पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 693, कुल 1267 में से
संदर्भ में पढ़ें६४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ‘ तस्मान्मन एव पूर्वरूपं वागुत्तररूपम् ’ ( ऐ.आ. ३- १-१०.) इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः । ( ३ ) वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता । उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन ॥ भाष्योदाहृतैतरेयश्रुतेः तद्भाष्ये मनोवाङ्नामकतदन्तर्गतरूपयोर्विष्णु- नामगतपूर्वोत्तरवर्णदेवतात्परत्वमुक्तमिति नास्याः प्रकृतोपयोगिता । तथाऽपि ‘मनः पूर्वरूपं वागुत्तररूपम्’ इति प्रतिज्ञावाक्योपपादके ‘मन सा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति’ ( ऐ.आ.३-१-१.) इति वा क्ये भाष्यस्थेनेतिशब्देन गृहीते वाक्शब्दस्य साधारणतापरिहाराय टी काकृतोदाहृते वाक्ये स्थितयोः पूर्वोत्तरशब्दयोः कार्यकारणपरत्वात्प्र कृतोपयोगितोपपत्तिः । यद्वा—भगवद्रूपाधिष्ठानयोरपि मनोवागिन्द्रि ययोः इह वाच्यत्वात्तद्विवक्षया कार्यकारणभाव इहोक्त इति प्रकृतस ङ्गतिः । अत एव टीकायां अत्र पूर्वोत्तरशब्दावित्युक्तम् । उपपादकवा क्ये वा प्रतिज्ञावाक्ये वेति तदर्थः । अस्मिन्नधिकरण इत्यप्यर्थः ॥ ( ३ ) वागिन्द्रियस्योत्पत्त्यङ्गीकारे ‘न ह्येषोत्पद्यते’ ( पौष्यायण. ) इति श्रुतिविरोधः, ‘ अस्यां हि ’ ( पौष्यायण. ) इत्युक्तयुक्तिविरोधश्चे त्यत आह—वागिन्द्रियस्येति ॥ यतो नित्यश्रुतिसन्निधियोग्यता ( नित्यं श्रुत्युच्चारणहेतुता योग्यत्वम् ) वागिन्द्रियस्य नित्यत्वं नित्यत्वा नादित्वोक्तेरुपचरितत्वे बीजमस्ति, अतो वागिन्द्रियस्य नित्यत्ववचनं प्रवृत्तम्, न तु मुख्यनित्यत्वं तदर्थः । तथा च श्रुतेरुपचरितार्थत्वान्न त द्विरोध इति भावः । ननु कादाचित्कं श्रुतिसन्निधानं कथं सार्वकालिक कनित्यत्वोक्तेरुपचारबीजं भवतीत्यतो योग्यतेत्युक्तम् । तथा च श्रुति सन्निधेः कादाचित्कत्वेनोपचारबीजत्वानुपपत्तावपि तद्योग्यत्वस्य सार्वकालिकत्वाद्युक्तमुपचारबीजत्वम् । अत एव श्रुत्याश्रयत्वमपि न नित्यदा, किन्तु तद्योग्यतैव । अतो न नित्याश्रयत्वमात्रेणाश्रयनित्य त्वाक्षेपः, अनित्यस्यापि तत्सम्भवात्, अपि तु नित्यदा नित्याश्रयत्वं, तच्च वाचि नास्त्येवेति न तेन नित्यत्वाक्षेपो युक्तः । अत एव नोपच यवैयर्थ्यम् । उपचयदशायामेव श्रुत्याश्रयत्वात् श्रुत्युच्चारणसमर्थत्वा दन्यदा सामर्थ्याभावादिति भावः । अनेन नित्यं श्रुत्युच्चारणसामर्थ्य स्योपपत्तिरुक्ता भवति । कुत एवं कल्प्यते ? स्वरूपनित्यत्वमेव किं