारणमन्नं चासृजत् । तस्मादन्नं निमि- त्तीकृत्य शरीरहेतुभूतं ‘वीर्यं’ रेतोऽसृजत् । ततो जीवस्य ज्ञानादिहे- तुतया सुखसाधनं तपोऽसृजत् । ततो ‘मन्त्राः’ जीवस्य साक्षात् ज्ञा- नादिहेतवो ये ऋगाद्याः तानसृजत् । यच्च सुखादिनिमित्तं पुण्यापुण्य-
[ अधि - ७, सू - ११० ] दीपिकासहितम्. ६५७ ( ६ ) भूतानि चेष्टामन्त्राश्च मुख्यप्राणादिदं जगत् । मुख्यप्राणः परस्माच्च न परः कारणान्वितः ॥ इति वायुप्रोक्ते ॥ १० ॥ ::- ७. अधिकरणम् ॥ ( १ ) ‘प्राणादिदमाविरासीत्प्राणो धत्ते प्राणे लयमभ्युपैति लक्षणं कर्म तच्चासृजत् । ‘लोकाः’ गोलकाः इन्द्रियाश्रयभूतास्तान्, लोकेषु सृष्टेषु सत्सु तं निमित्तीकृत्य देवदत्तादिनाम चासृजदिति । अत्र प्राणादिशब्दाः षोडशकलावाचिनः तत्तत्कलाभिमानिमुख्यप्रा- णादिवाचिनश्चेति । विष्णोः प्राणस्ततश्श्रद्धा तस्या रुद्रो मनोभिधः । ततस्त्विन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥ इति षट्प्रश्नभाष्ये स्पष्टम् । पूर्वपूर्वोत्पन्नकलाः उत्तरोत्तरकलोत्पत्तौ निमित्तभूता इत्येतदपि तत एव ज्ञातव्यम् ॥ ( ६ ) न केवलमर्थापत्त्यैव प्राणादिशब्दा भिन्नार्थाः, किन्तु स्मृत्या ऽपीत्यभिप्रेत्य श्रुत्यर्थनिर्णयात्मिकां स्मृतिं चाह—भूतानीति ॥ ‘खं वायुः पृथिवी’ इत्यन्तस्यार्थो—भूतानीति । कर्मेत्यस्य—चेष्टेति । ए- वमादीति शेषः । ‘स प्राणमसृजत’ इत्यस्य व्याख्यानं—मुख्यप्राणः ‘परस्मात्’ पराद्विष्णोरिति । आर्षस्समादादेशः । इति वायुप्रोक्ते इत्य- स्य पृथगुपदेशादित्यनेनान्वयः । प्राणादिशब्दानां भिन्नार्थत्वोक्तेरिति तदर्थः । अत्र ‘स प्राणमसृजत, मुख्यप्राणः परस्मात्’ इति श्रुतिस्मृति- भ्यां पूर्वपक्ष्युक्तयुक्तिविरोधोऽपि परिहृतः । ननु श्रुतिस्मृतिभ्यां मुख्य- प्राणस्य विष्णुजातत्वाभिधानेऽपि कथं युक्तिविरोधपरिहार इत्याश- ङ्का ‘न परः कारणान्वितः’ कारणजन्य इति स्मृत्यंशेन परिहृता । ‘य- त्प्राप्तिः’ इत्याद्युक्तमाहात्म्यवतोऽपि मुख्यप्राणस्य स्वापेक्षया कारणा- जन्यत्वादिरूपातिमाहात्म्योपेतविष्णूत्पन्नत्वोपपत्तेः तथा च मुख्यप्रा- णस्याखिलोत्पादकत्वं स्वनियम्यसर्वोत्पादकत्वे पर्यवस्यतीति न यु- क्ति विरोध इति भावः ॥ ६ ॥ ॥ इति श्रेष्ठाधिकरणम् ॥ —::— ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यप्राणस्वातन्त्र्यास्वातन्त्र्यश्रुतिविरोधः ८३