पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 711, कुल 1267 में से
संदर्भ में पढ़ें६६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] सू—ॐ ॥ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ ॐ ॥ १३ ॥ अथ पञ्चवृत्त्यैतत्प्रवर्तते। प्राणो वाव पञ्चवृत्तिः। प्रा णोऽपानो व्यान उदानः समान इति। तेभ्यो वा एते भ्यः पञ्च दासाः प्रजायन्ते। प्राणाद्वाव प्राणोऽपानादपा नो व्यानाद्व्यान उदानादुदानः समानादेव समानः। (५) यथा ह वै मनः पञ्चधा व्यपदिश्यते मनो बुद्धिरहङ्कार श्चित्तं चेतनेति। तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजा लं मुख्यदासा एव, किन्तु तद्वृत्तयोऽपि मुख्यप्राणस्वरूपभूताश्च । कुत एतत् ? यस्मात् 'अथ' इति श्रुतौ श्रेष्ठो मनोवत् पञ्चवृत्तिर्व्यप दिश्यते तस्मात् । यद्वा—श्रेष्ठः 'पञ्चवृत्तिश्च' पञ्चदासवान् पञ्चवृत्तिमां श्च, कुतः ? यतो 'मनोवत्' मनोदृष्टान्तेन पञ्चवृत्तिर्व्यपदिश्यते, अत इत्यध्याहारविपरिणामानुषङ्गपदभेदैस्तं विना वा स्पष्टार्थत्वात्तदुपात्त श्रुतिमेवोदाहरति—अत इति ॥ अथेतिश्रुतौ प्रमेयान्तरारम्भेऽथशब्दः। 'पञ्चवृत्त्या' पञ्चवृत्तिना 'एतत्' शरीरम् । कः पञ्चवृत्तिरित्याह—प्राण इति । वावेति निपातसमुदायः । प्रसिद्धौ । पञ्च वृत्तयः स्वरूपाणि यस्य स तथोक्तः । कास्ताः पञ्च वृत्तय इत्यत आह—प्राण इत्यादि । इति पञ्चवृत्तिरित्यन्वयः । अत्र प्राणादिशब्दाः देवतापराः, न तु जडप राः 'तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते' इत्युत्तरवाक्यविरोधा त् । एवं स्वरूपाण्यभिधाय दासानाह—तेभ्य इति । श्रुतिप्रसिद्धेभ्यः शरीरगतेभ्यश्चेत्यर्थः । पञ्चानां दासत्वोपपादनाय प्राणादिजन्यत्वमु क्तम् । कस्मात् कस्य जन्मेत्यतस्तद्विवृणोति—प्राणादिति ॥ (५) एवं दार्ष्टान्तिकार्थक श्रुत्यंशमुदाहृत्येदानीं मनोवदिति दृष्टा न्तं विवृण्वन् श्रुत्यंशमुदाहरति—यथेति । हेत्यास्वादने । प्रसिद्धौ वै शब्दः । सङ्कल्पविकल्पात्मकं मनः । करिष्ये यक्ष्ये इत्यादिक्रियाहेतुभू तः कामः सङ्कल्पः । स एव नानार्थविषयो विकल्पः । निश्चयरूपा बु द्धिः । अस्वरूपे स्वातन्त्र्याद्यस्वधर्मे स्वरूपत्वमतिः स्वधर्मत्वबुद्धिः अहङ्कारोऽभिमानः इति तत्त्वप्रदीपोक्तेः । स्मरणहेतुश्चित्तम् । चेतसः स्मरणस्य व्याप्तिर्बहुविषयकत्वं तदनुकूलशक्तिश्चेतना । चित्तिर्बुद्धिरिति ज्ञेया चित्तं तु स्मृतिकारणम् । बहुस्मरणशक्तिस्तु चेतनेत्यभिधीयते ॥