भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 699, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 699

६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ५. अधिकरणम् ॥ ( १ ) ‘दिवीव चक्षुराततम्’ (ऋ. १-२२-२०.) इति व्या- प्तिः प्रतीयते । दूरश्रवणदर्शनादियुक्तिश्च । ( २ ) ‘अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्रा- ५. अधिकरणम् ॥ ( १ ) पूर्वाधिकरणे प्राणसङ्ख्याविषयश्रुतिविरोधः परिहृतः । अ- त्राधिकरणे तत्परिमाणविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं श्रु- तिविगानं दर्शयन् पूर्वपक्षं सूचयति—दिवीवेति ॥ इति श्रुताविति शे- षः । ‘व्याप्तिः’ प्राणानामिति शेषः । चक्षुःपदेन इन्द्रियमात्रोपलक्षणं वा समानन्यायविषयत्वेन वेति भावः । नन्वणुत्वश्रुत्या सत्प्रतिपक्षिते- यं श्रुतिरिति शङ्कापरिहाराय दिवीवेत्यंश उदाहृतः । अनेनास्यां श्रुतौ विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुःपदोपलक्षितेन्द्रियव्याप्तेरुक्तत्वात् सा सिद्धेति प्राणानां व्याप्तौ युक्तिरुक्ता भवति । तथा च व्याप्तत्वश्रु- तेर्युक्तियुक्तत्वान्न सत्प्रतिपक्षितत्वमिति भावः । व्याप्तिश्रुतेः प्राबल्यो- पपादनायैवेन्द्रियव्याप्तौ युक्त्यन्तरमाह—दूरेति । चस्समुच्चये । तथा च किञ्चिद्दूरस्थवस्तुदर्शनं तथा दूरस्थशब्दश्रवणं, आदिशब्दाद् दू- रस्थवस्तुस्मरणं गृह्यते । एतद्रूपा युक्तिः प्राणानां व्याप्तिं साधयती- त्यर्थः । इन्द्रियाणां प्राप्यकारित्वेन व्याप्तिं विना चक्षुश्श्रोत्रमनसासु- क्तकार्याजनकत्वादिति भावः । यथा चक्षुः ‘दिवि’ आकाशे ‘आत- तं’ व्याप्तमपि न दृश्यते, किन्तु विषयोपलब्धिलक्षणेन फलेनानुमीय- ते, तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यं, किन्त्वस्वतन्त्राणां पदा- र्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इति श्रुतितात्पर्यार्थो ऋग्भाष्यटी- कायामुक्तः । अनेनैव व्याप्ता एष प्राणास्तथा श्रुतेर्युक्तेश्चेति सयुक्तिक पूर्वपक्षः सूचितो भवति ॥ ( २ ) एवं व्याप्तिश्रुतिमुदाहृत्याणुत्वेऽपि श्रुतिमुदाहरति—अणुभि- रिति ॥ चः समुच्चये । श्रुतिः प्राणानामणुत्वं वक्तीति शेषः । पुरुषः ‘अणुभिः’ ज्ञानेन्द्रियैः ‘पश्यति’ तत्तदिन्द्रिययोग्यं वस्तु जानाति । एवं ‘अणुभिः’ कर्मेन्द्रियैः तत्तद्योग्यं कार्यं ‘कृणोति’ करोतीत्यर्थः । भावबोधे तु अणुभिः शृणोतीतिपाठमभिप्रेत्य ज्ञानकर्मकरणत्वलिङ्गा- दिति टीकावाक्येन ‘अणुभिः शृणोति’ इत्येतत्सर्वेन्द्रियोपलक्षणमि-

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 699, कुल 1267 में से · BharatKosha