भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 696, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 696

[ अधि - ४. सू - ६. ] दीपिकासहितम्. ६४९ ( ३ ) अतो वक्ति— सू—ॐ ॥ सप्त गतेर्विशेषितत्वाच्च ॥ ॐ ॥ ६ ॥ ज्ञानेन्द्रियापेक्षया सप्तत्वम् 'गुहाशयां निहिताः सप्त सप्त' (मु. २-१-८.) इति विशेषणात् ॥ प्राणमेव तद्यजमाने दधति । चत्वारि ऋतुभिरित्यपानमेव तद्य- जमाने दधति। द्वयर्तुनेत्युपरीष्टात्' ( ) इति श्रुत्युदाहरणा- च्च ज्योतिष्टोमयागादन्ययागार्थाः पात्रविशेषाः इहोपात्ता इति प्रती- यते । अत्र विशेषो नावबुद्धः । दृश्यन्त इत्यनन्तरं अतो विरोध इति वाक्यशेषः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ज्ञानेन्द्रिया- पेक्षयेत्यनेन सूत्रे सप्तेति श्रुतिप्रतीकग्रहणम् । गतेरिति ल्यब्लोपनिमि- त्ता पञ्चमी । गतिशब्दश्च ज्ञानसाधनेन्द्रियपरः । तथा च गतिमपेक्ष्य ज्ञानकरणेन्द्रियाण्यपेक्ष्य 'सप्तत्वम्' सप्तेतिश्रुतिः प्रवृत्तेति सौत्रप्रतिज्ञां- शो व्याख्यातः । 'गतेः' ज्ञानस्य सम्बन्धिनः प्राणास्सप्तेति व्याख्या तु न भाष्यटीकानुसारिणी। सप्तत्वमित्यनन्तरं अतो न विरोध इति वाक्यशे- षः। श्रुत्युक्तानां सप्तानां ज्ञानेन्द्रियत्वं कुतः इत्यतः प्रवृत्तं विशेषित- त्वादित्यंशं व्याख्याति—गुहाशयामिति । आथर्वणे 'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्यनन्तरं श्रुते सप्तार्चिषः सप्तसमिधः सप्त होमाः । सप्तेमे लोका येषु चरन्ति प्राणाः गुहाशयां निहितास्सप्तसप्त ॥ (मु. २-१-८.) इति वाक्यशेषे श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां सप्तानामिन्द्रि- याणां ज्ञानार्थत्वविशेषणेन विशेषितत्वादित्यर्थः । श्रुतौ गुहाशयामि- ति पदं 'गुहाशयां' गुहाशयायां बुद्धौ तदर्थे निहिताः 'समाने लो- पः' इति एकयकारलोप इत्याथर्वणभाष्योक्तरीत्या तादर्थ्यसम्बन्ध- तया व्याख्येयम् । यद्वा—गुहाशयामित्युद्देश्यद्वितीया । तां बुद्धिं प्रती- ति तत्त्वप्रदीपोक्तेः। अथवा-गुहाशयेति प्रथमा द्वितीयार्थे, सप्तम्यर्थे वा । सप्तम्यर्थे प्रथमेति तत्त्वप्रदीपोक्तेः । प्राणानां प्रतिपुरुषं भेदात् सप्त सप्तेति वीप्सा । तथा च 'तस्मात्' पुमान् रेतस्सिञ्चति योषितायाम्' (मु.२-१-५०) इति पूर्ववाक्ये प्रकृतात् रमाख्ययोषिति गर्भाधानकर्तुः ८२