पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 695, कुल 1267 में से
संदर्भ में पढ़ेंअधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः ॥ इति च स्कान्दे । (२) ‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादश राशयो द्वादश ग्रहाः ' इति कौण्डिन्यश्रुतौ द्वा दश प्राणा दृश्यन्ते । भिमानिनो देवाः सप्तैव । तथा तस्य 'आत्मनि' देहे स्थिता अपि प्रा- णास्सप्तैवेत्यर्थः । नन्वप्रयोजकोऽयं हेतुरित्यत आह--अधिदैव इति । तथाशब्दः समुच्चये । तथा च यस्मात् 'अधिदैवे' देहाद्बहिर्गतेष्वभि- मानिदेवेषु 'अध्यात्मे' देहान्तर्गतेष्वभिमन्यमानेषु च 'सङ्ख्यासाम्यं' समसङ्ख्याकत्वं 'विदो' ज्ञानिनो 'विदुः' जानन्ति तस्मादित्यर्थः । स्कान्द इत्यनन्तरं उक्तिश्चेति शेषः ॥ (२) 'द्वादश वा' इति श्रुतौ वैशब्दः प्रसिद्धौ । प्राणशब्दितेन्द्रि- याणां द्वादशत्वं कुत इत्यतस्तत्र हेतुमाह-द्वादशेति ॥ इदं च यतो मासादयो द्वादशैव, अतः प्राणा अपि द्वादशैवेति हेतुहेतुमद्भावेन यो- ज्यम् । अत्राप्रयोजकताशङ्कायां 'द्वादश मासाः' इति श्रुतेर्मासादीनां प्राणानां चादित्याख्यसमसङ्ख्यदेवताकत्वाभिप्रायेण प्रवृत्ततया प्राणा- भिमानिनां द्वादशत्वावगतेस्तेषां च द्वादशत्वे तदभिमन्यमानानां प्रा- णानामपि द्वादशत्वसिद्धेरिति हेतुरभिप्रेतो बोध्यः । अत एव 'द्वाद- श मासाः' इत्यादिवाक्यशेषोपन्यासः । 'ग्रहाः' सोमस्य द्वादशऋ- तुयाजग्रहाः मध्वादिद्वादशमासोद्देश्या इति तत्त्वप्रदीपोक्तेः । तस्याः षडृतुप्रविष्टत्वेन ऋतुशब्दवाच्यमध्वादिप्रसिद्धितश्चैत्रादिद्वादशमासदेव- तोद्देश्यकयागार्थाः सोमरसग्रहणार्थपात्रविशेषा इत्यर्थः । 'ऋत्वधिपो विष्णुः केशवादिस্বরূপतः । ग्रहाश् सोमस्य' इति ऋग्भाष्योक्तेः । ए- कैकस्य ऋतोर्मासभेदेन द्विरूपत्वाद्देवतानां केशवादीनां तदुद्देश्यानां ग्रहाणामपि द्वादशत्वमिति भावः । चन्द्रिकायां तु ज्योतिष्टोमे सोमर- सग्रहणार्थाः सूक्ष्मोलूखलाकाराः पात्रविशेषाः द्वादश सन्ति । अत ए- व ग्रहणक्रिया अपि द्वादशसङ्ख्याकाः । तेचोपांश्वन्तर्यामैन्द्रवायवमै- त्रावरुणाश्विनाः पञ्च, शुक्रामन्थिनौ द्वौ, ऋतुपात्रे द्वे, अतिग्राह्या ना- म त्रयः इत्येवंरूपाः । यद्यप्यंश्वदाभ्यावपि तत्र ग्रहौ स्तः । तथाऽपि तयोः अनित्यत्वात् सदनोपस्थानाद्यभावाच्च नित्यसदनादियुक्तग्रहवि- वक्षया द्वादशत्वोक्तिरित्युक्तम् । अत्र तत्त्वप्रदीपे 'षडृतुनेति यजन्ति