पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 703, कुल 1267 में से
संदर्भ में पढ़ें६५६ ब्रह्मसूत्रभाष्यम् [ अध्या - २. पा - ४. ] प्राणशब्दस्त्रिषु ह्येषु मुख्ये मुख्यः प्रकीर्तितः । इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । (५) ‘स प्राणमसृजत ....खं वायुर्ज्योतिरापः....तपो म- न्त्राः कर्म’ (प्र.६-४.) इति पृथगुपदेशात् । • ज्यते एषु त्रिषु मध्ये ‘मुख्ये’ मुख्यप्राणे ‘मणिर्मुख्यं प्रधानञ्चेत्युभय- स्य वचो भवेत्’ इत्यभिधानात् ‘मुख्यः’ मुख्यवृत्तिमान् प्रकीर्तितो वृद्धैरित्यर्थः । इति व्यपदेशादित्यन्वयः । प्राणशब्दस्येति शेषः । तथा च प्राणशब्दस्य ‘चेष्टायाम्’ इति वाक्ये वायुक्रिययोरपि ‘व्यपदेशा- त्’ इत्युक्तेः ‘उत्पत्तिश्रुतिः’ ‘प्राणोजायत’ इत्युत्पत्तिवाक्यं ‘तयो- रुत्पत्तिश्रुतिः स्यात्’ तयोरुत्पत्तिवादिनी स्यादिति नोपपद्यते इति योजना । अनेन वायुक्रिये इति साध्यांशो व्याख्यातः ॥ (५) कुतो नेत्यतस्तत्र हेतुतया पृथगुपदेशादित्येतद्योजयति— स इति ॥ अत्र ‘उपदेशात्’ ‘आत्मनः’ इति वाक्यापेक्षया अन्यस्मा- त् ‘स प्राणमसृजत’ इति स्पष्टवाक्यादिति प्रथमं योज्यम् । अत्रा- पि चेष्टादिकं वाच्यं किं न स्यादित्याशङ्कायां तन्न हेतुत्वेन पृथगुपदे- शादिति समग्रं योजनीयम, तथा च इति षट्प्रश्नश्रुतौ स प्राणमित्युक्त्वा- त् प्राणाद्वायुकर्मणोः पृथगभिधानादित्यन्वयः । तथा च ‘सः’ इति श्रुतेरपिवायुक्रियोत्पत्तिपरत्वे पुनः वायुः कर्म चेति वायुचेष्टयोः पृथ- गुप्त्यभिधानं पुनरुक्तं स्यात्, अतो न तस्यास्तद्विषयत्वमितिभावः । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियम् । मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ इति मन्त्रस्यायमर्थः—‘सः’ प्रकृतः परमपुरुषो भगवान् पुरुष ‘प्राणं’ जीवकलाभिमानिनमसृजत् । ‘प्राणाच्छ्रद्धां’ प्राणं निमित्तीकृत्य जीव- स्यास्तिक्यनिष्ठां भारतीमसृजत । ततश्च ‘खं’ आकाशं वायुः ‘ज्यो- तिः’ तेज आपः पृथिवी इत्येतानि शरीरोपादानभूतानि पञ्चभूतान्यसृ- जत् । ततः ‘इन्द्रियं’ जीवस्य प्रवृत्त्युपकरणानि चक्षुरादीन्द्रियाणि प्रधानकरणं मनः तत्स्थितिकारणमन्नं चासृजत् । तस्मादन्नं निमि- त्तीकृत्य शरीरहेतुभूतं ‘वीर्यं’ रेतोऽसृजत् । ततो जीवस्य ज्ञानादिहे- तुतया सुखसाधनं तपोऽसृजत् । ततो ‘मन्त्राः’ जीवस्य साक्षात् ज्ञा- नादिहेतवो ये ऋगाद्याः तानसृजत् । यच्च सुखादिनिमित्तं पुण्यापुण्य-