पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 694, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ४. - सू - ६. ] दीपिकासहितम्. ६४७ इति वायुप्रोक्ते ॥ ५ ॥ —: ❖ :— ४. अधिकरणम् ॥ ( १६) 'सप्त प्राणाः प्रभवन्ति तस्मात्' ( मु. २ - १ - ८. ) इति श्रुतिः । सप्तैष मारुता बाह्ये प्राणास्सप्त तथाऽऽत्मनि । नेष्यत इत्यत आह—उत्पत्तिरिति । मनस इति न षष्ठी, किन्तु पञ्च- मी । वागिन्द्रियस्येत्यस्ति । ज्ञायत इति शेषः । 'कुतश्चन' 'न हि' इति विशेषश्रुत्या श्रुत्याश्रयत्वयुक्त्या चेत्यर्थः । सिध्यतीति शेषः । यद्वा—यस्माद्वागिन्द्रियस्य मनस उत्पत्तिरवगम्यते तस्मादेवम- भ्युपगम एव 'नित्यत्वं' 'वाग्वाव' इति नित्यत्वश्रुतिरुपचरितनि- त्यत्वार्थतयोपपन्ना भवति, न मुख्यनित्यत्वे 'कुतश्चन' कथमप्युपप- द्येत्यर्थः । न चोत्पत्तिमत्त्वेनानुत्पत्त्यभाव एव साध्यो नानुत्पत्तिरिति तस्यैव प्रतिज्ञातत्वात्, नानित्यत्वं ध्वंसे व्यभिचारादिति वाच्यम् । अत्र सर्वत्र नित्यानित्यशब्दयोरनुत्पत्त्युत्पत्तिमदर्थकत्वात् । इतीति । इ- त्येवं वायुप्रोक्ताख्यग्रन्थे उक्तत्वान्न विरोध इत्यर्थः । अनेन सिद्धान्ते वाङ्नित्यत्वोक्तेरुपचारबीजोपपादकं 'अस्यां हि' इति भाष्यं 'अस्यां हि स्मृतिरवतष्ठिते' इत्यनित्यत्वोपचारबीजकथनवाक्यस्याप्युपलक्षक- म् । तथा च अहं नित्यवेदाश्रयत्वान्नित्यया अनित्यपुराणाद्याश्रयत्वा- दनित्यया वाचा परमात्मानं स्तौमीति श्रुत्यर्थ उक्तः । एतेन ब्रह्मशब्द- घटितसमाख्याश्रुत्यनुरोधोऽपि दर्शितः । नित्यानित्यशब्दयोर्वेदपुरा- णार्थत्वत्वाविघातेनैवास्या व्याख्यानात् ॥ ३ ॥ ॥ इति तत्पूर्वकत्वाधिकरणम् ॥ —-:-:-— ४. अधिकरणम् ॥ ( १ ) अत्र प्राणसङ्ख्याविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं सूचयति—सप्तेति ॥ आथर्वणीयं श्रुतिः । 'प्राणाः' इन्द्रियाणि 'तस्मात्' परमात्मनः । श्रुतिरित्यनन्तरं प्राणा- नां सप्तत्वं वक्तीति शेषः । न केवलमिन्द्रियाणां सप्तत्वं श्रुतिसिद्धं, किन्तु युक्तिसिद्धं चेत्याशयेन प्रमाणोक्त्या तां दर्शयति—सप्तैवेति । यस्मात् 'बाह्ये' देहाद्बहिः स्थिताः 'मारुताः' मरुत्संज्ञिकाः इन्द्रिया-