भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ४. सू - ६. ] दीपिकासहितम्. ६४९ ( ३ ) अतो वक्ति— सू—ॐ ॥ सप्त गतेर्विशेषितत्वाच्च ॥ ॐ ॥ ६ ॥ ज्ञानेन्द्रियापेक्षया सप्तत्वम् 'गुहाशयां निहिताः सप्त सप्त' (मु. २-१-८.) इति विशेषणात् ॥ प्राणमेव तद्यजमाने दधति । चत्वारि ऋतुभिरित्यपानमेव तद्य- जमाने दधति। द्वयर्तुनेत्युपरीष्टात्' ( ) इति श्रुत्युदाहरणा- च्च ज्योतिष्टोमयागादन्ययागार्थाः पात्रविशेषाः इहोपात्ता इति प्रती- यते । अत्र विशेषो नावबुद्धः । दृश्यन्त इत्यनन्तरं अतो विरोध इति वाक्यशेषः ॥ ( ३ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ज्ञानेन्द्रिया- पेक्षयेत्यनेन सूत्रे सप्तेति श्रुतिप्रतीकग्रहणम् । गतेरिति ल्यब्लोपनिमि- त्ता पञ्चमी । गतिशब्दश्च ज्ञानसाधनेन्द्रियपरः । तथा च गतिमपेक्ष्य ज्ञानकरणेन्द्रियाण्यपेक्ष्य 'सप्तत्वम्' सप्तेतिश्रुतिः प्रवृत्तेति सौत्रप्रतिज्ञां- शो व्याख्यातः । 'गतेः' ज्ञानस्य सम्बन्धिनः प्राणास्सप्तेति व्याख्या तु न भाष्यटीकानुसारिणी। सप्तत्वमित्यनन्तरं अतो न विरोध इति वाक्यशे- षः। श्रुत्युक्तानां सप्तानां ज्ञानेन्द्रियत्वं कुतः इत्यतः प्रवृत्तं विशेषित- त्वादित्यंशं व्याख्याति—गुहाशयामिति । आथर्वणे 'सप्त प्राणाः प्रभवन्ति तस्मात्' इत्यनन्तरं श्रुते सप्तार्चिषः सप्तसमिधः सप्त होमाः । सप्तेमे लोका येषु चरन्ति प्राणाः गुहाशयां निहितास्सप्तसप्त ॥ (मु. २-१-८.) इति वाक्यशेषे श्रोत्रचक्षुःस्पर्शनरसनघ्राणमनोबुद्धीनां सप्तानामिन्द्रि- याणां ज्ञानार्थत्वविशेषणेन विशेषितत्वादित्यर्थः । श्रुतौ गुहाशयामि- ति पदं 'गुहाशयां' गुहाशयायां बुद्धौ तदर्थे निहिताः 'समाने लो- पः' इति एकयकारलोप इत्याथर्वणभाष्योक्तरीत्या तादर्थ्यसम्बन्ध- तया व्याख्येयम् । यद्वा—गुहाशयामित्युद्देश्यद्वितीया । तां बुद्धिं प्रती- ति तत्त्वप्रदीपोक्तेः। अथवा-गुहाशयेति प्रथमा द्वितीयार्थे, सप्तम्यर्थे वा । सप्तम्यर्थे प्रथमेति तत्त्वप्रदीपोक्तेः । प्राणानां प्रतिपुरुषं भेदात् सप्त सप्तेति वीप्सा । तथा च 'तस्मात्' पुमान् रेतस्सिञ्चति योषितायाम्' (मु.२-१-५०) इति पूर्ववाक्ये प्रकृतात् रमाख्ययोषिति गर्भाधानकर्तुः ८२

६५० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ४ ) सप्तप्राणास्त्ववगतेः पञ्च प्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम् । इति भविष्यत्पर्ववचनं चशब्दात् ॥ ६ ॥ ( ५ ) सू— ॐ ॥ हस्तादयस्तु स्थितेऽतो नैवम् ॥ ॐ ॥ ७ ॥ हस्तादीनां कर्मविषयत्वाच्च सहपाठः ॥ परमपुरुषात् 'सप्त' सप्तसङ्ख्याकाः 'प्राणाः' इन्द्रियाणि 'प्रभवन्ति' प्रजज्ञिरे । एवं 'सप्ताचिषः' सप्तेन्द्रियवृत्तयः 'समिधो' विषयाः 'स- प्तहोमाः' सप्त विषयेन्द्रियसम्बन्धाः प्रजज्ञिरे । 'गुहाशयां' गुहा हृ- दयं आशयः स्थानं यस्याः बुद्धेः सा तथोक्ता, तस्यां तदर्थं तां प्रति त- दर्थमिति वा । तथा च प्रतिशरीरं बुद्धयर्थं ये परमपुरुषात् 'निहिताः' स्थापिताः 'सप्तसप्त' प्राणाः ते 'यत्र' येषु लोकेषु गोलकेषु सञ्चर- न्ति, त इमे लोकाः सप्तेति श्रुत्यर्थः ॥ ( ४ ) मन्वस्तु सप्तानामिन्द्रियाणां ज्ञानविशेषणबलेन ज्ञानार्थत्वं, तथाऽपि ते प्राणाः सप्तसङ्ख्याका एव किं नस्युः । किमिति तेषां द्वाद- दशत्वमङ्गीकृत्य सप्तश्रुतेः सावकाशत्वकल्पनमित्याशङ्कां चशब्दोपात्त- स्मृत्या निराह—सप्तेति ॥ चशब्दादिति । सौत्रचशब्दादित्यर्थः । सङ्गृ- हीतमिति शेषः । 'अवगतेः' ज्ञानस्य सम्बन्धिनः प्राणाः सप्त । एवं क्रियारूपकर्मणः सम्बन्धिनस्तज्जनकाः प्राणाः पञ्च । एवं प्राणद्वादश- कं प्रतिशरीरं नियमेन संस्थितमित्यर्थः । तुशब्दो विशेषद्योतकः । च- शब्दस्समुच्चयार्थः । यद्यपीयं स्मृतिः ज्ञानेन्द्रियत्वकर्मेन्द्रियत्वरूपाव- च्छेदकप्रदर्शनेन सप्तत्वपञ्चत्वोक्तयोः सावकाशत्वं कथयन्ती बाधक- परिहाररूपैव, न तु द्वादशत्वसाधिका । तथाऽप्यनया सप्तश्रुतौ साव- काशायां 'द्वादश वा एते प्राणाः' (कौण्डिन्य ) इति पूर्वोदाहृतश्रुत्यै- व द्वादशत्वं सिध्यतीति साऽपि चशब्दसङ्गृहीताऽत्रोदाहर्तव्या ॥ ( ५ ) ननु सप्तभ्योऽन्येषां प्राणानां सद्भावेऽप्याथर्वणश्रुतौ तेषां पर- मात्मजन्यत्वेनोच्यमानैः सप्तभिः 'सह सप्त पञ्च प्राणाः' इति पाठस्स्या- त्। अत्र सहपाठाभावो द्वेधा भवेत् अनादित्वेन वा? परमात्मनस्तदका- रणत्वेन वा ? तदुभयमपि 'तथा प्राणाः' (सू.२-४-१०) इत्युक्तिविरुद्ध- म्। न च सहपाठे कारणान्तरं पश्यामः, न वा परमात्मनः तदकारणत्वे कारणान्तरं पश्यामः । अकारणकार्योत्पत्तिश्चायुक्ता । तस्मात्सहपा-

[ अधि - ४. सू - ७. ] दीपिकासहितम्. ६५१ ( ६ ) संसारस्थितिहेतुत्वात्स्थितं कर्म विदो विदुः । तस्मादुद्धृतिहेतुत्वात् ज्ञानं गतिरिहोच्यते ॥ इति च वायुप्रोक्ते ॥ ७ ॥ ष्ठाभावात् न सप्तभ्योऽन्ये प्राणाः सन्तीत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—हस्तादय इति ॥ आदिशब्देन पादपायुगुह्यवाचो गृह्यन्ते । ‘कर्मविषयत्वात्’ कर्मार्थत्वादिति अतःशब्दव्याख्यानम् । विषयेत्यनेन सप्तम्यर्थः कर्मेत्यनेन स्थितशब्दार्थश्च दर्शितः । सहपाठ इत्यनेनैवंश- ब्दार्थ उक्तः । हस्तादीनां सप्तभिरिति शेषः । अनेन सूत्रे तुशब्दो वैल- क्षण्यार्थः । यत इति शेष इति सूचितम् ॥ ( ६ ) ननु पूर्वसूत्रगतो गतिशब्दो ज्ञानार्थस्सन् तद्द्वारा तत्करण- बोधकः । द्वितीयसूत्रगतश्च स्थितशब्दः कर्मवाचीत्येतत्कुत इत्यत आ- ह—संसारेति ॥ पुरुषस्य संसारस्थितौ हेतुत्वादित्यर्थः । ‘तस्मात्’ संसारात् उद्धृतिरुत्थितिर्मोक्षः तत्कारणत्वादित्यर्थः । ननु मुक्तानां प- रमा गतिर्हरिरेव । सतां गतिरित्यादौ गतिशब्दस्य गम्यार्थत्वात्कथं ज्ञानार्थत्वमित्यत आह—इहेति । एतत्सूत्रे तदनुकूलप्रमाणे चेत्यर्थः । कर्म मानुषमिहाभिप्रेतं, ज्ञानं च तत्त्वविषयमिति तत्त्वप्रदीपोक्तेश्च क- र्मशब्देन मानुषकर्तृकं प्रवृत्तिकर्मोच्यते । तस्यैव बन्धकत्वात् । ज्ञान- शब्देन ब्रह्मज्ञानम् । न च निवृत्तिकर्मणि अब्रह्मज्ञाने च कथं स्थितग- तिशब्दौ, उक्तनिमित्ताभावादिति वाच्यम् । यथा ‘तं प्रपदाभ्यां प्राप- द्यत ब्रह्मेमं पुरुषं .... तस्मात्प्रपदे तस्मात्प्रपदे इत्याचक्षते’ (२-१-४.) इत्यैतरेयश्रुत्युक्तस्य परमात्मकर्तृकतच्छब्दोक्तचतुर्मुखप्राप्तिकरनख- रूपस्य प्रपदशब्दप्रवृत्तिनिमित्तस्य चतुर्मुखपादतलोपरिगतत्वेऽपि त- त्सजातीये पुरुषान्तरसम्बन्धिन्यपि पादतलोपरिभागे प्रपदशब्दः प्रयु- ज्यते । तथेहापि संसारस्थितिहेतुप्रवृत्तिसजातीये निवृत्तिकर्मण्यपि स्थितशब्दः प्रयुज्यते । एवं संसारोद्धृतिहेतुब्रह्मज्ञानसजातीये घटादि- ज्ञानेऽपि गतिशब्दप्रयोगोपपत्तिः । वायुप्रोक्ते ग्रन्थे स्थितगतिशब्दौ कर्मज्ञानार्थावित्युक्तमिति वाक्यशेषः ॥ ४ ॥ ॥ इति सप्तगत्यधिकरणम् ॥ —:*:—

६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ५. अधिकरणम् ॥ ( १ ) ‘दिवीव चक्षुराततम्’ (ऋ. १-२२-२०.) इति व्या- प्तिः प्रतीयते । दूरश्रवणदर्शनादियुक्तिश्च । ( २ ) ‘अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्रा- ५. अधिकरणम् ॥ ( १ ) पूर्वाधिकरणे प्राणसङ्ख्याविषयश्रुतिविरोधः परिहृतः । अ- त्राधिकरणे तत्परिमाणविषयश्रुतिविरोधः परिह्रियते । सन्देहबीजं श्रु- तिविगानं दर्शयन् पूर्वपक्षं सूचयति—दिवीवेति ॥ इति श्रुताविति शे- षः । ‘व्याप्तिः’ प्राणानामिति शेषः । चक्षुःपदेन इन्द्रियमात्रोपलक्षणं वा समानन्यायविषयत्वेन वेति भावः । नन्वणुत्वश्रुत्या सत्प्रतिपक्षिते- यं श्रुतिरिति शङ्कापरिहाराय दिवीवेत्यंश उदाहृतः । अनेनास्यां श्रुतौ विष्णोर्व्याप्तत्वे दृष्टान्तत्वेन चक्षुःपदोपलक्षितेन्द्रियव्याप्तेरुक्तत्वात् सा सिद्धेति प्राणानां व्याप्तौ युक्तिरुक्ता भवति । तथा च व्याप्तत्वश्रु- तेर्युक्तियुक्तत्वान्न सत्प्रतिपक्षितत्वमिति भावः । व्याप्तिश्रुतेः प्राबल्यो- पपादनायैवेन्द्रियव्याप्तौ युक्त्यन्तरमाह—दूरेति । चस्समुच्चये । तथा च किञ्चिद्दूरस्थवस्तुदर्शनं तथा दूरस्थशब्दश्रवणं, आदिशब्दाद् दू- रस्थवस्तुस्मरणं गृह्यते । एतद्रूपा युक्तिः प्राणानां व्याप्तिं साधयती- त्यर्थः । इन्द्रियाणां प्राप्यकारित्वेन व्याप्तिं विना चक्षुश्श्रोत्रमनसासु- क्तकार्याजनकत्वादिति भावः । यथा चक्षुः ‘दिवि’ आकाशे ‘आत- तं’ व्याप्तमपि न दृश्यते, किन्तु विषयोपलब्धिलक्षणेन फलेनानुमीय- ते, तथा परमेश्वरस्वरूपं सर्वगतमपि न दृश्यं, किन्त्वस्वतन्त्राणां पदा- र्थानां सत्ताप्रतीतिप्रवृत्तिभिर्ज्ञायत इति श्रुतितात्पर्यार्थो ऋग्भाष्यटी- कायामुक्तः । अनेनैव व्याप्ता एष प्राणास्तथा श्रुतेर्युक्तेश्चेति सयुक्तिक पूर्वपक्षः सूचितो भवति ॥ ( २ ) एवं व्याप्तिश्रुतिमुदाहृत्याणुत्वेऽपि श्रुतिमुदाहरति—अणुभि- रिति ॥ चः समुच्चये । श्रुतिः प्राणानामणुत्वं वक्तीति शेषः । पुरुषः ‘अणुभिः’ ज्ञानेन्द्रियैः ‘पश्यति’ तत्तदिन्द्रिययोग्यं वस्तु जानाति । एवं ‘अणुभिः’ कर्मेन्द्रियैः तत्तद्योग्यं कार्यं ‘कृणोति’ करोतीत्यर्थः । भावबोधे तु अणुभिः शृणोतीतिपाठमभिप्रेत्य ज्ञानकर्मकरणत्वलिङ्गा- दिति टीकावाक्येन ‘अणुभिः शृणोति’ इत्येतत्सर्वेन्द्रियोपलक्षणमि-

[ अधि - ६. सू - ९. ] दीपिकासहितम्. ६५३ णैर्हेतद्भवति' इति च कौण्डिन्यश्रुतिः । ( ३ ) अतो वक्ति— सू—ॐ ॥ अणवश्च ॥ ॐ ॥ ८ ॥ 'तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्हैवैष पुरुषो भवति' इति शाण्डिल्यश्रुतिः ॥ ८ ॥ —::— ६. अधिकरणम् ॥ ( १ ) 'नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता त्युक्तं भवतीत्युक्तम् । के तेऽणव इत्यतोऽणून् दर्शयति—प्राणा वा अ णव इति । ते चाणवः 'प्राणाः' इन्द्रियाणीत्यर्थः । कुतोऽणवः प्राणा इत्यत आह—प्राणैरिति ॥ 'हि' यस्मात् 'एतत्' पश्यतिकृणोतीत्या भ्यामुक्तं ज्ञानकर्माख्यकार्यं 'प्राणैः' इन्द्रियैरेव भवति तस्मादित्यर्थः॥ ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चोऽवधार णे, समुच्चये च । प्राणा इत्यस्ति । तथा च प्राणाः स्वरूपतोऽणव एव । न चोक्तश्रुतियुक्तिविरोधः । यतो न केवलमणवः, किन्तु प्रकाशतो व्याप्ताश्चेति सूत्रार्थः । अतिसुदृढार्थश्रुतिसिद्धे व्याप्तत्वे सति कुतोऽ णुत्वं प्राणानां, तेजसा व्याप्तिश्चेत्यत आह—तद्यथेति । 'तत्' वक्ष्य माणं निदर्शनं यथेत्यर्थः । 'अणुः' स्वरूपेण 'चक्षसः' चक्षुषः 'प्र काशः' तेजो 'व्याततः' व्याप्तं एवं 'पुरुषस्य' जीवस्य प्रकाशो व्या प्तः । मन्वस्तु अणुत्वात् चक्षुषः प्रकाशव्याप्तिः । जीवस्य कुत इत्यतो ऽस्याप्यणुत्वादित्याह—अणुरिति । 'हि' यस्मात् इति श्रुतिः चक्षुषःप दोपलक्षितानां प्राणानामणुत्वं प्रकाशव्याप्तिं च वक्तीति शेषः । अतो न सूत्रकृदुक्तस्याभावः शङ्कय इति वाक्यशेषः । यद्यप्यत्र श्रुतौ प्रका शव्याप्तावेव चक्षुषः दृष्टान्तत्वं प्रतीयते, न तु जीवस्याणुत्वेऽपि । त थाऽपि प्रकाशव्याप्तिसाधकाणुत्वस्य जीवेऽपि 'अणुर्ह्येषः' इत्यनेनो क्तत्वात्तदंशेऽपि दृष्टान्तत्वमभिप्रेतमिति भावः ॥ ५ ॥ ॥ इति अण्वधिकरणम् ॥ —::— ६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यप्राणजन्मविषयश्रुतिविरोधः परिह्रियते ।

६५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] अथैनमाहुर्मध्यमः' इति मुख्यप्राणस्यानुत्पत्ति इभूयते । ( २ ) यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ॥ इति च युक्तिर्वायुप्रोक्ते । 'आत्मत एष प्राणो जायते' ( प्र. ३-३० ) इति च । 'एतेन' इत्यधिकरणे बाह्यमुख्यवायुरुत्पत्तिविचारः कृतः । इह तु आ- ध्यात्मिकमुख्यवायुरुत्पत्तिविचार इति वा तत्र भूतप्रकरणत्वात् भूतमु- ख्यवायोः सम्मुग्धो विचारः । अत्र पुनः केवलो मुख्यविषय इति वा पूर्वस्मादस्य भेद इत्युक्तं तत्त्वप्रदीपे । मुख्यप्राण उत्पत्तिमान्न वेति सन्देहबीजं श्रुतिविरोधं दर्शयन् पूर्वपक्षं च दर्शयति—नेति ॥ 'एषः' मुख्यप्राणो 'नोदेति' नोत्पद्यते 'अस्तं' नाशं च '

[ अधि - ६. सू - १०. ] दीपिकासहितम्. ६५५ ( ३ ) अत आह— सू—ॐ ॥ श्रेष्ठश्च ॥ ॐ ॥ ९ ॥ ‘ सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सू- क्ष्मश्चाथो स्थूलश्च । प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽ- थैनमाहुः सादिरनादिरिति ’ गौपवनश्रुतेः ॥ ९ ॥ ( ४ ) सू—ॐ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ॐ ॥ १० ॥ चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते । ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चः समुच्च- ये । तथा च यथेतेरे प्राणाः परमात्मन उत्पद्यन्ते तथा प्राणेषु ‘श्रेष्ठो’ मुख्यप्राणोऽपि परमात्मन उत्पद्यत इत्यर्थः । तत्त्वप्रदीपे तु उत्पद्यतेऽनु- त्पद्यते चेति चशब्दार्थ उक्तः । ननु कुतो मुख्यप्राणस्योत्पत्तिः । तद- ङ्गीकारे अनादित्वश्रुतिविरोधः इत्यत आह—सौक्ष्म्येणेति । सूक्ष्मरूपे- णैत्यर्थः । हेत्यास्वादने, प्रमाणप्रसिद्धौ वा । वैशब्दोऽवधारणे । ‘एषः’ मुख्यप्राणः ‘ अवतिष्ठते ’ सर्वदा तिष्ठति । ‘ स्थूलत्वेन ’ स्थूलभावेन तद्रूपेण ‘ उदेति ’ कदाचिदुत्पद्यते ‘ अथो ’ तस्मात् सूक्ष्मत्वेन सर्व- दा स्थितत्वात् स्थूलरूपेण कदाचित् उदितत्वाच्चासौ प्राणः सूक्ष्मः स्थूलश्चेत्युच्यते । परस्परसमुच्चये चौ । ननु स्थूलादिभावस्य स्वरूप- त्वात्कथं तस्योत्पत्त्यादीत्यत उक्तम्—प्रकृतित इति । स्वभावत इत्य- र्थः । ‘ अन्यतः ’ शरीरादितः । तथा च स्थौल्यादिकं न स्वरूपमिति भावः । यद्यप्यस्येतरजीवसाधारणत्वान्न विशेषत्वम् । तथाऽपि शरी- रादिष्वेवायं स्थूलो, न त्वितरजीवानामिव चैतन्ये । तदभिमानकृत- विक्रियाविशेषषानिति भवति विशेषः । ‘ अथ ’ तस्मात्स्वरूपेणानुत्प- त्तिमत्त्वात्स्थूलरूपेणोत्पत्तिमत्त्वाच्च ‘ एनं ’ मुख्यं सादिरनादिरित्याहु- र्विद्वांस इत्यर्थः । श्रुतेरित्यस्य श्रेष्ठश्चोत्पद्यते अनुत्पद्यते चेति गम्यत इति सूत्रेणान्वयः ॥ ( ४ ) ननु प्राणानुत्पत्तिश्रुतिः सयुक्तिकत्वेन प्रबला, अतः कथमु- त्पत्तिश्रुतिमात्रानुसारणान्यथा व्याख्यायते । अपि तु उत्पत्तिश्रुतिरेव चेष्टाबाह्यवायुविषयतया व्याख्यातव्या । तयोरपि ‘ चेष्टायाम् ’ इति वाक्ये प्राणशब्दवाच्यत्वोक्तेरेतयोरनुत्पत्तिवचनाभावेन उत्पत्त्यङ्गीका- रे विरोधाभावात् इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—नेति ॥ चे- ष्टा स्पन्दनम् । बाह्यो भूतवायुः । चौ परस्परसमुच्चये । ‘ गीयते ’ प्रयु

६५६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ] प्राणशब्दस्त्रिषु ह्येषु मुख्ये मुख्यः प्रकीर्तितः । इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । (५) ‘स प्राणमसृजत ....खं वायुर्ज्योतिरापः....तपो म- न्त्राः कर्म’ (प्र.६-४.) इति पृथगुपदेशात् । • ज्यते एषु त्रिषु मध्ये ‘मुख्ये’ मुख्यप्राणे ‘मणिर्मुख्यं प्रधानञ्चेत्युभय- स्य वचो भवेत्’ इत्यभिधानात् ‘मुख्यः’ मुख्यवृत्तिमान् प्रकीर्तितो वृद्धैरित्यर्थः । इति व्यपदेशादित्यन्वयः । प्राणशब्दस्येति शेषः । तथा च प्राणशब्दस्य ‘चेष्टायाम्’ इति वाक्ये वायुक्रिययोरपि ‘व्यपदेशा- त्’ इत्युक्तेः ‘उत्पत्तिश्रुतिः’ ‘प्राणोजायत’ इत्युत्पत्तिवाक्यं ‘तयो- रुत्पत्तिश्रुतिः स्यात्’ तयोरुत्पत्तिवादिनी स्यादिति नोपपद्यते इति योजना । अनेन वायुक्रिये इति साध्यांशो व्याख्यातः ॥ (५) कुतो नेत्यतस्तत्र हेतुतया पृथगुपदेशादित्येतद्योजयति— स इति ॥ अत्र ‘उपदेशात्’ ‘आत्मनः’ इति वाक्यापेक्षया अन्यस्मा- त् ‘स प्राणमसृजत’ इति स्पष्टवाक्यादिति प्रथमं योज्यम् । अत्रा- पि चेष्टादिकं वाच्यं किं न स्यादित्याशङ्कायां तन्न हेतुत्वेन पृथगुपदे- शादिति समग्रं योजनीयम, तथा च इति षट्प्रश्नश्रुतौ स प्राणमित्युक्त्वा- त् प्राणाद्वायुकर्मणोः पृथगभिधानादित्यन्वयः । तथा च ‘सः’ इति श्रुतेरपिवायुक्रियोत्पत्तिपरत्वे पुनः वायुः कर्म चेति वायुचेष्टयोः पृथ- गुप्त्यभिधानं पुनरुक्तं स्यात्, अतो न तस्यास्तद्विषयत्वमितिभावः । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियम् । मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ इति मन्त्रस्यायमर्थः—‘सः’ प्रकृतः परमपुरुषो भगवान् पुरुष ‘प्राणं’ जीवकलाभिमानिनमसृजत् । ‘प्राणाच्छ्रद्धां’ प्राणं निमित्तीकृत्य जीव- स्यास्तिक्यनिष्ठां भारतीमसृजत । ततश्च ‘खं’ आकाशं वायुः ‘ज्यो- तिः’ तेज आपः पृथिवी इत्येतानि शरीरोपादानभूतानि पञ्चभूतान्यसृ- जत् । ततः ‘इन्द्रियं’ जीवस्य प्रवृत्त्युपकरणानि चक्षुरादीन्द्रियाणि प्रधानकरणं मनः तत्स्थितिकारणमन्नं चासृजत् । तस्मादन्नं निमि- त्तीकृत्य शरीरहेतुभूतं ‘वीर्यं’ रेतोऽसृजत् । ततो जीवस्य ज्ञानादिहे- तुतया सुखसाधनं तपोऽसृजत् । ततो ‘मन्त्राः’ जीवस्य साक्षात् ज्ञा- नादिहेतवो ये ऋगाद्याः तानसृजत् । यच्च सुखादिनिमित्तं पुण्यापुण्य-

[ अधि - ७, सू - ११० ] दीपिकासहितम्. ६५७ ( ६ ) भूतानि चेष्टामन्त्राश्च मुख्यप्राणादिदं जगत् । मुख्यप्राणः परस्माच्च न परः कारणान्वितः ॥ इति वायुप्रोक्ते ॥ १० ॥ ::- ७. अधिकरणम् ॥ ( १ ) ‘प्राणादिदमाविरासीत्प्राणो धत्ते प्राणे लयमभ्युपैति लक्षणं कर्म तच्चासृजत् । ‘लोकाः’ गोलकाः इन्द्रियाश्रयभूतास्तान्, लोकेषु सृष्टेषु सत्सु तं निमित्तीकृत्य देवदत्तादिनाम चासृजदिति । अत्र प्राणादिशब्दाः षोडशकलावाचिनः तत्तत्कलाभिमानिमुख्यप्रा- णादिवाचिनश्चेति । विष्णोः प्राणस्ततश्श्रद्धा तस्या रुद्रो मनोभिधः । ततस्त्विन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥ इति षट्प्रश्नभाष्ये स्पष्टम् । पूर्वपूर्वोत्पन्नकलाः उत्तरोत्तरकलोत्पत्तौ निमित्तभूता इत्येतदपि तत एव ज्ञातव्यम् ॥ ( ६ ) न केवलमर्थापत्त्यैव प्राणादिशब्दा भिन्नार्थाः, किन्तु स्मृत्या ऽपीत्यभिप्रेत्य श्रुत्यर्थनिर्णयात्मिकां स्मृतिं चाह—भूतानीति ॥ ‘खं वायुः पृथिवी’ इत्यन्तस्यार्थो—भूतानीति । कर्मेत्यस्य—चेष्टेति । ए- वमादीति शेषः । ‘स प्राणमसृजत’ इत्यस्य व्याख्यानं—मुख्यप्राणः ‘परस्मात्’ पराद्विष्णोरिति । आर्षस्समादादेशः । इति वायुप्रोक्ते इत्य- स्य पृथगुपदेशादित्यनेनान्वयः । प्राणादिशब्दानां भिन्नार्थत्वोक्तेरिति तदर्थः । अत्र ‘स प्राणमसृजत, मुख्यप्राणः परस्मात्’ इति श्रुतिस्मृति- भ्यां पूर्वपक्ष्युक्तयुक्तिविरोधोऽपि परिहृतः । ननु श्रुतिस्मृतिभ्यां मुख्य- प्राणस्य विष्णुजातत्वाभिधानेऽपि कथं युक्तिविरोधपरिहार इत्याश- ङ्का ‘न परः कारणान्वितः’ कारणजन्य इति स्मृत्यंशेन परिहृता । ‘य- त्प्राप्तिः’ इत्याद्युक्तमाहात्म्यवतोऽपि मुख्यप्राणस्य स्वापेक्षया कारणा- जन्यत्वादिरूपातिमाहात्म्योपेतविष्णूत्पन्नत्वोपपत्तेः तथा च मुख्यप्रा- णस्याखिलोत्पादकत्वं स्वनियम्यसर्वोत्पादकत्वे पर्यवस्यतीति न यु- क्ति विरोध इति भावः ॥ ६ ॥ ॥ इति श्रेष्ठाधिकरणम् ॥ —::— ७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यप्राणस्वातन्त्र्यास्वातन्त्र्यश्रुतिविरोधः ८३

[६५८] ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ]

न प्राणः किञ्चिदाश्रितः' इत्यग्निवेश्यश्रुतौ । (२) यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत् ॥ इति च युक्तिर्भारते ॥ (३) प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः । न परः किञ्चिदाश्रित्य वर्तते परमो यतः ॥ इति पैङ्गिश्रुतिः । परिह्रियते । मुख्यप्राणः स्वतन्त्रः परतन्त्रो वेति सन्देहबीजं श्रुतिवि- रोधं दर्शयन् पूर्वपक्षं च सूचयति—प्राणादिति ॥ 'प्राणात्' मुख्या- त् 'इदं' प्राणव्यतिरिक्तं जगत् 'आविरासीत्' अजायत । इदमित्ये- तत् धत्ते एतीत्यत्रापि सम्बध्यते । श्रुतावित्यनन्तरं प्राणस्य स्वातन्त्र्यं प्रतीयत इति शेषः । न किञ्चिदाश्रित इत्यनेनानन्याश्रयत्वरूपस्वात- न्त्र्यहेतुरुक्तेरिति भावः । अनेन मुख्यप्राणः स्वतन्त्र एव, तथा श्रुतेरि- ति सयुक्तिकपूर्वपक्षः सूचितः ॥ (२) स्वातन्त्र्यश्रुतेरितरश्रुत्या सत्प्रतिपक्षित्वशङ्कावारणाय यु- क्तिसाहित्येन प्राबल्यं स्मृत्या दर्शयति—यदिति ॥ 'अस्य' जगतः 'सः' प्राणः अन्यं कथमुपाश्रयेदित्यनन्तरं तस्मात्सकलजगच्चेष्टकत्वा- दत एवानन्याश्रयत्वात्प्राणः स्वातन्त्र्येण सर्वाश्रय इति वाक्यशेषः । अत एवाखिलजगच्चेष्टकत्वेन सिद्धानन्याश्रयत्वरूपयुक्तियुक्ततयेति टी- कार्थो द्रष्टव्यः । अस्य दृष्टान्तत्वेनोपादानाच्चैतत्सिद्धमित्याह-यथेति । 'एकाश्रयो' मुख्याश्रयः, भवेदिति प्रार्थनायां लिङ् । तथा चात्र रा- ज्ञः स्वातन्त्र्येण सर्वाश्रयत्वे मुख्यप्राणस्य दृष्टान्तीकरणात् सिद्ध- स्यैव दृष्टान्तत्वादिति । अनेन लिङ्गेन प्राणस्य स्वातन्त्र्येण सर्वाश्रयत्वं सिद्धमिति भावः । यथा राजा सर्वस्यैकाश्रयः तथा प्राणः सर्वस्यैका- श्रयः इति भाष्ययोजना तु शेषकरणटीकाविरुद्धा । युक्तिश्चेति सम्ब- न्धः । न केवलं श्रुतिरिति चार्थः । भारते उक्ताऽस्तीति शेषः ॥ (३) पारतन्त्र्ये श्रुतिमुदाहरति—प्राणस्येति ॥ 'एतत्' सर्वं जगत्प्राणस्य मुख्यस्य वशेऽस्तीत्यर्थः । 'परः' परमात्मा 'न परः कि- ञ्चिदाश्रितः' इत्यनेन तस्य स्वातन्त्र्यमाह । श्रुतिः' प्राणस्य पारत- न्त्र्यं वक्तीति शेषः ।

[ अधि - ७. सू - ११०. ] दीपिकासहितम्. ६५९ ( ४ ) अत आह— सू—ॐ ॥ चक्षुरादिवत्तु तत्सह शिष्ट्यादिभ्यः ॥ ॐ ॥ ११ ॥ चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव । 'सर्वे ह्येवैतत्परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च । स ह्येक एवैतानभ्यत्युन्नयति वशीकरोति' इति गौपवन श्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अपिशब्दो यथेतरे प्राणास्तथा मुख्यप्रणोऽपीति समुच्चये । मुख्यप्राण इत्यनेन सूत्रे श्रेष्ठपदानुवृत्तिः सूचिता । परमात्मवश इत्यनेन दृष्टान्तोक्त्या लब्धः साध्यभागो दर्शितः । एवेत्यनेन तुशब्दोऽवधारणेऽपीति सूचि- तम् । परमात्मवश इत्यावर्तते । तद्वशत्वेन शासनादित्यप्यावर्तते । तथा चेत्थं भाष्ययोजना-मुख्यप्राणोऽपि 'परमात्मवशः' तदधीन एव, न तु स्वतन्त्रः । कुतः ? 'तद्वशत्त्वेन शासनात्' 'प्राणः परवशे स्थितः' इति तस्य तद्वशत्वेन श्रुत्युक्तत्वात् । न चोत्पत्ताविव पारतं- त्र्येऽपि का चन व्यवस्था, अपि तु चक्षुरादिवदेव सर्वात्मना । कुतः? 'सर्वं ह्येतत्परमेऽवतिष्ठते' इति श्रुतौ चक्षुरादिभिः सह तद्वशत्वेन परमात्माधीनत्वेन प्रकारेण 'शासनात्' प्रतिपादनादिति । अनेन तस्यां तैस्सह तेन प्रकारेण तस्य शंसनादिति तच्छब्दो बहुधा व्या- ख्यातः । तद्वशत्वेनैवेत्यनेन तुशब्दार्थावधारणस्य तच्छब्दितप्रकारेणा- प्यन्वयः सूचितः । सूत्रे शिष्टीति शासुधातोरुपादानाद्भाष्येऽपि शासनादिति स एव गृहीतः । श्रुत्युक्तत्वादिति टीकानुसाराच्छंसना- दिति पाठः स्वरसः । तथात्वे धातोरर्थान्तरोक्तिः । अनेन-श्रेष्ठोऽपि परवश एव, कुतः ? 'तच्छिष्टेः' 'प्राणः परवशे स्थितः' इति तथा श्रुतेः । ननु प्राणस्योत्पत्तौ प्रकृतितः सूक्ष्मो देहतः स्थूल इति यथा व्यवस्था, एवं पारतन्त्र्येऽपि न स्वभावोपाधिकृतव्यवस्था, अपि तु चक्षुरादिवत्सर्वात्मनैव । कुतः? 'तत्सहशिष्ट्यादिभ्यः' तस्यां 'सर्वे म' इति श्रुतौ तस्य श्रेष्ठस्य तैश्चक्षुर्घाणादिभिस्सह तेन परवशत्वे- नैव प्रकारेण शिष्टेरुक्तत्वादिति सूत्रार्थ उक्तो भवति । श्रुत्यर्थस्तु- सर्वमेतज्जगत् 'परमे' परमात्मन्यवतिष्ठते 'हि' प्रसिद्धम् । किं तत्स धर्मित्यतो विवृणोति—'प्राणो' मुख्यप्राणः 'प्राणाः' इतरेन्द्रियाणि 'प्राणिनो' जीवा इति । चशब्दाः मिथः समुच्चये । अत्र हेतुमाह—स

६६० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] ( ५ ) सर्वकर्ताऽपि सन्प्राणः परमाधारतःस्थितः । कथमेवान्यथा स स्याद्यतो नैवेश्वरद्वयम् ॥ ( ६ ) अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यममाहुस्तस्य वेदेषु वेदिनः ॥ ( ७ ) अनन्येश्वरता प्राणे तदन्येश्वरवर्जना । हीति । 'हि' यस्मात् 'सः' परमात्मा 'एक एव' स्वतन्त्र एव 'एता न्' प्राणादीन् 'नयति' जन्मादिकं प्रापयति 'उन्नयति' ऊर्ध्वं नय ति मोचयतीति यावत् । 'वशीकरोति' स्ववशवर्तिनः करोतीति ॥ ( ५ ) ननु प्राणस्वातन्त्र्येऽखिलचेष्टकत्वयुक्तियुक्तायाः 'न प्राणः किञ्चिदाश्रितः' इति श्रुतेः सद्भावात् 'प्राणः परवशे स्थितः' 'सर्वं ह्येतत्' इति श्रुतिमात्रेण न पारतन्त्र्यनिर्णय इत्यत आह—सर्वेति ॥ अपिर्यद्यपीत्याद्यर्थे, विशेषणसमुच्चये वा । 'परमाधारतः' परमात्मा धारकत्वेन स्थितः । तथा च स्वभिन्नसर्वचेष्टकत्वाभ्युपगमान्न युक्ति विरोध इति भावः । तर्हि 'प्राणादिदमाविरासीत्प्राणो धत्ते' इति स र्वेश्वरत्वापरपर्यायसर्वकर्तृत्वश्रुत्या 'न प्राणः किञ्चिदाश्रितः' इत्यन न्याश्रयत्वश्रुत्या च विरोध इत्यत आह—कथमिति । 'अन्यथा' पर मात्माधारत्वं विना 'सः' मुख्यप्राणः कथमेव स्वतन्त्रस्स्यात्, न क थंचित् । कुतः? यतो मुख्यप्राणस्वातन्त्र्याङ्गीकारे 'सर्वं ह्येतत्परमेऽव तिष्ठते' इति श्रुत्युक्तभगवत्स्वातन्त्र्यस्य हातुमशक्यत्वेन ईश्वरद्वय मङ्गीकार्यम्, तच्चानुपपन्नम्, अन्योन्यानुरोधाननुरोधयोः सर्वैश्वर्यहा नेः, अतः। तथा च ईश्वरद्वयानुपपत्तिरूपयुक्तिविरोधात् सर्वेश्वरत्वा नन्येश्वरत्वश्रुतिर्बाध्येत इति भावः ॥ ( ६ ) ननु श्रुतेर्बाधायोगात् अर्थान्तरं वक्तव्यम्, स क इत्यत आ ह—अवान्तरेति ॥ मध्यमेश्वरत्वरूपवाच्येन निमित्तेनेत्यर्थः । 'तस्य' मुख्यप्राणस्य 'ईश्वरवचः' ईश्वरत्वबोधकं 'प्राणो धत्ते' इत्यादिसर्वे कर्तृत्ववचनम् । ननु मुख्येश्वरत्वमेव तदर्थः किं न स्यादित्यत आह- अत इति । अवान्तरेश्वरत्वादेव 'तस्य' मुख्यस्य 'वेदिनां' ज्ञानिनः वृद्धाः 'वेदेषु' 'मध्यमः प्राणो' 'मध्ये स्थाता' इत्यादिरूपेषु 'म ध्यमतां' प्राहुरित्यर्थः । अन्यथा तन्न स्यादिति भावः ॥ ( ७ ) एवमीश्वरश्रुतेर्गतिमुक्त्वा अनन्येश्वरत्वश्रुतेरपि गतिमाह-

[ अधि - ७. सू - १२. ] दीपिकासाहितम्. ६६१ यतो विशेषवाक्येन हीयते समतावचः ॥ (८) 'नान्योऽतोऽस्ति द्रष्टा' (बृ.५-७-२३.) 'नान्यदतो ऽस्ति द्रष्टृ' (बृ.५-८-११.) इत्यादिवचनयुक्तयश्चा दिशब्दोक्ताः ॥ ११ ॥ (९) सू—ॐ ॥ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ॐ॥१२॥ इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वाच्च त अनन्येति ॥ 'तदन्येश्वरवर्जना' भगवद्व्यतिरिक्तेश्वरराहित्यमेव अ नन्येश्वरता । तथा च 'न प्राणः किञ्चिदाश्रितः' इत्यनन्याश्रयताऽपर पर्यायानन्येश्वरताबोधकवाक्यस्य प्राणो भगवद्व्यतिरिक्तं किञ्चिन्ना श्रित इत्यर्थ इति भावः । तदन्येश्वरवर्जनादिति पञ्चम्यन्तपाठेऽप्यय मेवार्थः । न केवलं यतो नैवेत्युक्तेश्वरद्वयानुपपत्तिरूपयुक्तिविरोधा त् 'प्राणादिदमाविरासीत्' इति श्रुतेः अन्यार्थता, किन्तु विशेषश्रुते रपीत्याह—यत इति । 'विशेषवाक्येन' 'प्राणस्यैतद्वशे सर्वम्' इति विशेषवाक्येन च 'समतावचः' समतया साधारण्येन युक्तं वचः, स्वा र्थे त्यक्त्वा, साधारणवचनं 'प्राणात्' इत्येतत् 'हीयते' अवान्तरेश्वरत्वा द्यर्थान्तरपरतया नीयत इत्यर्थः । इति यतोऽत उक्त एवार्थ इति शेषः ॥ (८) इदानीं सहशासनरूपवाक्यापेक्षया भिन्नं सौत्रादिशब्दगृ हीतमुदाहरति—नेति ॥ अत्र वाक्यद्वये 'अतः' भगवतस्सकाशाद न्यः स्वातन्त्र्येण द्रष्टा नास्तीति भगवदितरस्य स्वातन्त्र्येण द्रष्टृत्वा भाव उच्यते इत्यस्य प्रकृतोपयोगिता । वचनेति वचनानि च युक्त यश्च वचनयुक्तयः, वचनोक्ता युक्तय इति वा । 'यतः' इत्यनेन ईश्व रद्वयायोगादिति युक्तेः, 'अतो मध्यमतामाहुः' इत्यनेन मध्यमत्वादि युक्तेः, द्वितीयेन 'यतः' इत्यनेन सामान्यवाक्यस्य विशेषवाक्यबलेन नेयत्वादिति युक्तेः, 'नान्यः' इत्यादिनाऽन्यस्य स्वातन्त्र्येण द्रष्टृत्वादे रभावादिति युक्तेश्च उक्तत्वादिति भावः ॥ (९) ननु यदि चक्षुरादिवदेवेश्वराधीनत्वं मुख्यप्राणस्य, तर्हि तद्वदेव तस्यावान्तरेश्वरत्वाद्यसम्भवेन 'न प्राणः किञ्चिदाश्रितः' इति स्वातन्त्र्यश्रुतिर्व्यर्था स्यादित्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्या चष्टे—अकरणत्वादिति ॥ करणत्वादित्यनेन चशब्दश्चक्षुरादीनां कर णत्वसमुच्चयार्थ इति सूचितम् । 'मुख्यस्य' प्राणस्येत्यनेन श्रेष्ठ इत्य स्य विपरिणामेनानुवृत्तिः सूचिता । 'तस्य' मुख्यस्य 'अन्येभ्यः' इन्द्रि

६६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] स्यान्येभ्य उत्तमत्वं युज्यते । (१०) माण्डव्यश्रुतिश्च 'तानि ह वा एतानि सर्वाणि करणा न्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इ त्याचक्षते' इति ॥ १२ ॥ —❖— ८. अधिकरणम् ॥ (१) 'सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः येभ्य 'उत्तमत्वे' अतिशयः । यद्यपि चक्षुरादीनां मुख्यस्य चेश्वरवश त्वसाम्यात्तेषां कर्तृप्रयोज्यत्वरूपं करणत्वं मुख्यप्राणस्य तदप्रयोज्य त्त्वरूपमकरणत्वमित्येतद्वैलक्षण्यं नोपपद्यते । तथाऽपि सुप्त्यादौ व्यापाराभावाभावरूपयुक्त्या 'तानि ह वा' इति श्रुत्या चैतद्वैलक्षण्यं सिद्ध्यतीति नानुषपत्तिः । युज्यत इत्यनन्तरमतो न वैयर्थ्याख्योदोष इति वाक्यशेषः । हेतुसिद्धिपरिहाराय—तथाहीत्युक्तम् ॥ (१०) तत्सूचितश्रुतिमुदाहर्तुं प्रतिजानीते—माण्डव्येति ॥ माण्ड व्यानां श्रुतिरत्रार्थे प्रमाणत्वेन भवतीत्यर्थः । न केवलं सूत्रोक्तिरिति चार्थः । तां श्रुतिं पठति—तानीति । 'तान्येतानि' चक्षुरादीनि । स ङ्कोचशङ्कावारणाय-सर्वाणीति । 'करणानि' कर्तृप्रयोज्यानि इति यतः 'अथ' तस्मान्मुख्यप्राण एक एव 'अकरणः' कर्त्रप्रयोज्यः 'तस्मान्मु ख्यः' तस्मान्मुख्यत्वादेनं प्राणं मुख्य इत्याचक्षते विद्वांस इत्यर्थः । इति माण्डव्यश्रुतिरित्यन्वयः । अनेन-'हि' यस्मात् 'तथा' अकरणत्वा दिप्रकारेण श्रुतिरेनं मुख्यं चक्षुरादींश्च 'दर्शयति' प्रतिपादयति त स्मान्मुख्यस्याकरणत्वाच्चक्षुरादीनां च करणत्वादस्माद्वैलक्षण्यात्त स्येतरेभ्योऽतिशयो युज्यते । यत एवमतो न श्रुतिवैयर्थ्याख्यो दोष इति सूत्रार्थ उक्तो भवति ॥ ७ ॥ ॥ इति चक्षुराद्यधिकरणम् ॥ —*— ८. अधिकरणम् ॥ (१) अत्र प्राणापानादेर्मुख्यप्राणस्वरूपत्वतद्दासत्वविषये श्रुति विरोधः परिह्रियते । सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूच यति सर्व इति ॥ वैशब्दः प्रसिद्धौ । एत इत्येतद्विवृणोति—प्राण इ

[ अधि - ८. सू - १३. ] दीपिका सहितम्. ६६३ समान इत्यथ प्राणो वाव सम्राट् ' इति कौण्डिन्यश्रुतिः । ( २ ) प्राणापानादयस्सर्वे मुख्यदासा यतोऽनिशम् । अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते ॥ इति युक्तिर्वायुप्रोक्ते । ( ३ ) मुख्यस्यैव स्वरूपाणि प्राणाद्याः पञ्च वायवः । स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम् ॥ इति गौपवनश्रुतिः ॥ ( ४ ) अतो वक्ति— ति । इत्येत इत्यन्वयः । ' अथ ' तस्मात् ' प्राणो ' मुख्यः ' सम्राट् ' स र्वेश्वरत्वेन प्रकाशमानः । श्रुतिरिति । दासत्वं वक्तीति शेषः ॥ ( २ ) न चास्याः स्वरूपत्वश्रुतिविरोधो युक्तियुक्तत्वादित्याशयेन तां युक्तिं स्मृत्या दर्शयति—प्राणेति ॥ यतः सर्वे प्राणापानादयोऽनि शं मुख्यस्य प्राणस्य दासाः, अत एव तदाज्ञया नित्यं स्वानि कर्माणि कुर्वन्तीत्यर्थः । प्राणादीनां कर्माणि यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । ( ) ऊर्ध्वं प्राण उन्नयत्यपानं प्रत्यगस्यति ( कठ. ५-३० ) ॥ इत्यादि श्रुतिषु, प्राणः प्रवृत्तिहेतुः स्यादपानः तन्निवर्तने । वनकर्मा तथा व्यानः उदानो योगकर्मकृत् ॥ देहेन्द्रियमनोनेता समानोऽन्तस्स्थितिप्रदः ॥ इतिबृहद्भाष्योदाहृतस्मृतौ चोक्तानि । इतीति । एवं वायुप्रोक्ताख्यग्र न्थवचने उक्तमित्यर्थः । अनेन प्राणादयो मुख्यदासास्तदाज्ञया कर्म कारित्वादिति सप्रतिज्ञा युक्तिरुक्ता भवति ॥ ( ३ ) एवं दासत्वे श्रुतिमभिप्राय प्राणादीनां मुख्यस्वरूपत्वेऽपि श्रु तिमुदाहरति—मुख्यस्यैवेति ॥ ' स एव ' मुख्य एव । अत्र मुख्यस्य स्वरूपाण्येव, स एवेतिद्विरवधारणेन स्वरूपत्वे तात्पर्यमुक्तम् । तेन स्वरूपत्वे श्रुतेरपि प्राबल्यं सिद्ध्यति । अनेन श्रुतिद्वयस्यापि समानब लत्वेन विरुद्धत्वाच्चानिर्णायकत्वादप्रामाण्यमिति पूर्वपक्षः सूचितो भवति ॥ ( ४ ) अथ सिद्धान्तयत्सूत्रमवतार्य, तस्य प्राणादयः पञ्च न केव

६६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] सू—ॐ ॥ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ ॐ ॥ १३ ॥ अथ पञ्चवृत्त्यैतत्प्रवर्तते। प्राणो वाव पञ्चवृत्तिः। प्रा णोऽपानो व्यान उदानः समान इति। तेभ्यो वा एते भ्यः पञ्च दासाः प्रजायन्ते। प्राणाद्वाव प्राणोऽपानादपा नो व्यानाद्व्यान उदानादुदानः समानादेव समानः। (५) यथा ह वै मनः पञ्चधा व्यपदिश्यते मनो बुद्धिरहङ्कार श्चित्तं चेतनेति। तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजा लं मुख्यदासा एव, किन्तु तद्वृत्तयोऽपि मुख्यप्राणस्वरूपभूताश्च । कुत एतत् ? यस्मात् 'अथ' इति श्रुतौ श्रेष्ठो मनोवत् पञ्चवृत्तिर्व्यप दिश्यते तस्मात् । यद्वा—श्रेष्ठः 'पञ्चवृत्तिश्च' पञ्चदासवान् पञ्चवृत्तिमां श्च, कुतः ? यतो 'मनोवत्' मनोदृष्टान्तेन पञ्चवृत्तिर्व्यपदिश्यते, अत इत्यध्याहारविपरिणामानुषङ्गपदभेदैस्तं विना वा स्पष्टार्थत्वात्तदुपात्त श्रुतिमेवोदाहरति—अत इति ॥ अथेतिश्रुतौ प्रमेयान्तरारम्भेऽथशब्दः। 'पञ्चवृत्त्या' पञ्चवृत्तिना 'एतत्' शरीरम् । कः पञ्चवृत्तिरित्याह—प्राण इति । वावेति निपातसमुदायः । प्रसिद्धौ । पञ्च वृत्तयः स्वरूपाणि यस्य स तथोक्तः । कास्ताः पञ्च वृत्तय इत्यत आह—प्राण इत्यादि । इति पञ्चवृत्तिरित्यन्वयः । अत्र प्राणादिशब्दाः देवतापराः, न तु जडप राः 'तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते' इत्युत्तरवाक्यविरोधा त् । एवं स्वरूपाण्यभिधाय दासानाह—तेभ्य इति । श्रुतिप्रसिद्धेभ्यः शरीरगतेभ्यश्चेत्यर्थः । पञ्चानां दासत्वोपपादनाय प्राणादिजन्यत्वमु क्तम् । कस्मात् कस्य जन्मेत्यतस्तद्विवृणोति—प्राणादिति ॥ (५) एवं दार्ष्टान्तिकार्थक श्रुत्यंशमुदाहृत्येदानीं मनोवदिति दृष्टा न्तं विवृण्वन् श्रुत्यंशमुदाहरति—यथेति । हेत्यास्वादने । प्रसिद्धौ वै शब्दः । सङ्कल्पविकल्पात्मकं मनः । करिष्ये यक्ष्ये इत्यादिक्रियाहेतुभू तः कामः सङ्कल्पः । स एव नानार्थविषयो विकल्पः । निश्चयरूपा बु द्धिः । अस्वरूपे स्वातन्त्र्याद्यस्वधर्मे स्वरूपत्वमतिः स्वधर्मत्वबुद्धिः अहङ्कारोऽभिमानः इति तत्त्वप्रदीपोक्तेः । स्मरणहेतुश्चित्तम् । चेतसः स्मरणस्य व्याप्तिर्बहुविषयकत्वं तदनुकूलशक्तिश्चेतना । चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम् । बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयते ॥

[ अधि - ९. सू - १४. ] दीपिकासहितम्. ६६५


धन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चि त्ताच्चित्तं चेतनाया एव चेतनैवमिति' इति ॥ १३ ॥ ——— ❋ ——— ९. अधिकरणम् ॥ ( १ ) 'प्राण एवाधस्तात्प्राण उपरिष्टात्प्राणो मध्यतः प्राण इति वचनात् । अत्र मनस इति शेषः । इति पञ्चधेत्यन्वयः । उपादानो पादेयैक्यविवक्षया सङ्कल्पविकल्परूपं मन इत्याद्युक्तिः । अत एवे तरेयभाष्ये सङ्कल्पविकल्पयोर्हृदयमनोरूपत्वमुक्तम् । अत्रापि मनआ दिशब्दैर्देवता उच्यन्ते । उत्तरवाक्ये दासत्वोक्तेः टीकायां जडलक्ष णोक्तावपि तदभिमानितया चेतनानामपि लक्षितत्वान्न तद्विरोधः । एवं मनस्स्वरूपाण्युक्त्वा तस्य पञ्च वृत्तीराह—तेभ्य इति । तदुपपादय ति—मनस इति । एवमित्यस्य एवं प्राणो वाव पञ्चवृत्तिरिति पूर्वेणान्व यः । श्रुतिगतस्य द्वितीयोतिकरणस्य इति तेभ्यः पञ्च दासाः प्रजाय न्त इति पूर्वेणान्वयः । भाष्यकारीयस्यान्तिमस्येतिशब्दस्य श्रुतिस माप्तियोतकस्य इति व्यपदिश्यत इति सौत्रपदेनान्वयः । अतएव टी कायां तदुपात्तश्रुतिमित्युक्तम् । श्रुतिनामाग्रहणात्कौण्डिन्यश्रुतिरि यमिति निश्चेतुं न शक्या । पञ्चकविवेकस्तु— प्राणाद्यास्त्रिविधाः पञ्च प्रधानो वायुरेव च । मुख्यपञ्चकरूपस्सन् गरुडो मध्यमपञ्चकः ॥ अवमाः पञ्चकास्त्वन्ये प्राणाद्यास्तस्य सूनवः । इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः ॥ प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ । रुद्रेन्द्रौ तत्परश्श्रेष्ठो वायुर्व्यान उदाहृतः ॥ इति छान्दोग्यभाष्यादवगन्तव्यः । एतेन सयुक्तिकश्रुतिविरोधः परि हृतः । स्वरूपत्वदासत्ववचनयोर्भिन्नव्यक्तिविषयत्वात् ॥ ८ ॥ ॥ इति पञ्चवृत्त्यधिकरणम् ॥ ——— ❋ ——— ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे मुख्यप्राणपरिमाणविषयश्रुतिविरोधः परि हियते । यद्यपि जीवाणुत्वोक्त्यैव प्राणस्याप्यणुत्वं सिद्धमिति न पृथ ग्विचार्यत्वम् । तथाऽपि तत्र चैतन्यविषये विचारः । अत्र तु रूपविषय ८४

३३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] स्सर्वतः प्राण एवेदं सर्वम्' इति प्राणस्य व्याप्तिः प्र तीयते । ( २ ) यतस्सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु । अतो धृतं जगत्सर्वमन्यथा केन धार्यते ॥ इति च युक्तिर्वायुप्रोक्ते । इति न गतार्थता । यद्यपि 'अणवश्च' इत्यनेनेदं गतार्थं, मुख्यस्यापि प्राणत्वात् । तथाऽप्यस्य बहिर्देहादपि व्याप्तेः सत्त्वात्, कर्तृप्रयोज्यत्वे न इन्द्रियाद्विलक्षणत्वाच्च 'अणुश्च' इति पृथगणुत्वसमर्थनं युक्तमिति ध्येयम् । मुख्यप्राणो व्याप्तोऽणुर्वेति सन्देहबीजं श्रुतिविगानं दर्शयन् पूर्वपक्षं च सूचयति - प्राण एवेति ॥ अत्र प्राणशब्देन मुख्यप्राण उ च्यते । तस्याभ्यासस्तात्पर्यार्थोऽन्यत्वशङ्कानिरासार्थश्च । 'सर्वतः' सर्वदिक्षु अस्तीति शेषः । 'सर्वं' सर्वसत्ताप्रदः । एवशब्दस्य द्विर्ग्रह णं सर्वत्रानुषङ्गार्थम् । प्राधान्याभिप्रायेणैवकारः । इतीत्यनन्तरं श्रुता विति शेषः ॥ ( २ ) नन्वणुत्वेऽपि श्रुतिरस्तीति तद्विरोधोऽस्या इत्यत आह— यत इति ॥ तुशब्दोऽवधारणे । अतस्त्विति सम्बध्यते । तेन पूर्वार्धोक्त स्य व्यापकतासिद्धिः । एवकारोऽन्यप्राधान्यव्यवच्छेदकः । सङ्कोच निरासाय सर्वशब्दः । 'अन्यथा' सर्वत्र व्याप्यभावे, असौ न धार येदिति शेषः । ततश्च सर्वं जगत्केन धार्यते, न केनापीत्यर्थः । इति वा युप्रोक्ते ग्रन्थे उक्ता युक्तिश्चात्रार्थे मानमित्यर्थः । न केवलं श्रुतिरिरिति वार्थः । वायुप्रोक्ते चेति वा चान्वयः । तथात्वे न केवलं वायुप्रोक्ते जग द्धारकत्वयुक्तिरुक्ता, किन्तु 'सप्तस्कन्धगतो लोकान्यो विभर्ति महा बलः' इति हरिवंशेऽपीति समुच्चयार्थश्चकारः । तथा च व्याप्तिश्रुतेर्यु क्तियुक्तत्वेन प्राबल्यात् नाणुत्वश्रुतिविरोधोऽस्या इति भावः । एको नपञ्चाशन्मरुतां दितिगर्भे प्रविष्टानां गणशः सप्तधेन्द्रेण विभक्तानां पु नश्चैकैकशः सप्तधा कृतानां सप्तस्कन्धसंज्ञा समजनि । तान् गतो यो महाबलो लोकान् बिभर्तीति हरिवंशवचनार्थः । 'सप्तस्कन्धा इमे स प्त चरन्तु मम पुत्रकाः' इति दिति वचनात्, 'सप्तगणा वै मरुतः' (तै. सं.२-२-५०) इति श्रुतेः, सप्त सप्तका हि ते इति ऋग्भाष्यटीकोक्तेश्च । केचित्तु स्वस्कन्धेन गतः प्राप्तः सप्त लोकान् बिभर्तीत्यर्थमाहुः । तन्न, 'सप्तस्कन्धगतो लोकान् त्रीन् दधार चचार ह' इति पाठान्तरविरो

[अधि - ९. सू - १४.] दीपिकासहितम्. ६६७ ( ३ ) 'अणुर्नैतत्सृज्यते अणुर्नैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणैर्हीतद्भवति' इति च सौत्राय णश्रुतिः ॥ ( ४ ) अत आह - सू - ॐ ॥ अणुश्च ॥ ॐ ॥ १४ ॥ 'स वा एष प्राणोऽणुर्महान् नामान्तर्वा अणुर्बहिर्महान् । प्रा णो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च पर धात् । मरुत्सु प्रधाना ये सप्त मरुतः तेषां स्कन्धगतो मुख्यवायुः लोकान् बिभर्तीति व्याख्यानमप्युक्तप्रमाणविरुद्धम् । एतेन महदहङ्कारपञ्चभू ताख्यसप्तस्कन्धगत इत्यर्थ इति पक्षोऽपि निरस्तः ॥ ( ३ ) एवं व्याप्तिश्रुतिं प्रदर्श्याणुत्वश्रुतिं दर्शयति - अणुनेति ॥ 'ए तत्' शरीरं जगद्वा । अणुः क इत्यत आह - प्राणो वेति । अत्रोक्तोऽ णुः श्रेष्ठः प्राणः कुतः, अन्यः किं न स्यादित्यतो जगत्स्रष्टृत्वादिकमु क्तम् । तस्योपनयमाह - प्राणैर्हीति । हिः प्रसिद्धौ यत इत्यर्थे च । 'एतत्' जगत्स्रष्टृत्वादिकम् । श्रुतिरित्यनन्तरमणृत्वं वक्तीति शेषः । अनेन प्रबलव्याप्तिश्रुतिविरोधादणुत्वश्रुतिरप्रमाणमिति पूर्वपक्षस्सू चितः ॥ ( ४ ) सिद्धान्तयत्सूत्रमवतारयति - अत इति ॥ सूत्रे चशब्द ए वार्थो व्याप्तत्वसमुच्चयार्थश्च । श्रेष्ठ इति चानुवर्तते । तथा च श्रेष्ठो मु ख्यप्राणरूपेणाणुरेव । न च व्याप्तिश्रुत्यादिविरोधः । यतो न केवलम णुः, किन्तु बहिर्देहाद्वर्तमानेन मुख्यप्राणरूपेणाण्डादिव्याप्तश्च, अत इ ति सूत्रार्थः । कुतोऽयं विशेष इत्यत आह - स इति । वै नामेति निपा तौ प्रसिद्धयर्थौ । 'एष प्राणो' मुख्यप्राणोऽणुर्महांश्च भवति । न चैक स्मिन्नुभयोर्विरोध इत्यत आह - अन्तरिति । देहस्यान्तरणुः हृदयसु षिरस्थ सूक्ष्मत्वादिति तत्त्वप्रदीपोक्तेः । तथा च अध्यात्मगतप्राणरूपे णाणुरित्यर्थः । 'बहिः' देहात् । तथा चाधिदैवगतवायुरूपेण 'महा न्' व्याप्त इत्यर्थः । तत्र बहिर्देहत एव व्याप्तिः, अन्तस्तु प्राणस्य देह तोऽप्यणुत्वमिति विवेकः । नन्वत्र श्रुतः प्राणो मुख्य इति कुत इत्यतो वाक्यशेषादित्याशयेन तमुदाहरति - प्राण इति । वै प्रसिद्धौ । ईशित व्यश्चासावीशश्चेति विग्रहः । तदुभयं विवृणोति - ईश इति । 'हि' यतः 'असौ' मुख्यः 'सर्वस्य' स्वपरमात्मातिरिक्तस्य जगतः 'ईशः'

६६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] स्य' इति कौण्डिन्यश्रुतिः ॥ १४ ॥ * १०. अधिकरणम् ॥ ( १) करणत्वं प्राणानामुक्तम् । जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः । यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिषु ॥ इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते । ( २ ) 'ब्रह्मणो वा एतानि करणानि चक्षुश्श्रोत्रं मनो वागि ति । तद्धेतैः कारयति' इति काषायणश्रुतौ । स्वामी 'परस्य' परमात्मनः 'ईशितव्यः' भृत्यः । श्रुतिरित्त्यनन्तरं उ क्तविशेषमाहेति शेषः। अनेन पूर्वोदाहृतव्याप्तिश्रुतौ प्राणशब्दो मुख्य वायुपर इति सूचितम् ॥ ९ ॥ ॥ इति अण्वधिकरणम् ॥ * १०. अधिकरणम् ॥ ( १ ) अत्रेन्द्रियविषयश्रुतिविरोधः परिह्रियते । अधिकरणसङ्गतिं दर्शयति—करणत्वमिति ॥ 'प्राणानां' इन्द्रियाणां करणत्वं 'अकर णत्वाच्च' इति चशब्देन 'उक्तं' सूचितमित्यर्थः । सन्देहबीजं श्रुति विरोधं दर्शयन् पूर्वपक्षं च सूचयति—जीवस्येति । तेषामेवेत्याद्यावु पस्कार्यम् । अस्य जीवकरणत्वं प्रतीयत इत्यनेनान्वयः । श्रुतौ तुश ब्दोऽवधारणे । 'सर्वशः' सर्वान् । तथा च वृद्धाः ज्ञानिनः सर्वशः स र्वान् 'प्राणान्' इन्द्रियाणि 'जीवस्यैव करणानि' तदपेक्षयैव तत्प्रयो ज्यानीत्याहुरित्यर्थः । कुत इत्यतस्तत्र हेतुमाह—यस्मादिति ॥ यस्मा त् 'एते' प्राणाः 'सर्वदेहिषु' सर्वप्राणिभिः 'तद्वशगाः' जीववशव र्तिनः स्वस्ववशा एव 'दृश्यन्ते' अनुभूयन्ते तस्मादित्यर्थः ॥ ( २ ) एवं जीवकरणत्वश्रुतिमुदाहृत्य तद्विरुद्धश्रुतिमुदाहर ति—ब्रह्मण इति ॥ एतानीत्यस्य व्याख्यानं—चक्षुरित्यादि । इत्येता नीत्यन्वयः । अत्र हेतुमाह—तदिति । 'तत्' ब्रह्म । हिशब्दो यस्मादि त्यर्थे । 'एतैः' इन्द्रियैः । इन्द्रियाणि कर्म कुर्वन्ति, तैर्ब्रह्म कारयतीति करणे कर्तृत्वोपचारः । एतैर्ब्रह्म करोतीति फलितार्थः । चः श्रुतिसमु च्चये । श्रुतावित्यनन्तरं ब्रह्मकरणत्वं प्रतीयते इति शेषः । श्रुतावित्यने