पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 698, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. सू - ७. ] दीपिकासहितम्. ६५१ ( ६ ) संसारस्थितिहेतुत्वात्स्थितं कर्म विदो विदुः । तस्मादुद्धृतिहेतुत्वात् ज्ञानं गतिरिहोच्यते ॥ इति च वायुप्रोक्ते ॥ ७ ॥ ष्ठाभावात् न सप्तभ्योऽन्ये प्राणाः सन्तीत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—हस्तादय इति ॥ आदिशब्देन पादपायुगुह्यवाचो गृह्यन्ते । ‘कर्मविषयत्वात्’ कर्मार्थत्वादिति अतःशब्दव्याख्यानम् । विषयेत्यनेन सप्तम्यर्थः कर्मेत्यनेन स्थितशब्दार्थश्च दर्शितः । सहपाठ इत्यनेनैवंश- ब्दार्थ उक्तः । हस्तादीनां सप्तभिरिति शेषः । अनेन सूत्रे तुशब्दो वैल- क्षण्यार्थः । यत इति शेष इति सूचितम् ॥ ( ६ ) ननु पूर्वसूत्रगतो गतिशब्दो ज्ञानार्थस्सन् तद्द्वारा तत्करण- बोधकः । द्वितीयसूत्रगतश्च स्थितशब्दः कर्मवाचीत्येतत्कुत इत्यत आ- ह—संसारेति ॥ पुरुषस्य संसारस्थितौ हेतुत्वादित्यर्थः । ‘तस्मात्’ संसारात् उद्धृतिरुत्थितिर्मोक्षः तत्कारणत्वादित्यर्थः । ननु मुक्तानां प- रमा गतिर्हरिरेव । सतां गतिरित्यादौ गतिशब्दस्य गम्यार्थत्वात्कथं ज्ञानार्थत्वमित्यत आह—इहेति । एतत्सूत्रे तदनुकूलप्रमाणे चेत्यर्थः । कर्म मानुषमिहाभिप्रेतं, ज्ञानं च तत्त्वविषयमिति तत्त्वप्रदीपोक्तेश्च क- र्मशब्देन मानुषकर्तृकं प्रवृत्तिकर्मोच्यते । तस्यैव बन्धकत्वात् । ज्ञान- शब्देन ब्रह्मज्ञानम् । न च निवृत्तिकर्मणि अब्रह्मज्ञाने च कथं स्थितग- तिशब्दौ, उक्तनिमित्ताभावादिति वाच्यम् । यथा ‘तं प्रपदाभ्यां प्राप- द्यत ब्रह्मेमं पुरुषं .... तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते’ (२-१-४.) इत्यैतरेयश्रुत्युक्तस्य परमात्मकर्तृकतच्छब्दोक्तचतुर्मुखप्राप्तिकरनख- रूपस्य प्रपदशब्दप्रवृत्तिनिमित्तस्य चतुर्मुखपादतलोपरिगतत्वेऽपि त- त्सजातीये पुरुषान्तरसम्बन्धिन्यपि पादतलोपरिभागे प्रपदशब्दः प्रयु- ज्यते । तथेहापि संसारस्थितिहेतुप्रवृत्तिसजातीये निवृत्तिकर्मण्यपि स्थितशब्दः प्रयुज्यते । एवं संसारोद्धृतिहेतुब्रह्मज्ञानसजातीये घटादि- ज्ञानेऽपि गतिशब्दप्रयोगोपपत्तिः । वायुप्रोक्ते ग्रन्थे स्थितगतिशब्दौ कर्मज्ञानार्थावित्युक्तमिति वाक्यशेषः ॥ ४ ॥ ॥ इति सप्तगत्यधिकरणम् ॥ —:*:—