पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 697, कुल 1267 में से
संदर्भ में पढ़ें६५० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ४ ) सप्तप्राणास्त्ववगतेः पञ्च प्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम् । इति भविष्यत्पर्ववचनं चशब्दात् ॥ ६ ॥ ( ५ ) सू— ॐ ॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ ॐ ॥ ७ ॥ हस्तादीनां कर्मविषयत्वाच्च सहपाठः ॥ परमपुरुषात् 'सप्त' सप्तसङ्ख्याकाः 'प्राणाः' इन्द्रियाणि 'प्रभवन्ति' प्रजज्ञिरे । एवं 'सप्ताचिषः' सप्तेन्द्रियवृत्तयः 'समिधो' विषयाः 'स- प्तहोमाः' सप्त विषयेन्द्रियसम्बन्धाः प्रजज्ञिरे । 'गुहाशयां' गुहा हृ- दयं आशयः स्थानं यस्याः बुद्धेः सा तथोक्ता, तस्यां तदर्थं तां प्रति त- दर्थमिति वा । तथा च प्रतिशरीरं बुद्धयर्थं ये परमपुरुषात् 'निहिताः' स्थापिताः 'सप्तसप्त' प्राणाः ते 'यत्र' येषु लोकेषु गोलकेषु सञ्चर- न्ति, त इमे लोकाः सप्तेति श्रुत्यर्थः ॥ ( ४ ) मन्वस्तु सप्तानामिन्द्रियाणां ज्ञानविशेषणबलेन ज्ञानार्थत्वं, तथाऽपि ते प्राणाः सप्तसङ्ख्याका एव किं नस्युः । किमिति तेषां द्वाद- दशत्वमङ्गीकृत्य सप्तश्रुतेः सावकाशत्वकल्पनमित्याशङ्कां चशब्दोपात्त- स्मृत्या निराह—सप्तेति ॥ चशब्दादिति । सौत्रचशब्दादित्यर्थः । सङ्गृ- हीतमिति शेषः । 'अवगतेः' ज्ञानस्य सम्बन्धिनः प्राणाः सप्त । एवं क्रियारूपकर्मणः सम्बन्धिनस्तज्जनकाः प्राणाः पञ्च । एवं प्राणद्वादश- कं प्रतिशरीरं नियमेन संस्थितमित्यर्थः । तुशब्दो विशेषद्योतकः । च- शब्दस्समुच्चयार्थः । यद्यपीयं स्मृतिः ज्ञानेन्द्रियत्वकर्मेन्द्रियत्वरूपाव- च्छेदकप्रदर्शनेन सप्तत्वपञ्चत्वोक्तयोः सावकाशत्वं कथयन्ती बाधक- परिहाररूपैव, न तु द्वादशत्वसाधिका । तथाऽप्यनया सप्तश्रुतौ साव- काशायां 'द्वादश वा एते प्राणाः' (कौण्डिन्य ) इति पूर्वोदाहृतश्रुत्यै- व द्वादशत्वं सिध्यतीति साऽपि चशब्दसङ्गृहीताऽत्रोदाहर्तव्या ॥ ( ५ ) ननु सप्तभ्योऽन्येषां प्राणानां सद्भावेऽप्याथर्वणश्रुतौ तेषां पर- मात्मजन्यत्वेनोच्यमानैः सप्तभिः 'सह सप्त पञ्च प्राणाः' इति पाठस्स्या- त्। अत्र सहपाठाभावो द्वेधा भवेत् अनादित्वेन वा? परमात्मनस्तदका- रणत्वेन वा ? तदुभयमपि 'तथा प्राणाः' (सू.२-४-१०) इत्युक्तिविरुद्ध- म्। न च सहपाठे कारणान्तरं पश्यामः, न वा परमात्मनः तदकारणत्वे कारणान्तरं पश्यामः । अकारणकार्योत्पत्तिश्चायुक्ता । तस्मात्सहपा-