पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 710, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - १३. ] दीपिका सहितम्. ६६३ समान इत्यथ प्राणो वाव सम्राट् ' इति कौण्डिन्यश्रुतिः । ( २ ) प्राणापानादयस्सर्वे मुख्यदासा यतोऽनिशम् । अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते ॥ इति युक्तिर्वायुप्रोक्ते । ( ३ ) मुख्यस्यैव स्वरूपाणि प्राणाद्याः पञ्च वायवः । स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम् ॥ इति गौपवनश्रुतिः ॥ ( ४ ) अतो वक्ति— ति । इत्येत इत्यन्वयः । ' अथ ' तस्मात् ' प्राणो ' मुख्यः ' सम्राट् ' स र्वेश्वरत्वेन प्रकाशमानः । श्रुतिरिति । दासत्वं वक्तीति शेषः ॥ ( २ ) न चास्याः स्वरूपत्वश्रुतिविरोधो युक्तियुक्तत्वादित्याशयेन तां युक्तिं स्मृत्या दर्शयति—प्राणेति ॥ यतः सर्वे प्राणापानादयोऽनि शं मुख्यस्य प्राणस्य दासाः, अत एव तदाज्ञया नित्यं स्वानि कर्माणि कुर्वन्तीत्यर्थः । प्राणादीनां कर्माणि यद्वै प्राणिति स प्राणो यदपानिति सोऽपानः । ( ) ऊर्ध्वं प्राण उन्नयत्यपानं प्रत्यगस्यति ( कठ. ५-३० ) ॥ इत्यादि श्रुतिषु, प्राणः प्रवृत्तिहेतुः स्यादपानः तन्निवर्तने । वनकर्मा तथा व्यानः उदानो योगकर्मकृत् ॥ देहेन्द्रियमनोनेता समानोऽन्तस्स्थितिप्रदः ॥ इतिबृहद्भाष्योदाहृतस्मृतौ चोक्तानि । इतीति । एवं वायुप्रोक्ताख्यग्र न्थवचने उक्तमित्यर्थः । अनेन प्राणादयो मुख्यदासास्तदाज्ञया कर्म कारित्वादिति सप्रतिज्ञा युक्तिरुक्ता भवति ॥ ( ३ ) एवं दासत्वे श्रुतिमभिप्राय प्राणादीनां मुख्यस्वरूपत्वेऽपि श्रु तिमुदाहरति—मुख्यस्यैवेति ॥ ' स एव ' मुख्य एव । अत्र मुख्यस्य स्वरूपाण्येव, स एवेतिद्विरवधारणेन स्वरूपत्वे तात्पर्यमुक्तम् । तेन स्वरूपत्वे श्रुतेरपि प्राबल्यं सिद्ध्यति । अनेन श्रुतिद्वयस्यापि समानब लत्वेन विरुद्धत्वाच्चानिर्णायकत्वादप्रामाण्यमिति पूर्वपक्षः सूचितो भवति ॥ ( ४ ) अथ सिद्धान्तयत्सूत्रमवतार्य, तस्य प्राणादयः पञ्च न केव