पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 700, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - ९. ] दीपिकासहितम्. ६५३ णैर्हेतद्भवति' इति च कौण्डिन्यश्रुतिः । ( ३ ) अतो वक्ति— सू—ॐ ॥ अणवश्च ॥ ॐ ॥ ८ ॥ 'तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्हैवैष पुरुषो भवति' इति शाण्डिल्यश्रुतिः ॥ ८ ॥ —::— ६. अधिकरणम् ॥ ( १ ) 'नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता त्युक्तं भवतीत्युक्तम् । के तेऽणव इत्यतोऽणून् दर्शयति—प्राणा वा अ णव इति । ते चाणवः 'प्राणाः' इन्द्रियाणीत्यर्थः । कुतोऽणवः प्राणा इत्यत आह—प्राणैरिति ॥ 'हि' यस्मात् 'एतत्' पश्यतिकृणोतीत्या भ्यामुक्तं ज्ञानकर्माख्यकार्यं 'प्राणैः' इन्द्रियैरेव भवति तस्मादित्यर्थः॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चोऽवधार णे, समुच्चये च । प्राणा इत्यस्ति । तथा च प्राणाः स्वरूपतोऽणव एव । न चोक्तश्रुतियुक्तिविरोधः । यतो न केवलमणवः, किन्तु प्रकाशतो व्याप्ताश्चेति सूत्रार्थः । अतिसुदृढार्थश्रुतिसिद्धे व्याप्तत्वे सति कुतोऽ णुत्वं प्राणानां, तेजसा व्याप्तिश्चेत्यत आह—तद्यथेति । 'तत्' वक्ष्य माणं निदर्शनं यथेत्यर्थः । 'अणुः' स्वरूपेण 'चक्षसः' चक्षुषः 'प्र काशः' तेजो 'व्याततः' व्याप्तं एवं 'पुरुषस्य' जीवस्य प्रकाशो व्या प्तः । मन्वस्तु अणुत्वात् चक्षुषः प्रकाशव्याप्तिः । जीवस्य कुत इत्यतो ऽस्याप्यणुत्वादित्याह—अणुरिति । 'हि' यस्मात् इति श्रुतिः चक्षुषःप दोपलक्षितानां प्राणानामणुत्वं प्रकाशव्याप्तिं च वक्तीति शेषः । अतो न सूत्रकृदुक्तस्याभावः शङ्कय इति वाक्यशेषः । यद्यप्यत्र श्रुतौ प्रका शव्याप्तावेव चक्षुषः दृष्टान्तत्वं प्रतीयते, न तु जीवस्याणुत्वेऽपि । त थाऽपि प्रकाशव्याप्तिसाधकाणुत्वस्य जीवेऽपि 'अणुर्ह्येषः' इत्यनेनो क्तत्वात्तदंशेऽपि दृष्टान्तत्वमभिप्रेतमिति भावः ॥ ५ ॥ ॥ इति अण्वधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यप्राणजन्मविषयश्रुतिविरोधः परिह्रियते ।