पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 702, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू - १०. ] दीपिकासहितम्. ६५५ ( ३ ) अत आह— सू—ॐ ॥ श्रेष्ठश्च ॥ ॐ ॥ ९ ॥ ‘ सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सू- क्ष्मश्चाथो स्थूलश्च । प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽ- थैनमाहुः सादिरनादिरिति ’ गौपवनश्रुतेः ॥ ९ ॥ ( ४ ) सू—ॐ ॥ न वायुक्रिये पृथगुपदेशात् ॥ ॐ ॥ १० ॥ चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते । ( ३ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे चः समुच्च- ये । तथा च यथेतेरे प्राणाः परमात्मन उत्पद्यन्ते तथा प्राणेषु ‘श्रेष्ठो’ मुख्यप्राणोऽपि परमात्मन उत्पद्यत इत्यर्थः । तत्त्वप्रदीपे तु उत्पद्यतेऽनु- त्पद्यते चेति चशब्दार्थ उक्तः । ननु कुतो मुख्यप्राणस्योत्पत्तिः । तद- ङ्गीकारे अनादित्वश्रुतिविरोधः इत्यत आह—सौक्ष्म्येणेति । सूक्ष्मरूपे- णैत्यर्थः । हेत्यास्वादने, प्रमाणप्रसिद्धौ वा । वैशब्दोऽवधारणे । ‘एषः’ मुख्यप्राणः ‘ अवतिष्ठते ’ सर्वदा तिष्ठति । ‘ स्थूलत्वेन ’ स्थूलभावेन तद्रूपेण ‘ उदेति ’ कदाचिदुत्पद्यते ‘ अथो ’ तस्मात् सूक्ष्मत्वेन सर्व- दा स्थितत्वात् स्थूलरूपेण कदाचित् उदितत्वाच्चासौ प्राणः सूक्ष्मः स्थूलश्चेत्युच्यते । परस्परसमुच्चये चौ । ननु स्थूलादिभावस्य स्वरूप- त्वात्कथं तस्योत्पत्त्यादीत्यत उक्तम्—प्रकृतित इति । स्वभावत इत्य- र्थः । ‘ अन्यतः ’ शरीरादितः । तथा च स्थौल्यादिकं न स्वरूपमिति भावः । यद्यप्यस्येतरजीवसाधारणत्वान्न विशेषत्वम् । तथाऽपि शरी- रादिष्वेवायं स्थूलो, न त्वितरजीवानामिव चैतन्ये । तदभिमानकृत- विक्रियाविशेषषानिति भवति विशेषः । ‘ अथ ’ तस्मात्स्वरूपेणानुत्प- त्तिमत्त्वात्स्थूलरूपेणोत्पत्तिमत्त्वाच्च ‘ एनं ’ मुख्यं सादिरनादिरित्याहु- र्विद्वांस इत्यर्थः । श्रुतेरित्यस्य श्रेष्ठश्चोत्पद्यते अनुत्पद्यते चेति गम्यत इति सूत्रेणान्वयः ॥ ( ४ ) ननु प्राणानुत्पत्तिश्रुतिः सयुक्तिकत्वेन प्रबला, अतः कथमु- त्पत्तिश्रुतिमात्रानुसारणान्यथा व्याख्यायते । अपि तु उत्पत्तिश्रुतिरेव चेष्टाबाह्यवायुविषयतया व्याख्यातव्या । तयोरपि ‘ चेष्टायाम् ’ इति वाक्ये प्राणशब्दवाच्यत्वोक्तेरेतयोरनुत्पत्तिवचनाभावेन उत्पत्त्यङ्गीका- रे विरोधाभावात् इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य व्याचष्टे—नेति ॥ चे- ष्टा स्पन्दनम् । बाह्यो भूतवायुः । चौ परस्परसमुच्चये । ‘ गीयते ’ प्रयु